📚 Valmiki Ramayana · Yuddha Kanda

6.99 युद्धकाण्ड - एकोनशततम सर्गः

Sarga 99

✍️ Author Maharishi Valmiki 🖋️ Devanagari script 🔢 26 verses
📄 Download PDF
View: Text in this script too →
🖋️ Script: हिन्दी ▾
Meaning —
श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ एकोनशततमस्सर्गः ।
Shloka 1
महोदरेतुनिहतेमहापार्श्वोमहाबलः ।
सुग्रीवेणसमीक्ष्याथक्रोधात्सम्ररक्तलोचनः ॥ 1 ॥
mahodaretunihatemahāpārśvomahābalaḥ |
sugrīveṇasamīkṣyāthakrodhātsamraraktalocanaḥ || 1 ||
Shloka 2
अङ्गदस्यचमूम्भीमाङ्क्षोभयामाससायकैः ।
सवानराणाम्मुख्यानामुत्तमाङ्गानिसर्वशः ॥ 2 ॥
aṅgadasyacamūmbhīmāṅkṣobhayāmāsasāyakaiḥ |
savānarāṇāmmukhyānāmuttamāṅgānisarvaśaḥ || 2 ||
Shloka 3
पातयामानकायेभ्यःफलंवृन्तादिवानिलः ।
केषाञ्चिदिषुभिर्बाहुन् स्कन्धांश्छिच्छेदराक्षसः च ॥ 3 ॥
pātayāmānakāyebhyaḥphalaṃvṛntādivānilaḥ |
keṣāñcidiṣubhirbāhun skandhāṃśchicchedarākṣasaḥ ca || 3 ||
Shloka 4
वानराणांसुङ्कृद्धः पार्श्वङ्केषांव्यदारयत् ।
तेऽर्दिताबाणवर्षेणमहापार्श्वेनवानराः ॥ 4 ॥
vānarāṇāṃsuṅkṛddhaḥ pārśvaṅkeṣāṃvyadārayat |
te'rditābāṇavarṣeṇamahāpārśvenavānarāḥ || 4 ||
Shloka 5
विषादविमुखाःसर्वेबभूवुर्गतचेतसः ।
निरीक्ष्यबलमुद्विग्नमङ्गदोराक्षसार्दितम् ॥ 5 ॥
viṣādavimukhāḥsarvebabhūvurgatacetasaḥ |
nirīkṣyabalamudvignamaṅgadorākṣasārditam || 5 ||
Shloka 6
पूरिता तेन शब्देन सनदीगिरिकानना ।
सञ्चचाल मही सर्वा सवराहमृगद्विपा ॥ 6 ॥
pūritā tena śabdena sanadīgirikānanā |
sañcacāla mahī sarvā savarāhamṛgadvipā || 6 ||
Shloka 7
समरेवानरश्रेष्ठोमहापार्श्वेन्यपातयत् ।
स तुतेनप्रहारेणमहापार्श्वोविचेतनः ॥ 7 ॥
samarevānaraśreṣṭhomahāpārśvenyapātayat |
sa tutenaprahāreṇamahāpārśvovicetanaḥ || 7 ||
Shloka 8
ससूतस्स्यन्दनात्तस्माद्विसञ्ज्ञश्चापतद्भुवि ।
स ऋक्षराजस्तेजस्वीनीलाञ्जनचयोपमः ॥ 8 ॥
sasūtassyandanāttasmādvisañjñaścāpatadbhuvi |
sa ṛkṣarājastejasvīnīlāñjanacayopamaḥ || 8 ||
Shloka 9
निष्पत्यसुमहावीर्यस्स्वाद्व्यूहन्मेघसन्निभात् ।
प्रगृह्यगिरिशृङ्गाभाङ्क्रुद्धस्सविपुलांशिलाम् ॥ 9 ॥
niṣpatyasumahāvīryassvādvyūhanmeghasannibhāt |
pragṛhyagiriśṛṅgābhāṅkruddhassavipulāṃśilām || 9 ||
Shloka 10
