Meaning —
⏳ The meaning of this text is being prepared (AI translation with an accuracy check). This usually takes a few minutes — this page will refresh when it is ready.
The meaning is ready. Show it.
The meaning could not be prepared right now.
A translation in is not yet available for this text.
The original text and transliteration are shown below.
श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ दशमस्सर्गः ।
Shloka 1
ततःप्रत्युषसिप्राप्तेप्राप्तधर्मार्थनिश्चयः ।
राक्षसाधिपतेर्वेश्मभीमकर्माविभीषणः ॥ 1 ॥

tataḥpratyuṣasiprāpteprāptadharmārthaniścayaḥ |
rākṣasādhipaterveśmabhīmakarmāvibhīṣaṇaḥ || 1 ||

Shloka 2
शैलाग्रचयसङ्काशंशैलशृङ्गमिवोन्नतम् ।
सुविभक्तमहाकक्षम्महाजनपरिग्रहम् ॥ 2 ॥
सुविभक्तमहाकक्षम्महाजनपरिग्रहम् ॥ 2 ॥
śailāgracayasaṅkāśaṃśailaśṛṅgamivonnatam |
suvibhaktamahākakṣammahājanaparigraham || 2 ||

Shloka 3
मतिमद्भिर्महामात्रैरनुरक्तैरधिष्ठितम् ।
राक्षसैराप्तपर्याप्तैस्सर्वतःपरिरक्षितम् ॥ 3 ॥

matimadbhirmahāmātrairanuraktairadhiṣṭhitam |
rākṣasairāptaparyāptaissarvataḥparirakṣitam || 3 ||

Shloka 4
मत्तमातङ्गनिश्श्वासैर्व्याकुलीकृतमारुतम् ।
शङ्खघोषमहाघोषन्तूर्यनादानुनादितम् ॥ 4 ॥
शङ्खघोषमहाघोषन्तूर्यनादानुनादितम् ॥ 4 ॥
mattamātaṅganiśśvāsairvyākulīkṛtamārutam |
śaṅkhaghoṣamahāghoṣantūryanādānunāditam || 4 ||

Shloka 5
प्रमदाजनसम्बाधम्प्रजल्पितमहापथम् ।
तप्तकाञ्चननिर्यूहम्भूषणोत्तमभूषितम् ॥ 5 ॥

pramadājanasambādhamprajalpitamahāpatham |
taptakāñcananiryūhambhūṣaṇottamabhūṣitam || 5 ||

Shloka 6
गन्धर्वाणामिवाऽवासमालयम्मरुतामिव ।
रत्नसञ्चयसम्बाधम्भवनम्भोगिनामिव ॥ 6 ॥
रत्नसञ्चयसम्बाधम्भवनम्भोगिनामिव ॥ 6 ॥
gandharvāṇāmivā'vāsamālayammarutāmiva |
ratnasañcayasambādhambhavanambhogināmiva || 6 ||

Shloka 7
तम्महाभ्रमिवाऽदित्यस्तेजोविस्तृतरश्मिमान् ।
अग्रजस्यालयंवीरःप्रविवेशमहाद्युतिः ॥ 7 ॥

tammahābhramivā'dityastejovistṛtaraśmimān |
agrajasyālayaṃvīraḥpraviveśamahādyutiḥ || 7 ||

Shloka 8
पुण्यान्पुण्याहघोषांश्चवेदविद्भिरुदाहृतान् ।
शुश्रावसुमहातेजाभ्रातुर्विजयसंश्रितान् ॥ 8 ॥

puṇyānpuṇyāhaghoṣāṃścavedavidbhirudāhṛtān |
śuśrāvasumahātejābhrāturvijayasaṃśritān || 8 ||

Shloka 9
पूजितान् दधिपात्रैश्चसर्पिर्भिस्सुमनोक्षतैः ।
मन्त्रवेदविदोविप्रान्ददर्शसमहाबलः ॥ 9 ॥
मन्त्रवेदविदोविप्रान्ददर्शसमहाबलः ॥ 9 ॥
pūjitān dadhipātraiścasarpirbhissumanokṣataiḥ |
mantravedavidoviprāndadarśasamahābalaḥ || 9 ||

Shloka 10
सपूज्यमानोरक्षोभिद्दीप्यमानस्स्वतेजसा ।
आसनस्थम्महाबाहुर्ववन्देधनदानुजम् ॥ 10 ॥
आसनस्थम्महाबाहुर्ववन्देधनदानुजम् ॥ 10 ॥
sapūjyamānorakṣobhiddīpyamānassvatejasā |
āsanasthammahābāhurvavandedhanadānujam || 10 ||

