5.1 सुन्दरकाण्ड - प्रथम सर्गः

5.1 Sundarakanda - Prathama Sargah

✍️ Valmiki 🖋️ Devanagari script
📄 Download PDF
श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ प्रथमस्सर्गः ।
ततो रावणनीतायाः सीतायाः शत्रुकर्शनः ।
इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ 1 ॥
दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन् कर्म वानरः ।
समुदग्रशिरोग्रीवो गवाम्पतिरिवाबभौ ॥ 2 ॥
अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः ।
धीरः सलिलकल्पेषु विचचार यथासुखम् ॥ 3 ॥
द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन् ।
मृगांश्च सुबहून्निघ्नन् प्रवृद्ध इव केसरी ॥ 4 ॥
नीललोहितमाञ्जिष्ठपत्रवर्णैः सितासितैः ।
स्वभावविहितैश्चित्रैर्धातुभिः समलङ्कृतम् ॥ 5 ॥
कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः ।
यक्षकिन्नरगन्धर्वैर्देवकल्पैश्च पन्नगैः ॥ 6 ॥
स तस्य गिरिवर्यस्य तले नागवरायुते ।
तिष्ठन् कपिवरस्तत्र ह्रदे नाग इवाबभौ ॥ 7 ॥
स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे ।
भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥ 8 ॥
अञ्जलिं प्राङ्मुखः कुर्वन् पवनायात्मयोनये ।
ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम् ॥ 9 ॥
प्लवङ्गप्रवरैर्दृष्टः प्लवने कृतनिश्चयः ।
ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु ॥ 10 ॥
निष्प्रमाणशरीरः सन् लिलङ्घयिषुरर्णवम् ।
बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥ 11 ॥
स चचालाचलश्चापि मुहूर्तं कपिपीडितः ।
तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् ॥ 12 ॥
तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना ।
सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा ॥ 13 ॥
तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः ।
सलिलं सम्प्रसुस्राव मदं मत्त इव द्विपः ॥ 14 ॥
पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः ।
रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ॥ 15 ॥
मुमोच च शिलाः शैलो विशालाः समनःशिलाः ।
मध्यमेनार्चिषा जुष्टा धूमराजीरिवानलः ॥ 16 ॥
गिरिणा पीड्यमानेन पीड्यमानानि सर्वतः ।
गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः ॥ 17 ॥
स महासत्त्वसन्नादः शैलपीडानिमित्तजः ।
पृथिवीं पूरयामास दिशश्चोपवनानि च ॥ 18 ॥
शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः ।
वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः ॥ 19 ॥
तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः ।
जज्ज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा ॥ 20 ॥
यानि चौषधजालानि तस्मिन् जातानि पर्वते ।
विषघ्नान्यपि नागानां न शेकुः शमितुं विषम् ॥ 21 ॥
भिद्यतेऽयं गिरिर्भूतैरिति मत्त्वा तपस्विनः ।
त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्री गणैः सह ॥ 22 ॥
पानभूमिगतं हित्वा हैममासवभाजनम् ।
पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ॥ 23 ॥
लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च ।
आर्षभाणि च चर्माणि खडगांश्च कनकत्सरून् ॥ 24 ॥
कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः ।
रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥ 25 ॥
हारनूपुरकेयूरपारिहार्यधराः स्त्रियः ।
विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह ॥ 26 ॥
दर्शयन्तो महाविद्यां विद्याधरमहर्षयः ।
सहितास्तस्थुराकाशे वीक्षाञ्चक्रुश्च पर्वतम् ॥ 27 ॥
शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् ।
चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे ॥ 28 ॥
एष पर्वतसङ्काशो हनुमान् मारुतात्मजः ।
तितीर्षति महावेगस्समुद्रं मकरालयम् ॥ 29 ॥
रामार्थं वानरार्थं च चिकीर्षन् कर्म दुष्करम् ।
समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति ॥ 30 ॥
इति विद्याधराः श्रुत्वा वचस्तेषां महात्मनाम् ।
तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥ 31 ॥
दुधुवे च स रोमाणि चकम्पे चाचलोपमः ।
ननाद सुमहानादं सुमहानिव तोयदः ॥ 32 ॥
आनुपूर्व्येण वृत्तं च लाङ्गूलं लोमभिश्चितम् ।
उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् ॥ 33 ॥
तस्य लाङ्गूलमाविद्धमात्तवेगस्य पृष्ठतः ।
ददृशे गरुडेनेव ह्रियमाणो महोरगः ॥ 34 ॥
बाहू संस्तम्भयामास महापरिघसन्निभौ ।
ससाद च कपिः कट्यां चरणौ सञ्चुकोच च ॥ 35 ॥
संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम् ।
