📚 Valmiki Ramayana · Yuddha Kanda

6.15 युद्धकाण्ड - पञ्चदश सर्गः

Sarga 15

✍️ Author Maharishi Valmiki 🖋️ Devanagari script 🔢 14 verses
📄 Download PDF
View: Text in this script too →
🖋️ Script: हिन्दी ▾
Meaning —
श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ पञ्चदशस्सर्गः ।
Shloka 1
बृहस्पतेस्तुल्यमतेर्वचस्तन्निशम्ययत्नेनविभीषणस्य ।
ततोमहात्मावचनम्बभाषेतत्रेन्द्रजिन्नैरृतयूथमुख्यः ॥ 1 ॥
bṛhaspatestulyamatervacastanniśamyayatnenavibhīṣaṇasya |
tatomahātmāvacanambabhāṣetatrendrajinnairṛtayūthamukhyaḥ || 1 ||
Shloka 2
किन्नामतेतातकनिष्ठवाक्यमनर्थकञ्चेवेसुबसुभीतवच्च ।
अस्मिन्कुलेयोऽपिभवेन्नजातस्सोऽपीदृशन्नैववदेन्नकुर्यात् ॥ 2 ॥
kinnāmatetātakaniṣṭhavākyamanarthakañcevesubasubhītavacca |
asminkuleyo'pibhavennajātasso'pīdṛśannaivavadennakuryāt || 2 ||
Shloka 3
सत्त्वेनवीर्येणपराक्रमेणशौर्येणधैर्येणचतेजसाच ।
एकःकुलेऽस्मिन्पुरुषोविमुक्तोविभीषणस्तातकनिष्ठएषः ॥ 3 ॥
sattvenavīryeṇaparākrameṇaśauryeṇadhairyeṇacatejasāca |
ekaḥkule'sminpuruṣovimuktovibhīṣaṇastātakaniṣṭhaeṣaḥ || 3 ||
Shloka 4
किन्नामतौमानुषराजपुत्रावस्माकमेकेनहिराक्षसेन ।
सुप्राकृतेनापिरणेनिहन्तुमेतौशक्यौकुतोभीषयसेस्मभीरो ॥ 4 ॥
kinnāmataumānuṣarājaputrāvasmākamekenahirākṣasena |
suprākṛtenāpiraṇenihantumetauśakyaukutobhīṣayasesmabhīro || 4 ||
Shloka 5
त्रिलोकनाथोननुदेवराजश्शक्रोमयाभूमितलेनिविष्टः ।
भयार्पिताश्चापिदिशःप्रपन्नास्सर्वेतथादेवगणास्समग्राः ॥ 5 ॥
trilokanāthonanudevarājaśśakromayābhūmitaleniviṣṭaḥ |
bhayārpitāścāpidiśaḥprapannāssarvetathādevagaṇāssamagrāḥ || 5 ||
Shloka 6
ऐरावतोविस्वरमुन्नदन् सनिपातितोभूमितलेमयातु ।
विकृष्यदन्तौतुमयाप्रसह्यवित्रासितादेवगणास्समग्राः ॥ 6 ॥
airāvatovisvaramunnadan sanipātitobhūmitalemayātu |
vikṛṣyadantautumayāprasahyavitrāsitādevagaṇāssamagrāḥ || 6 ||
Shloka 7
सोऽहंसुराणामपिदर्पहन्तादैत्योत्तमानामपिशोकदाता ।
कथन्नरेन्द्रात्मजयोर्नशक्तोमनुष्ययोःप्राकृतयोस्सुवीर्यः ॥ 7 ॥
so'haṃsurāṇāmapidarpahantādaityottamānāmapiśokadātā |
kathannarendrātmajayornaśaktomanuṣyayoḥprākṛtayossuvīryaḥ || 7 ||
Shloka 8
अथेन्द्रकल्पस्यदुरासदस्यमहौजसस्तद्वचनन्निशम्य ।
ततोमहार्थवचनम्बभाषेविभीषणश्शस्त्रभृतांवरिष्ठः ॥ 8 ॥
athendrakalpasyadurāsadasyamahaujasastadvacananniśamya |
tatomahārthavacanambabhāṣevibhīṣaṇaśśastrabhṛtāṃvariṣṭhaḥ || 8 ||
Shloka 9
नतातमन्त्रेतवनिश्चयोऽस्तिबालस्त्वमद्याप्यविपक्वबुद्धिः ।
तस्मात्त्वयाप्यात्मविनाशनायवचोऽर्धहीनम्बहुविप्रलप्तम् ॥ 9 ॥
natātamantretavaniścayo'stibālastvamadyāpyavipakvabuddhiḥ |
tasmāttvayāpyātmavināśanāyavaco'rdhahīnambahuvipralaptam || 9 ||
Shloka 10
पुत्रप्रवादेवतुरावणस्यत्वमिन्द्रजिन्मित्रमुखोऽसिशत्रुः ।
यस्येदृशंराघवतोविनाशन्निशम्यमोहादनुमन्यसेत्वम् ॥ 10 ॥
putrapravādevaturāvaṇasyatvamindrajinmitramukho'siśatruḥ |
yasyedṛśaṃrāghavatovināśanniśamyamohādanumanyasetvam || 10 ||
Shloka 11
त्वमेव वध्यश्च सुदुर्मतिश्च ।
स चापि वध्यो य ऐहानयत्त्वाम् ।
बालं दृढं साहासिकं च योऽद्य ।
प्रावेशयन्मन्त्रक्R​तां समीपम् ॥ 11 ॥
tvameva vadhyaśca sudurmatiśca |