Shloka 11
सराजदृष्टिसम्पन्नमासनंहेमभूषितम् ।
जगामसमुदाचारम्प्रयुज्याचारकोविदः ॥ 11 ॥
जगामसमुदाचारम्प्रयुज्याचारकोविदः ॥ 11 ॥
sarājadṛṣṭisampannamāsanaṃhemabhūṣitam |
jagāmasamudācāramprayujyācārakovidaḥ || 11 ||

Shloka 12
सरावणम्महात्मानंविजनेमन्त्रिसन्निधौ ।
उवाचहितमत्यर्थंवचनंहेतुनिश्चितम् ॥ 12 ॥
उवाचहितमत्यर्थंवचनंहेतुनिश्चितम् ॥ 12 ॥
sarāvaṇammahātmānaṃvijanemantrisannidhau |
uvācahitamatyarthaṃvacanaṃhetuniścitam || 12 ||

Shloka 13
प्रसाद्यभ्रातरञ्जेष्ठंसान्त्वेनोपस्थितक्रमः ।
देशकालार्थसंवादिदृष्टलोकपरावरः ॥ 13 ॥
देशकालार्थसंवादिदृष्टलोकपरावरः ॥ 13 ॥
prasādyabhrātarañjeṣṭhaṃsāntvenopasthitakramaḥ |
deśakālārthasaṃvādidṛṣṭalokaparāvaraḥ || 13 ||

Shloka 14
यदाप्रभृतिवैदेहीसम्प्रास्तेमाम्पुरीन्तव ।
तदाप्रभृतिदृश्यन्तेनिमित्तान्यशुभानिनः ॥ 14 ॥

yadāprabhṛtivaidehīsamprāstemāmpurīntava |
tadāprabhṛtidṛśyantenimittānyaśubhāninaḥ || 14 ||

Shloka 15
सस्फुलिङ्गस्सधूमार्चिस्सधूमकलुषोदयः ।
मन्त्रसङ्घहुतोऽप्यग्निर्नसम्यगभिवर्थते ॥ 15 ॥

sasphuliṅgassadhūmārcissadhūmakaluṣodayaḥ |
mantrasaṅghahuto'pyagnirnasamyagabhivarthate || 15 ||

Shloka 16
अग्निष्ठेष्वग्निशलासुतथाब्रह्मस्थालीषुच ।
सरीसृपाणिदृश्यन्तेहन्येषुचपिपीलिकाः ॥ 16 ॥

agniṣṭheṣvagniśalāsutathābrahmasthālīṣuca |
sarīsṛpāṇidṛśyantehanyeṣucapipīlikāḥ || 16 ||

Shloka 17
गवांसयांसिस्कन्नानिविमदावीरकुञ्जराः ।
दीनमश्वाःप्रहेषन्तेनचग्रासाभिनन्दिनः ॥ 17 ॥

gavāṃsayāṃsiskannānivimadāvīrakuñjarāḥ |
dīnamaśvāḥpraheṣantenacagrāsābhinandinaḥ || 17 ||

Shloka 18
खरोष्ट्राश्वतराराजभनभिन्नरोमास्स्रवन्तिच ।
नस्वभावेऽवतिष्ठन्तिविधानैरपिचिन्तिताः ॥ 18 ॥

kharoṣṭrāśvatarārājabhanabhinnaromāssravantica |
nasvabhāve'vatiṣṭhantividhānairapicintitāḥ || 18 ||

Shloka 19
वायसाःसङ्घशःक्रूराव्याहरन्तिसमन्ततः ।
समवेताश्चदृश्यन्तेविमानाग्रेषुसङ्घशः ॥ 19 ॥

vāyasāḥsaṅghaśaḥkrūrāvyāharantisamantataḥ |
samavetāścadṛśyantevimānāgreṣusaṅghaśaḥ || 19 ||

Shloka 20
गृध्राश्चपरिलीयन्तेपुरीमुपरिपिण्डिताः ।
उपपन्नाश्चस्नध्येद्वेव्याहऱ्नत्यशिवंशिवाः ॥ 20 ॥

gṛdhrāścaparilīyantepurīmuparipiṇḍitāḥ |
upapannāścasnadhyedvevyāhaṟnatyaśivaṃśivāḥ || 20 ||

Shloka 21
क्रव्यादानाम्मृगाणाञ्चपुरीद्वारेषुसङ्घशः ।
श्रूयन्तेविपुलाघोषास्सविस्फूर्जितनिस्स्वनाः ॥ 21 ॥

kravyādānāmmṛgāṇāñcapurīdvāreṣusaṅghaśaḥ |
śrūyantevipulāghoṣāssavisphūrjitanissvanāḥ || 21 ||