अश्वाञ्जघानतरसाबभञ्जतं स्यन्दनं च तम् ।
मुहूर्ताल्लब्धसञ्ज्ञस्तुमहापार्श्वोमहाबलः ॥ 10 ॥
aśvāñjaghānatarasābabhañjataṃ syandanaṃ ca tam |
muhūrtāllabdhasañjñastumahāpārśvomahābalaḥ || 10 ||
Shloka 11
अङ्गदम्बहुभिर्बाणैर्भूयस्तम्प्रत्यविध्यत ।
जाम्बवन्तन्त्रिभिर्बाणैराजघानस्तनान्तरे ॥ 11 ॥
aṅgadambahubhirbāṇairbhūyastampratyavidhyata |
jāmbavantantribhirbāṇairājaghānastanāntare || 11 ||
Shloka 12
ऋक्षराजङ्गवाक्षं च जघानबहुभिश्शरैः ।
जाम्बवन्तङ्गवाक्षं च स दृष्टवाशरपीडितौ ॥ 12 ॥
ṛkṣarājaṅgavākṣaṃ ca jaghānabahubhiśśaraiḥ |
jāmbavantaṅgavākṣaṃ ca sa dṛṣṭavāśarapīḍitau || 12 ||
Shloka 13
जग्राहपरिघङ्घोरमङ्गदःक्रोधमूर्छितः ।
तस्याङ्गदःप्रकुपितोराक्षसस्यतमायसम् ॥ 13 ॥
jagrāhaparighaṅghoramaṅgadaḥkrodhamūrchitaḥ |
tasyāṅgadaḥprakupitorākṣasasyatamāyasam || 13 ||
Shloka 14
दूरस्थितस्यपरिघंरविरश्मिसमप्रभम् ।
द्वावाभ्याम्भुजाभ्यांसङ्गृह्यभ्रामयित्वा च वेगवान् ॥ 14 ॥
dūrasthitasyaparighaṃraviraśmisamaprabham |
dvāvābhyāmbhujābhyāṃsaṅgṛhyabhrāmayitvā ca vegavān || 14 ||
Shloka 15
महापार्श्वस्यचिक्षेपवधार्थंवालिनस्सुतः ।
स तुक्षिप्तोबलवतापरिघन्तस्यरक्षसः ॥ 15 ॥
mahāpārśvasyacikṣepavadhārthaṃvālinassutaḥ |
sa tukṣiptobalavatāparighantasyarakṣasaḥ || 15 ||
Shloka 16
धनुश्चसशरंहस्ताछचिरस्त्राञ्चाप्यपातयत् ।
तंसमासाद्यवेगेनवालिपुत्रःप्रतापवान् ॥ 16 ॥
dhanuścasaśaraṃhastāchacirastrāñcāpyapātayat |
taṃsamāsādyavegenavāliputraḥpratāpavān || 16 ||
Shloka 17
तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुण्डले ।
स तुक्रुद्धोमहावेगोमहापार्श्वोमहाद्युति ॥ 17 ॥
talenābhyahanatkruddhaḥ karṇamūle sakuṇḍale |
sa tukruddhomahāvegomahāpārśvomahādyuti || 17 ||
Shloka 18
करेणैकेनजग्राहसुमहान्तम्परश्वथम् ।
तम्म्तैलधौतंविमलंशैलसारमयन्दृढम् ॥ 18 ॥
kareṇaikenajagrāhasumahāntamparaśvatham |
tammtailadhautaṃvimalaṃśailasāramayandṛḍham || 18 ||
Shloka 19
राक्षसःपरमक्रुद्धोवालिपुत्रेन्यपातयत् ।
तेनवामांसफलकेभृशम्प्रत्यवपादितम् ॥ 19 ॥
rākṣasaḥparamakruddhovāliputrenyapātayat |
tenavāmāṃsaphalakebhṛśampratyavapāditam || 19 ||
Shloka 20
अङ्गदोमोक्ष्यामाससरोषस्सपरश्वधम् ।