sa cāpi vadhyo ya aihānayattvām |
bālaṃ dṛḍhaṃ sāhāsikaṃ ca yo'dya |
prāveśayanmantrakR​tāṃ samīpam || 11 ||
Shloka 12
मूढोऽप्रगल्भोऽविनयोपपन्नस्तीक्षणस्वभावोऽल्पमतिर्दुरात्मा ।
मूर्खस्त्वमत्यर्थसुदुर्मतिश्चत्वमिन्द्रजिद्बालतयाब्रवीषि ॥ 12 ॥
mūḍho'pragalbho'vinayopapannastīkṣaṇasvabhāvo'lpamatirdurātmā |
mūrkhastvamatyarthasudurmatiścatvamindrajidbālatayābravīṣi || 12 ||
Shloka 13
कोब्रह्मदण्डप्रतिमप्रकाशानर्चिष्मतःकालनिकाशरूपान् ।
सहेतबाणान्यमदण्डकल्पान्समक्षमुक्तान्युधिराघवेण ॥ 13 ॥
kobrahmadaṇḍapratimaprakāśānarciṣmataḥkālanikāśarūpān |
sahetabāṇānyamadaṇḍakalpānsamakṣamuktānyudhirāghaveṇa || 13 ||
Shloka 14
धनानिरत्नानिसुभूषणानिवासांसिदिव्यानिमणींश्च ।
चित्रान् सीताञ्चरामायनिवेद्यदेवींवसेमराजन् निहवीतशोकाः ॥ 14 ॥
dhanāniratnānisubhūṣaṇānivāsāṃsidivyānimaṇīṃśca |
citrān sītāñcarāmāyanivedyadevīṃvasemarājan nihavītaśokāḥ || 14 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे पञ्चदशस्सर्गः ॥
Sanskrit — Devanagari (original)
श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ पञ्चदशस्सर्गः ।
बृहस्पतेस्तुल्यमतेर्वचस्तन्निशम्ययत्नेनविभीषणस्य ।
ततोमहात्मावचनम्बभाषेतत्रेन्द्रजिन्नैरृतयूथमुख्यः ॥ 1 ॥
किन्नामतेतातकनिष्ठवाक्यमनर्थकञ्चेवेसुबसुभीतवच्च ।
अस्मिन्कुलेयोऽपिभवेन्नजातस्सोऽपीदृशन्नैववदेन्नकुर्यात् ॥ 2 ॥
सत्त्वेनवीर्येणपराक्रमेणशौर्येणधैर्येणचतेजसाच ।
एकःकुलेऽस्मिन्पुरुषोविमुक्तोविभीषणस्तातकनिष्ठएषः ॥ 3 ॥
किन्नामतौमानुषराजपुत्रावस्माकमेकेनहिराक्षसेन ।
सुप्राकृतेनापिरणेनिहन्तुमेतौशक्यौकुतोभीषयसेस्मभीरो ॥ 4 ॥
त्रिलोकनाथोननुदेवराजश्शक्रोमयाभूमितलेनिविष्टः ।
भयार्पिताश्चापिदिशःप्रपन्नास्सर्वेतथादेवगणास्समग्राः ॥ 5 ॥
ऐरावतोविस्वरमुन्नदन् सनिपातितोभूमितलेमयातु ।
विकृष्यदन्तौतुमयाप्रसह्यवित्रासितादेवगणास्समग्राः ॥ 6 ॥
सोऽहंसुराणामपिदर्पहन्तादैत्योत्तमानामपिशोकदाता ।
कथन्नरेन्द्रात्मजयोर्नशक्तोमनुष्ययोःप्राकृतयोस्सुवीर्यः ॥ 7 ॥
अथेन्द्रकल्पस्यदुरासदस्यमहौजसस्तद्वचनन्निशम्य ।
ततोमहार्थवचनम्बभाषेविभीषणश्शस्त्रभृतांवरिष्ठः ॥ 8 ॥
नतातमन्त्रेतवनिश्चयोऽस्तिबालस्त्वमद्याप्यविपक्वबुद्धिः ।
तस्मात्त्वयाप्यात्मविनाशनायवचोऽर्धहीनम्बहुविप्रलप्तम् ॥ 9 ॥
पुत्रप्रवादेवतुरावणस्यत्वमिन्द्रजिन्मित्रमुखोऽसिशत्रुः ।
यस्येदृशंराघवतोविनाशन्निशम्यमोहादनुमन्यसेत्वम् ॥ 10 ॥
त्वमेव वध्यश्च सुदुर्मतिश्च ।
स चापि वध्यो य ऐहानयत्त्वाम् ।
बालं दृढं साहासिकं च योऽद्य ।
प्रावेशयन्मन्त्रक्R​तां समीपम् ॥ 11 ॥
मूढोऽप्रगल्भोऽविनयोपपन्नस्तीक्षणस्वभावोऽल्पमतिर्दुरात्मा ।
मूर्खस्त्वमत्यर्थसुदुर्मतिश्चत्वमिन्द्रजिद्बालतयाब्रवीषि ॥ 12 ॥
कोब्रह्मदण्डप्रतिमप्रकाशानर्चिष्मतःकालनिकाशरूपान् ।
सहेतबाणान्यमदण्डकल्पान्समक्षमुक्तान्युधिराघवेण ॥ 13 ॥
धनानिरत्नानिसुभूषणानिवासांसिदिव्यानिमणींश्च ।
चित्रान् सीताञ्चरामायनिवेद्यदेवींवसेमराजन् निहवीतशोकाः ॥ 14 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे पञ्चदशस्सर्गः ॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version. It is a transliteration, not a translation — see “Meaning” for translations where available.
🕉 InfoLyter.in