📚 Valmiki Ramayana · Yuddha Kanda

6.34 युद्धकाण्ड - चतुस्त्रिंश सर्गः

Sarga 34

✍️ Author Maharishi Valmiki 🖋️ Devanagari script 🔢 26 verses
📄 Download PDF
View: Text in this script too →
🖋️ Script: हिन्दी ▾
Meaning —
श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ चतुस्त्रिंशस्सर्गः ।
Shloka 1
अथताञ्जातन्तापान्तेनवाक्येनमोहिताम् ।
सरमाह्लादयामासमहीङ्घौरीमिवाम्भसा ॥ 1 ॥
athatāñjātantāpāntenavākyenamohitām |
saramāhlādayāmāsamahīṅghaurīmivāmbhasā || 1 ||
Shloka 2
ततस्तस्याहितंसख्याश्चिकीर्षन्तीसखीवचः ।
उवाचकालेकालज्ञास्मितपूर्वाभिभाषिणी ॥ 2 ॥
tatastasyāhitaṃsakhyāścikīrṣantīsakhīvacaḥ |
uvācakālekālajñāsmitapūrvābhibhāṣiṇī || 2 ||
Shloka 3
उत्सहेयमहङ्गत्वात्वद्वाक्यमसितेक्षणेः ।
निवेद्यकुशलंरामेप्रतिच्छन्नानिवर्तितुम् ॥ 3 ॥
utsaheyamahaṅgatvātvadvākyamasitekṣaṇeḥ |
nivedyakuśalaṃrāmepraticchannānivartitum || 3 ||
Shloka 4
नहिमेक्रममाणायानिरालम्बेविहायसि ।
समर्थोगतिमन्वेतुम्पवनोगरुडोऽपिवा ॥ 4 ॥
nahimekramamāṇāyānirālambevihāyasi |
samarthogatimanvetumpavanogaruḍo'pivā || 4 ||
Shloka 5
एवम्ब्रुवाणान्तांसीतासरमाम्पुनरब्रवीत् ।
मधुरंश्लक्क्षणयावाचापूर्वशोकाभिपन्नया ॥ 5 ॥
evambruvāṇāntāṃsītāsaramāmpunarabravīt |
madhuraṃślakkṣaṇayāvācāpūrvaśokābhipannayā || 5 ||
Shloka 6
समर्थागगनङ्गन्तुमपिवात्वंरसातलम् ।
अवगच्छाम्यकर्तव्यङ्कर्तव्यन्तेमदन्तरे ॥ 6 ॥
samarthāgaganaṅgantumapivātvaṃrasātalam |
avagacchāmyakartavyaṅkartavyantemadantare || 6 ||
Shloka 7
मत्प्रियंयदिकर्तव्यंयदिबुद्धिः स्थिरातव ।
ज्ञातुमिच्छामितङ्गत्वाकिङ्करोतीतिरावणः ॥ 7 ॥
matpriyaṃyadikartavyaṃyadibuddhiḥ sthirātava |
jñātumicchāmitaṅgatvākiṅkarotītirāvaṇaḥ || 7 ||
Shloka 8
सहिमायाबलःक्रूरोरावणश्शत्रुरावणः ।
माम्मोहयतिदुष्टात्मापीतामात्रेववारुणी ॥ 8 ॥
sahimāyābalaḥkrūrorāvaṇaśśatrurāvaṇaḥ |
māmmohayatiduṣṭātmāpītāmātrevavāruṇī || 8 ||
Shloka 9
तर्जापयतिमान्नित्यम्भर्त्सापयतिचासकृत् ।
राक्षसीभिस्सुघूराभिर्यामांरक्षन्तिनित्यशः ॥ 9 ॥
tarjāpayatimānnityambhartsāpayaticāsakṛt |
rākṣasībhissughūrābhiryāmāṃrakṣantinityaśaḥ || 9 ||
Shloka 10
उद्विग्नाशङ्किताचास्मिनस्वस्थञ्चमनोमम ।