तेजः सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् ॥ 36 ॥
मार्गमालोकयन्दूरादूर्ध्वं प्रणिहितेक्षणः ।
रुरोध हृदये प्राणानाकाशमवलोकयन् ॥ 37 ॥
पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः ।
निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन् महाबलः ।
वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत् ॥ 38 ॥
यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः ।
गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् ॥ 39 ॥
न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् ।
अनेनैव हि वेगेन गमिष्यामि सुरालयम् ॥ 40 ॥
यदि वा त्रिदिवे सीतां न द्रक्ष्याम्यकृतश्रमः ।
बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ॥ 41 ॥
सर्वथा कृतकार्योऽहमेष्यामि सह सीतया ।
आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् ॥ 42 ॥
एवमुक्त्वा तु हनुमान्वानरान्वानरोत्तमः ॥ 43 ॥
उत्पपाताथ वेगेन वेगवानविचारयन् ।
सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः ॥ 44 ॥
समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः ।
संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः ॥ 45 ॥
स मत्तकोयष्टिमकान् पादपान् पुष्पशालिनः ।
उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे ॥ 46 ॥
ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः ।
प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः ॥ 47 ॥
तमूरुवेगोन्मथिताः सालाश्चान्ये नगोत्तमाः ।
अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥ 48 ॥
सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः ।
हनुमान् पर्वताकारो बभूवाद्भुतदर्शनः ॥ 49 ॥
सारवन्तोऽथ ये वृक्षा न्यमज्जन् लवणाम्भसि ।
भयादिव महेन्द्रस्य पर्वता वरुणालये ॥ 50 ॥
स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः ।
शुशुभे मेघसङ्काशः खद्योतैरिव पर्वतः ॥ 51 ॥
विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः ।
अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा ॥ 52 ॥
लघुत्वेनोपपन्नं तद्विचित्रं सागरेऽपतत् ।
द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् ॥ 53 ॥
ताराचितमिवाकाशं प्रबभौ स महार्णवः ।
पुष्पौघेणानुबद्धेन नानावर्णेन वानरः ।
बभौ मेघ इवाकाशे विद्युद्गण विभूषितः ॥ 54 ॥
तस्य वेगसमाधूतैः पुष्पैस्तोयमदृश्यत ॥ 55 ॥
ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ।
तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ ॥ 56 ॥
पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ।
पिबन्निव बभौ चापि सोर्मिमालं महार्णवम् ॥ 57 ॥
पिपासुरिव चाकाशं ददृशे स महाकपिः ।
तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः ॥ 58 ॥
नयने विप्रकाशेते पर्वतस्थाविवानलौ ।
पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले ॥ 59 ॥
चक्षुषी सम्प्राकाशेते चन्द्रसूर्याविवोदितौ ।
मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ ॥ 60 ॥
सन्ध्यया समभिस्पृष्टं यथा तत्सूर्यमण्डलम् ।
लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते ॥ 61 ॥
अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितम् ।
लाङ्गूलचक्रेण महान् शुक्लदंष्ट्रोऽनिलात्मजः ॥ 62 ॥
व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ।
स्फिग्देशेनाभिताम्रेण रराज स महाकपिः ॥ 63 ॥
महता दारितेनेव गिरिर्गैरिकधातुना ।
तस्य वानरसिंहस्य प्लवमानस्य सागरम् ॥ 64 ॥
कक्षान्तरगतो वायुर्जीमूत इव गर्जति ।
खे यथा निपतत्युल्का ह्युत्तरान्ताद्विनिःसृता ॥ 65 ॥
दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ।
पतत्पतङ्गसङ्काशो व्यायतः शुशुभे कपिः ॥ 66 ॥
प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया ।
उपरिष्टाच्छरीरेण छायया चावगाढया ॥ 67 ॥
सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ।
यं यं देशं समुद्रस्य जगाम स महाकपिः ।
स स तस्योरुवेगेन सोन्माद इव लक्ष्यते ॥ 68 ॥
सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम् ।
अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः ॥ 69 ॥
कपिवातश्च बलवान् मेघवातश्च निःसृतः ।
सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम् ॥ 70 ॥
विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि ।
पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी ॥ 71 ॥