Shloka 22
तदेवम्प्रस्तुतेकार्येप्रायश्चित्तमिदङ्क्षमम् ।
रोचतेयदिवैदेहीराघवायप्रदीयताम् ॥ 22 ॥
रोचतेयदिवैदेहीराघवायप्रदीयताम् ॥ 22 ॥
tadevamprastutekāryeprāyaścittamidaṅkṣamam |
rocateyadivaidehīrāghavāyapradīyatām || 22 ||

Shloka 23
इदञ्चयदिवामोहाल्लोभाद्वाव्याहृतम्मया ।
तत्रापिचमहाराज नदोषङ्कर्तुमर्हसि ॥ 23 ॥
तत्रापिचमहाराज नदोषङ्कर्तुमर्हसि ॥ 23 ॥
idañcayadivāmohāllobhādvāvyāhṛtammayā |
tatrāpicamahārāja nadoṣaṅkartumarhasi || 23 ||

Shloka 24
अयंहिदोषस्सर्वस्यजनस्यास्योपलक्ष्यते ।
रक्षसांराक्षसीनाञ्चपुरस्यान्तःपुरस्यच ॥ 24 ॥

ayaṃhidoṣassarvasyajanasyāsyopalakṣyate |
rakṣasāṃrākṣasīnāñcapurasyāntaḥpurasyaca || 24 ||

Shloka 25
श्रावणेचास्यमन्त्रस्यनिवृत्तास्सर्वमन्त्रिणः ।
अवश्यञ्चमयावाच्यंयद्दृष्टमपिवाश्रुतम् ॥ 25 ॥

śrāvaṇecāsyamantrasyanivṛttāssarvamantriṇaḥ |
avaśyañcamayāvācyaṃyaddṛṣṭamapivāśrutam || 25 ||

Shloka 26
हितम्महार्थम्मृदुहेतुसंहितंव्यतीतकालायतिसम्प्रतिक्षमम् ।
निशम्यतद्वाक्यमुपस्थितज्वरःप्रसङ्गवानुत्तरमेतदब्रवीत् ॥ 26 ॥

hitammahārthammṛduhetusaṃhitaṃvyatītakālāyatisampratikṣamam |
niśamyatadvākyamupasthitajvaraḥprasaṅgavānuttarametadabravīt || 26 ||

Shloka 27
भयन्नपश्यामिकुतश्चिदप्यहन्नराघवःप्राप्स्यतिजातुमैथिलीम् ।
सुरैस्सहेन्द्रैरपिसङ्गरेकथम्ममाग्रतस्स्थास्यतिलक्ष्मणाग्रजः ॥ 27 ॥

bhayannapaśyāmikutaścidapyahannarāghavaḥprāpsyatijātumaithilīm |
suraissahendrairapisaṅgarekathammamāgratassthāsyatilakṣmaṇāgrajaḥ || 27 ||

Shloka 28
इत्येवमुक्त्वासुरसैन्यनाशनोमहाबलस्संयतिचण्डविक्रमः ।
दशाननोभ्रातरमाप्तवादिनंविसर्जयामासतदाविभीषणम् ॥ 28 ॥

ityevamuktvāsurasainyanāśanomahābalassaṃyaticaṇḍavikramaḥ |
daśānanobhrātaramāptavādinaṃvisarjayāmāsatadāvibhīṣaṇam || 28 ||