तद्भयाच्चाहमुद्विग्नाअशोकवनिकाङ्गता ॥ 10 ॥
udvignāśaṅkitācāsminasvasthañcamanomama |
tadbhayāccāhamudvignāaśokavanikāṅgatā || 10 ||
Shloka 11
यदिनामकथातस्यनिश्चितंवापियद्भवेत् ।
निवेदयेथास्सर्वन्तत्परोमेस्यादमनुग्रहः ॥ 11 ॥
yadināmakathātasyaniścitaṃvāpiyadbhavet |
nivedayethāssarvantatparomesyādamanugrahaḥ || 11 ||
Shloka 12
सात्वेवम्ब्रुवतींसीतांसरमावल्गुभाषिणी ।
उवाचवदनन्तस्यास्स्पृशन्तीबाष्पविक्लबम् ॥ 12 ॥
sātvevambruvatīṃsītāṃsaramāvalgubhāṣiṇī |
uvācavadanantasyāsspṛśantībāṣpaviklabam || 12 ||
Shloka 13
एषतेयद्यभिप्रायस्तदागच्छामिजानकीः ।
गृह्यशत्रोरभिप्रायमुपावृत्ताञ्चपश्यमाम् ॥ 13 ॥
eṣateyadyabhiprāyastadāgacchāmijānakīḥ |
gṛhyaśatrorabhiprāyamupāvṛttāñcapaśyamām || 13 ||
Shloka 14
एवमुक्त्वाततोगत्वासमीपन्तस्यरक्षसः ।
शुश्रावकथितन्तस्यरावणस्यसमन्त्रिणः ॥ 14 ॥
evamuktvātatogatvāsamīpantasyarakṣasaḥ |
śuśrāvakathitantasyarāvaṇasyasamantriṇaḥ || 14 ||
Shloka 15
साश्रुत्वानिश्चयन्तस्यनिश्चयज्ञादुरात्मनः ।
पुनरेवागमत्क्षिप्रमशोकवनिकांशुभाम् ॥ 15 ॥
sāśrutvāniścayantasyaniścayajñādurātmanaḥ |
punarevāgamatkṣipramaśokavanikāṃśubhām || 15 ||
Shloka 16
साप्रविष्टाततस्तत्रददर्शजनकात्मजाम् ।
प्रतीक्षमाणांस्वामेवभ्रष्टपद्मामिवश्रियम् ॥ 16 ॥
sāpraviṣṭātatastatradadarśajanakātmajām |
pratīkṣamāṇāṃsvāmevabhraṣṭapadmāmivaśriyam || 16 ||
Shloka 17
तान्तुसीतापुनःप्राप्तांसरमांवल्गुभाषिणीम् ।
परिष्वज्यचसुस्निग्धन्ददौचस्वयमासनम् ॥ 17 ॥
tāntusītāpunaḥprāptāṃsaramāṃvalgubhāṣiṇīm |
pariṣvajyacasusnigdhandadaucasvayamāsanam || 17 ||
Shloka 18
इहासीनासुखंसर्वमाख्याहिममतत्त्वतः ।
क्रूरस्यनिश्चयन्तस्यरावणस्यदुरात्मनः ॥ 18 ॥
ihāsīnāsukhaṃsarvamākhyāhimamatattvataḥ |
krūrasyaniścayantasyarāvaṇasyadurātmanaḥ || 18 ||
Shloka 19
दीयतामभिसत्कृत्यमनुजेन्द्रायमैथिली ।
निदर्शनन्तेपर्याप्तञ्जनस्थानेयदद्भुतम् ॥ 19 ॥
dīyatāmabhisatkṛtyamanujendrāyamaithilī |
nidarśananteparyāptañjanasthāneyadadbhutam || 19 ||
Shloka 20
लङ्घनञ्चसमुद्रस्यदर्शनञ्चहनूमतः ।
वधञ्चरक्षसांयुद्धेकःकुर्यान्मानुषोभुवि ॥ 20 ॥
laṅghanañcasamudrasyadarśanañcahanūmataḥ |
vadhañcarakṣasāṃyuddhekaḥkuryānmānuṣobhuvi || 20 ||