सवीरोवज्रसङ्काशमङ्गदोमुष्टिमात्मनः ॥ 20 ॥
aṅgadomokṣyāmāsasaroṣassaparaśvadham |
savīrovajrasaṅkāśamaṅgadomuṣṭimātmanaḥ || 20 ||
Shloka 21
संवर्तयत्सुसङ्कृद्धःपितृतुल्यपराक्रमः ।
राक्षसस्यस्तनाभ्याशेमर्मज्ञोहृदयम्प्रति ॥ 21 ॥
saṃvartayatsusaṅkṛddhaḥpitṛtulyaparākramaḥ |
rākṣasasyastanābhyāśemarmajñohṛdayamprati || 21 ||
Shloka 22
इन्द्राशनिमस्पर्शं स मुष्टिंविन्यपातयत् ।
तेनतस्यनिपातेनराक्षसस्यमहामृधे ॥ 22 ॥
indrāśanimasparśaṃ sa muṣṭiṃvinyapātayat |
tenatasyanipātenarākṣasasyamahāmṛdhe || 22 ||
Shloka 23
पफालहृदयञ्चास्य स पपातहतोभुवि ।
स्मिन्निपतितेभूमौतत्सैन्यंसम्प्रचुक्षुभे ॥ 23 ॥
paphālahṛdayañcāsya sa papātahatobhuvi |
sminnipatitebhūmautatsainyaṃsampracukṣubhe || 23 ||
Shloka 24
अभवच्चमहान्क्रोधस्समरेरावणस्यतु ।
वानराणांश्चहृष्टानांसिंहनादःसुपुष्कलः ॥ 24 ॥
abhavaccamahānkrodhassamarerāvaṇasyatu |
vānarāṇāṃścahṛṣṭānāṃsiṃhanādaḥsupuṣkalaḥ || 24 ||
Shloka 25
स्पोटयन्निवशब्देनलङ्कांसाट्टालगोपुराम् ।
महेन्द्रेणेवदेवानान्नादस्समभवन्महान् ॥ 25 ॥
spoṭayannivaśabdenalaṅkāṃsāṭṭālagopurām |
mahendreṇevadevānānnādassamabhavanmahān || 25 ||
Shloka 26
अथैन्द्रशत्रुस्त्रिदिवालयानांवनौकनाञ्चैवम्हाप्रणादम् ।
श्रुत्वासरोषंयुधिराक्षसेन्द्रः ।
पुनश्चयुद्धाभिमुखोऽवतस्थे ॥ 26 ॥
athaindraśatrustridivālayānāṃvanaukanāñcaivamhāpraṇādam |
śrutvāsaroṣaṃyudhirākṣasendraḥ |
punaścayuddhābhimukho'vatasthe || 26 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे एकोनशततमस्सर्गः ॥
Sanskrit — Devanagari (original)
श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ एकोनशततमस्सर्गः ।
महोदरेतुनिहतेमहापार्श्वोमहाबलः ।
सुग्रीवेणसमीक्ष्याथक्रोधात्सम्ररक्तलोचनः ॥ 1 ॥
अङ्गदस्यचमूम्भीमाङ्क्षोभयामाससायकैः ।
सवानराणाम्मुख्यानामुत्तमाङ्गानिसर्वशः ॥ 2 ॥
पातयामानकायेभ्यःफलंवृन्तादिवानिलः ।
केषाञ्चिदिषुभिर्बाहुन् स्कन्धांश्छिच्छेदराक्षसः च ॥ 3 ॥
वानराणांसुङ्कृद्धः पार्श्वङ्केषांव्यदारयत् ।
तेऽर्दिताबाणवर्षेणमहापार्श्वेनवानराः ॥ 4 ॥
विषादविमुखाःसर्वेबभूवुर्गतचेतसः ।
निरीक्ष्यबलमुद्विग्नमङ्गदोराक्षसार्दितम् ॥ 5 ॥
पूरिता तेन शब्देन सनदीगिरिकानना ।
सञ्चचाल मही सर्वा सवराहमृगद्विपा ॥ 6 ॥