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे दशमस्सर्गः ॥
Sanskrit — Devanagari (original)
श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ दशमस्सर्गः ।
ततःप्रत्युषसिप्राप्तेप्राप्तधर्मार्थनिश्चयः ।
राक्षसाधिपतेर्वेश्मभीमकर्माविभीषणः ॥ 1 ॥
शैलाग्रचयसङ्काशंशैलशृङ्गमिवोन्नतम् ।
सुविभक्तमहाकक्षम्महाजनपरिग्रहम् ॥ 2 ॥
मतिमद्भिर्महामात्रैरनुरक्तैरधिष्ठितम् ।
राक्षसैराप्तपर्याप्तैस्सर्वतःपरिरक्षितम् ॥ 3 ॥
मत्तमातङ्गनिश्श्वासैर्व्याकुलीकृतमारुतम् ।
शङ्खघोषमहाघोषन्तूर्यनादानुनादितम् ॥ 4 ॥
प्रमदाजनसम्बाधम्प्रजल्पितमहापथम् ।
तप्तकाञ्चननिर्यूहम्भूषणोत्तमभूषितम् ॥ 5 ॥
गन्धर्वाणामिवाऽवासमालयम्मरुतामिव ।
रत्नसञ्चयसम्बाधम्भवनम्भोगिनामिव ॥ 6 ॥
तम्महाभ्रमिवाऽदित्यस्तेजोविस्तृतरश्मिमान् ।
अग्रजस्यालयंवीरःप्रविवेशमहाद्युतिः ॥ 7 ॥
पुण्यान्पुण्याहघोषांश्चवेदविद्भिरुदाहृतान् ।
शुश्रावसुमहातेजाभ्रातुर्विजयसंश्रितान् ॥ 8 ॥
पूजितान् दधिपात्रैश्चसर्पिर्भिस्सुमनोक्षतैः ।
मन्त्रवेदविदोविप्रान्ददर्शसमहाबलः ॥ 9 ॥
सपूज्यमानोरक्षोभिद्दीप्यमानस्स्वतेजसा ।
आसनस्थम्महाबाहुर्ववन्देधनदानुजम् ॥ 10 ॥
सराजदृष्टिसम्पन्नमासनंहेमभूषितम् ।
जगामसमुदाचारम्प्रयुज्याचारकोविदः ॥ 11 ॥
सरावणम्महात्मानंविजनेमन्त्रिसन्निधौ ।
उवाचहितमत्यर्थंवचनंहेतुनिश्चितम् ॥ 12 ॥
प्रसाद्यभ्रातरञ्जेष्ठंसान्त्वेनोपस्थितक्रमः ।
देशकालार्थसंवादिदृष्टलोकपरावरः ॥ 13 ॥
यदाप्रभृतिवैदेहीसम्प्रास्तेमाम्पुरीन्तव ।
तदाप्रभृतिदृश्यन्तेनिमित्तान्यशुभानिनः ॥ 14 ॥
सस्फुलिङ्गस्सधूमार्चिस्सधूमकलुषोदयः ।
मन्त्रसङ्घहुतोऽप्यग्निर्नसम्यगभिवर्थते ॥ 15 ॥
अग्निष्ठेष्वग्निशलासुतथाब्रह्मस्थालीषुच ।
सरीसृपाणिदृश्यन्तेहन्येषुचपिपीलिकाः ॥ 16 ॥
गवांसयांसिस्कन्नानिविमदावीरकुञ्जराः ।
दीनमश्वाःप्रहेषन्तेनचग्रासाभिनन्दिनः ॥ 17 ॥
खरोष्ट्राश्वतराराजभनभिन्नरोमास्स्रवन्तिच ।
नस्वभावेऽवतिष्ठन्तिविधानैरपिचिन्तिताः ॥ 18 ॥
वायसाःसङ्घशःक्रूराव्याहरन्तिसमन्ततः ।
समवेताश्चदृश्यन्तेविमानाग्रेषुसङ्घशः ॥ 19 ॥
गृध्राश्चपरिलीयन्तेपुरीमुपरिपिण्डिताः ।
उपपन्नाश्चस्नध्येद्वेव्याहऱ्नत्यशिवंशिवाः ॥ 20 ॥
क्रव्यादानाम्मृगाणाञ्चपुरीद्वारेषुसङ्घशः ।
श्रूयन्तेविपुलाघोषास्सविस्फूर्जितनिस्स्वनाः ॥ 21 ॥
तदेवम्प्रस्तुतेकार्येप्रायश्चित्तमिदङ्क्षमम् ।
रोचतेयदिवैदेहीराघवायप्रदीयताम् ॥ 22 ॥
इदञ्चयदिवामोहाल्लोभाद्वाव्याहृतम्मया ।
तत्रापिचमहाराज नदोषङ्कर्तुमर्हसि ॥ 23 ॥
अयंहिदोषस्सर्वस्यजनस्यास्योपलक्ष्यते ।
रक्षसांराक्षसीनाञ्चपुरस्यान्तःपुरस्यच ॥ 24 ॥
श्रावणेचास्यमन्त्रस्यनिवृत्तास्सर्वमन्त्रिणः ।
अवश्यञ्चमयावाच्यंयद्दृष्टमपिवाश्रुतम् ॥ 25 ॥
हितम्महार्थम्मृदुहेतुसंहितंव्यतीतकालायतिसम्प्रतिक्षमम् ।
निशम्यतद्वाक्यमुपस्थितज्वरःप्रसङ्गवानुत्तरमेतदब्रवीत् ॥ 26 ॥
भयन्नपश्यामिकुतश्चिदप्यहन्नराघवःप्राप्स्यतिजातुमैथिलीम् ।
सुरैस्सहेन्द्रैरपिसङ्गरेकथम्ममाग्रतस्स्थास्यतिलक्ष्मणाग्रजः ॥ 27 ॥
इत्येवमुक्त्वासुरसैन्यनाशनोमहाबलस्संयतिचण्डविक्रमः ।
दशाननोभ्रातरमाप्तवादिनंविसर्जयामासतदाविभीषणम् ॥ 28 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे दशमस्सर्गः ॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
It is a transliteration, not a translation — see “Meaning” for translations where available.