Shloka 21
एवंसमन्त्रिवृद्धैश्चाविद्धेनबहुभाषितः ।
नत्वामुत्पनिहतेमोक्तुमर्थमर्थपरोयथा ॥ 21 ॥
evaṃsamantrivṛddhaiścāviddhenabahubhāṣitaḥ |
natvāmutpanihatemoktumarthamarthaparoyathā || 21 ||
Shloka 22
नोत्सहत्यमृतोमोक्तुंयुद्धेत्वामितिमैथिलीः ।
सामात्यस्यनृशंसस्यनिश्चयोह्येषवर्तते ॥ 22 ॥
notsahatyamṛtomoktuṃyuddhetvāmitimaithilīḥ |
sāmātyasyanṛśaṃsasyaniścayohyeṣavartate || 22 ||
Shloka 23
तदेषासुस्थिराबुद्धिर्मृत्युलोभादुपस्थिता ।
भयान्नशक्तस्त्वाम्मोक्तुमनिरस्तस्संयुगे ॥ 23 ॥
tadeṣāsusthirābuddhirmṛtyulobhādupasthitā |
bhayānnaśaktastvāmmoktumanirastassaṃyuge || 23 ||
Shloka 24
रक्षसानाञ्चसर्वेषामात्मनश्चवधेनहि ।
निहत्यरावणंसङ् ख्येसर्वथानिशितैश्शरैः ॥ 24 ॥
rakṣasānāñcasarveṣāmātmanaścavadhenahi |
nihatyarāvaṇaṃsaṅ khyesarvathāniśitaiśśaraiḥ || 24 ||
Shloka 25
प्रतिनेष्यतिरामस्त्वामयोध्यामसितेक्षणेः ।
एतस्मिन्नन्तरेशब्दोभेरीशङ्खसमाकुलः ॥ 25 ॥
pratineṣyatirāmastvāmayodhyāmasitekṣaṇeḥ |
etasminnantareśabdobherīśaṅkhasamākulaḥ || 25 ||
Shloka 26
श्रुतोवानरसैन्यानाङ्कम्पयन् धरणीतलम् ।
श्रुत्वातुतद्वानरसैन्यशब्दंलङ्कागताराक्षसराजभृत्याः ।
नष्टौजसोदैन्यरीतचेष्टाःश्रेयोनपश्यन्तिनृपस्यदोषैः ॥ 26 ॥
śrutovānarasainyānāṅkampayan dharaṇītalam |
śrutvātutadvānarasainyaśabdaṃlaṅkāgatārākṣasarājabhṛtyāḥ |
naṣṭaujasodainyarītaceṣṭāḥśreyonapaśyantinṛpasyadoṣaiḥ || 26 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे चतुस्त्रिंशस्सर्गः ॥
Sanskrit — Devanagari (original)
श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ चतुस्त्रिंशस्सर्गः ।
अथताञ्जातन्तापान्तेनवाक्येनमोहिताम् ।
सरमाह्लादयामासमहीङ्घौरीमिवाम्भसा ॥ 1 ॥
ततस्तस्याहितंसख्याश्चिकीर्षन्तीसखीवचः ।
उवाचकालेकालज्ञास्मितपूर्वाभिभाषिणी ॥ 2 ॥
उत्सहेयमहङ्गत्वात्वद्वाक्यमसितेक्षणेः ।
निवेद्यकुशलंरामेप्रतिच्छन्नानिवर्तितुम् ॥ 3 ॥
नहिमेक्रममाणायानिरालम्बेविहायसि ।
समर्थोगतिमन्वेतुम्पवनोगरुडोऽपिवा ॥ 4 ॥
एवम्ब्रुवाणान्तांसीतासरमाम्पुनरब्रवीत् ।
मधुरंश्लक्क्षणयावाचापूर्वशोकाभिपन्नया ॥ 5 ॥
समर्थागगनङ्गन्तुमपिवात्वंरसातलम् ।
अवगच्छाम्यकर्तव्यङ्कर्तव्यन्तेमदन्तरे ॥ 6 ॥