समरेवानरश्रेष्ठोमहापार्श्वेन्यपातयत् ।
स तुतेनप्रहारेणमहापार्श्वोविचेतनः ॥ 7 ॥
ससूतस्स्यन्दनात्तस्माद्विसञ्ज्ञश्चापतद्भुवि ।
स ऋक्षराजस्तेजस्वीनीलाञ्जनचयोपमः ॥ 8 ॥
निष्पत्यसुमहावीर्यस्स्वाद्व्यूहन्मेघसन्निभात् ।
प्रगृह्यगिरिशृङ्गाभाङ्क्रुद्धस्सविपुलांशिलाम् ॥ 9 ॥
अश्वाञ्जघानतरसाबभञ्जतं स्यन्दनं च तम् ।
मुहूर्ताल्लब्धसञ्ज्ञस्तुमहापार्श्वोमहाबलः ॥ 10 ॥
अङ्गदम्बहुभिर्बाणैर्भूयस्तम्प्रत्यविध्यत ।
जाम्बवन्तन्त्रिभिर्बाणैराजघानस्तनान्तरे ॥ 11 ॥
ऋक्षराजङ्गवाक्षं च जघानबहुभिश्शरैः ।
जाम्बवन्तङ्गवाक्षं च स दृष्टवाशरपीडितौ ॥ 12 ॥
जग्राहपरिघङ्घोरमङ्गदःक्रोधमूर्छितः ।
तस्याङ्गदःप्रकुपितोराक्षसस्यतमायसम् ॥ 13 ॥
दूरस्थितस्यपरिघंरविरश्मिसमप्रभम् ।
द्वावाभ्याम्भुजाभ्यांसङ्गृह्यभ्रामयित्वा च वेगवान् ॥ 14 ॥
महापार्श्वस्यचिक्षेपवधार्थंवालिनस्सुतः ।
स तुक्षिप्तोबलवतापरिघन्तस्यरक्षसः ॥ 15 ॥
धनुश्चसशरंहस्ताछचिरस्त्राञ्चाप्यपातयत् ।
तंसमासाद्यवेगेनवालिपुत्रःप्रतापवान् ॥ 16 ॥
तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुण्डले ।
स तुक्रुद्धोमहावेगोमहापार्श्वोमहाद्युति ॥ 17 ॥
करेणैकेनजग्राहसुमहान्तम्परश्वथम् ।
तम्म्तैलधौतंविमलंशैलसारमयन्दृढम् ॥ 18 ॥
राक्षसःपरमक्रुद्धोवालिपुत्रेन्यपातयत् ।
तेनवामांसफलकेभृशम्प्रत्यवपादितम् ॥ 19 ॥
अङ्गदोमोक्ष्यामाससरोषस्सपरश्वधम् ।
सवीरोवज्रसङ्काशमङ्गदोमुष्टिमात्मनः ॥ 20 ॥
संवर्तयत्सुसङ्कृद्धःपितृतुल्यपराक्रमः ।
राक्षसस्यस्तनाभ्याशेमर्मज्ञोहृदयम्प्रति ॥ 21 ॥
इन्द्राशनिमस्पर्शं स मुष्टिंविन्यपातयत् ।
तेनतस्यनिपातेनराक्षसस्यमहामृधे ॥ 22 ॥
पफालहृदयञ्चास्य स पपातहतोभुवि ।
स्मिन्निपतितेभूमौतत्सैन्यंसम्प्रचुक्षुभे ॥ 23 ॥
अभवच्चमहान्क्रोधस्समरेरावणस्यतु ।
वानराणांश्चहृष्टानांसिंहनादःसुपुष्कलः ॥ 24 ॥
स्पोटयन्निवशब्देनलङ्कांसाट्टालगोपुराम् ।
महेन्द्रेणेवदेवानान्नादस्समभवन्महान् ॥ 25 ॥
अथैन्द्रशत्रुस्त्रिदिवालयानांवनौकनाञ्चैवम्हाप्रणादम् ।
श्रुत्वासरोषंयुधिराक्षसेन्द्रः ।
पुनश्चयुद्धाभिमुखोऽवतस्थे ॥ 26 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे एकोनशततमस्सर्गः ॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version. It is a transliteration, not a translation — see “Meaning” for translations where available.
🕉 InfoLyter.in