मत्प्रियंयदिकर्तव्यंयदिबुद्धिः स्थिरातव ।
ज्ञातुमिच्छामितङ्गत्वाकिङ्करोतीतिरावणः ॥ 7 ॥
सहिमायाबलःक्रूरोरावणश्शत्रुरावणः ।
माम्मोहयतिदुष्टात्मापीतामात्रेववारुणी ॥ 8 ॥
तर्जापयतिमान्नित्यम्भर्त्सापयतिचासकृत् ।
राक्षसीभिस्सुघूराभिर्यामांरक्षन्तिनित्यशः ॥ 9 ॥
उद्विग्नाशङ्किताचास्मिनस्वस्थञ्चमनोमम ।
तद्भयाच्चाहमुद्विग्नाअशोकवनिकाङ्गता ॥ 10 ॥
यदिनामकथातस्यनिश्चितंवापियद्भवेत् ।
निवेदयेथास्सर्वन्तत्परोमेस्यादमनुग्रहः ॥ 11 ॥
सात्वेवम्ब्रुवतींसीतांसरमावल्गुभाषिणी ।
उवाचवदनन्तस्यास्स्पृशन्तीबाष्पविक्लबम् ॥ 12 ॥
एषतेयद्यभिप्रायस्तदागच्छामिजानकीः ।
गृह्यशत्रोरभिप्रायमुपावृत्ताञ्चपश्यमाम् ॥ 13 ॥
एवमुक्त्वाततोगत्वासमीपन्तस्यरक्षसः ।
शुश्रावकथितन्तस्यरावणस्यसमन्त्रिणः ॥ 14 ॥
साश्रुत्वानिश्चयन्तस्यनिश्चयज्ञादुरात्मनः ।
पुनरेवागमत्क्षिप्रमशोकवनिकांशुभाम् ॥ 15 ॥
साप्रविष्टाततस्तत्रददर्शजनकात्मजाम् ।
प्रतीक्षमाणांस्वामेवभ्रष्टपद्मामिवश्रियम् ॥ 16 ॥
तान्तुसीतापुनःप्राप्तांसरमांवल्गुभाषिणीम् ।
परिष्वज्यचसुस्निग्धन्ददौचस्वयमासनम् ॥ 17 ॥
इहासीनासुखंसर्वमाख्याहिममतत्त्वतः ।
क्रूरस्यनिश्चयन्तस्यरावणस्यदुरात्मनः ॥ 18 ॥
दीयतामभिसत्कृत्यमनुजेन्द्रायमैथिली ।
निदर्शनन्तेपर्याप्तञ्जनस्थानेयदद्भुतम् ॥ 19 ॥
लङ्घनञ्चसमुद्रस्यदर्शनञ्चहनूमतः ।
वधञ्चरक्षसांयुद्धेकःकुर्यान्मानुषोभुवि ॥ 20 ॥
एवंसमन्त्रिवृद्धैश्चाविद्धेनबहुभाषितः ।
नत्वामुत्पनिहतेमोक्तुमर्थमर्थपरोयथा ॥ 21 ॥
नोत्सहत्यमृतोमोक्तुंयुद्धेत्वामितिमैथिलीः ।
सामात्यस्यनृशंसस्यनिश्चयोह्येषवर्तते ॥ 22 ॥
तदेषासुस्थिराबुद्धिर्मृत्युलोभादुपस्थिता ।
भयान्नशक्तस्त्वाम्मोक्तुमनिरस्तस्संयुगे ॥ 23 ॥
रक्षसानाञ्चसर्वेषामात्मनश्चवधेनहि ।
निहत्यरावणंसङ् ख्येसर्वथानिशितैश्शरैः ॥ 24 ॥
प्रतिनेष्यतिरामस्त्वामयोध्यामसितेक्षणेः ।
एतस्मिन्नन्तरेशब्दोभेरीशङ्खसमाकुलः ॥ 25 ॥
श्रुतोवानरसैन्यानाङ्कम्पयन् धरणीतलम् ।
श्रुत्वातुतद्वानरसैन्यशब्दंलङ्कागताराक्षसराजभृत्याः ।
नष्टौजसोदैन्यरीतचेष्टाःश्रेयोनपश्यन्तिनृपस्यदोषैः ॥ 26 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे चतुस्त्रिंशस्सर्गः ॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version. It is a transliteration, not a translation — see “Meaning” for translations where available.
🕉 InfoLyter.in