मेरुमन्दरसङ्काशानुद्धतान् स महार्णवे ।
अत्यक्रामन्महावेगस्तरङ्गान् गणयन्निव ॥ 72 ॥
तस्य वेगसमुद्धूतं जलं सजलदं तदा ।
अम्बरस्थं विबभ्राज शारदाभ्रमिवाततम् ॥ 73 ॥
तिमिनक्रझषाः कूर्मा दृश्यन्ते विवृतास्तदा ।
वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ॥ 74 ॥
प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः ।
व्योम्नि तं कपिशार्दूलं सुपर्ण इति मेनिरे ॥ 75 ॥
दशयोजनविस्तीर्णा त्रिंशद्योजनमायता ।
छाया वानरसिंहस्य जले चारुतराभवत् ॥ 76 ॥
श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी ।
तस्य सा शुशुभे छाया वितता लवणाम्भसि ॥ 77 ॥
शुशुभे स महातेजा महाकायो महाकपिः ।
वायुमार्गे निरालम्बे पक्षवानिव पर्वतः ॥ 78 ॥
येनासौ याति बलवान् वेगेन कपिकुञ्जरः ।
तेन मार्गेण सहसा द्रोणीकृत इवार्णवः ॥ 79 ॥
आपाते पक्षिसङ्घानां पक्षिराज इव व्रजन् ।
हनुमान् मेघजालानि प्रकर्षन् मारुतो यथा ॥ 80 ॥
पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।
कपिनाकृष्यमाणानि महाभ्राणि चकाशिरे ॥ 81 ॥
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ।
प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥ 82 ॥
प्लवमानं तु तं दृष्ट्वा प्लवङ्गं त्वरितं तदा ।
ववर्षुः पुष्पवर्षाणि देवगन्धर्वदानवाः ॥ 83 ॥
तताप न हि तं सूर्यः प्लवन्तं वानरोत्तमम् ।
सिषेवे च तदा वायू रामकार्यार्थसिद्धये ॥ 84 ॥
ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा ।
जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसम् ॥ 85 ॥
नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः ।
प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम् ॥ 86 ॥
तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति ।
इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ॥ 87 ॥
साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः ।
करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ॥ 88 ॥
अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः ।
इक्ष्वाकुसचिवश्चायं नावसीदितुमर्हति ॥ 89 ॥
तथा मया विधातव्यं विश्रमेत यथा कपिः ॥ 90 ॥
शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति ।
इति कृत्वा मतिं साध्वींसमुद्र श्छन्नमम्भसि ॥ 91 ॥
हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ।
त्वमिहासुरसङ्घानां पातालतलवासिनाम् ॥ 92 ॥
देवराज्ञा गिरिश्रेष्ठ परिघः सन्निवेशितः ।
त्वमेषां जातवीर्याणां पुनरेवोत्पतिष्यताम् ॥ 93 ॥
पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ।
तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्धितुम् ॥ 94 ॥
तस्मात्सञ्चोदयामि त्वामुत्तिष्ठ गिरिसत्तम ।
स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् ॥ 95 ॥
हनूमान्रामकार्यार्थं भीमकर्मा खमाप्लुतः ।
अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः ॥ 96 ॥
मम हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ।
कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत् ॥ 97 ॥
कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् ।
सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि ॥ 98 ॥
अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः ।
चामीकरमहानाभ देवगन्धर्वसेवित ॥ 99 ॥
हनुमांस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति ।
काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम् ॥ 100 ॥
श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ।
हिरण्यनाभो मैनाको निशम्य लवणाम्भसः ॥ 101 ॥
उत्पपात जलात्तूर्णं महाद्रुमलतायुतः ।
स सागरजलं भित्त्वा बभूवाभ्युत्थितस्तदा ॥ 102 ॥
यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ।
स महात्मा मुहूर्तेन सर्वतः सलिलावृतः ॥ 103 ॥
दर्शयामास शृङ्गाणि सागरेण नियोजितः ।
आदित्योदयसङ्काशैरालिखद्भिरिवाम्बरम् ।
शातकुम्भमयैः शृङ्गैः सकिन्नरमहोरगैः ॥ 104 ॥
तप्तजाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः ॥ 105 ॥
आकाशं शस्त्रसङ्काशमभवत्काञ्चनप्रभम् ।
जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयम्प्रभैः ॥ 106 ॥
आदित्यशतसङ्काशः सोऽभवद्गिरिसत्तमः ।
तमुत्थितमसङ्गेन हनुमानग्रतः स्थितम् ॥ 107 ॥
मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः ।
स तमुच्छ्र्रतमत्यर्थं महावेगो महाकपिः ॥ 108 ॥
उरसा पातयामास जीमूतमिव मारुतः ।
स तथा पातितस्तेन कपिना पर्वतोत्तमः ॥ 109 ॥
बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च ।
तमाकाशगतं वीरमाकाशे समुपस्थितः ॥ 110 ॥
प्रीतो हृष्टमाना वाक्यमब्रवीत्पर्वतः कपिम् ।
मानुषं धारयन् रूपमात्मनः शिखरे स्थितः ॥ 111 ॥
दुष्करं कृतवान्कर्म त्वमिदं वानरोत्तम ।
निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम् ॥ 112 ॥
राघवस्य कुले जातैरुदधिः परिवर्धितः ।
स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः ॥ 113 ॥
कृते च प्रतिकर्तव्यमेष धर्मः सनातनः ।
सोऽयं त्वत्प्रतिकारार्थी त्वत्तः सम्मानमर्हति ॥ 114 ॥
त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः ।
तिष्ठ त्वं कपिशार्दूल मयि विश्रम्य गम्यताम् ॥ 115 ॥
तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति ।
योजनानां शतं चापि कपिरेष समाप्लुतः ॥ 116 ॥
तदिदं गन्धवत्स्वादु कन्दमूलफलं बहु ।
तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽनु गमिष्यसि ॥ 117 ॥
अस्माकमपि सम्बन्धः कपिमुख्य त्वयास्ति वै ।
प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः ॥ 118 ॥
वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज ।
तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर ॥ 119 ॥
अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता ।
धर्मं जिज्ञासमानेन किं पुनस्त्वादृशो महान् ॥ 120 ॥
त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः ।
पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर ॥ 121 ॥
पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः ।
तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् ॥ 122 ॥
पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् ।
ते हि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः ॥ 123 ॥
ततस्तेषु प्रयातेषु देवसङ्घाः महर्षिभिः ।
भूतानि च भयं जग्मुस्तेषां पतनशङ्कया ॥ 124 ॥
ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः ।
पक्षान् चिच्छेद वज्रेण तत्र तत्र सहस्रशः ॥ 125 ॥
स मामुपागतः क्रुद्धो वज्रमुद्यम्य देवराट् ।
ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना ॥ 126 ॥
अस्मिन्लवणतोये च प्रक्षिप्तः प्लवगोत्तम ।
गुप्तपक्षसमग्रश्च तव पित्राभिरक्षितः ॥ 127 ॥
ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः ।
त्वया मे ह्येष सम्बन्धः कपिमुख्य महागुणः ॥ 128 ॥
अस्मिन्नेवङ्गते कार्ये सागरस्य ममैव च ।
प्रीतिं प्रीतमनाः कर्तुं त्वमर्हसि महाकपे ॥ 129 ॥
श्रमं मोक्षय पूजां च गृहाण कपिसत्तम ।
प्रीतिं च बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात् ॥ 130 ॥
एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत् ।
प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम् ॥ 131 ॥
त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते ।
प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरे ॥ 132 ॥
इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः ।
जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव ॥ 133 ॥
स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः ।
पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः ॥ 134 ॥
अथोर्ध्वं दूरमुत्प्लुत्य हित्वा शैलमहार्णवौ ।
पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे ॥ 135 ॥
भूयश्चोर्ध्वं गतिं प्राप्य गिरिं तमवलोकयन् ।
वायुसूनुर्निरालम्बे जगाम विमलेऽम्बरे ॥ 136 ॥
तद् द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।
प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ॥ 137 ॥
देवताश्चाभवन् हृष्टास्तत्रस्थास्तस्य कर्मणा ।
काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः ॥ 138 ॥
उवाच वचनं धीमान् परितोषात्सगद्गदम् ।
सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः ॥ 139 ॥
हिरण्यनाभ शैलेन्द्र परितुष्टोऽस्मि ते भृशम् ।
अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम् ॥ 140 ॥
साह्यं कृतं ते सुमहद्विक्रान्तस्य हनूमतः ।
क्रमतो योजनशतं निर्भयस्य भये सति ॥ 141 ॥
रामस्यैष हितायैव याति दाशरथेर्हरिः ।
सत्क्रियां कुर्वता तस्य तोषितोऽस्मि दृढं त्वया ॥ 142 ॥
ततः प्रहर्षमगमद्विपुलं पर्वतोत्तमः ।
देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् ॥ 143 ॥
स वै दत्तवरः शैलो बभूवावस्थितस्तदा ।
हनुमांश्च मुहूर्तेन व्यतिचक्राम सागरम् ॥ 144 ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
अब्रुवन् सूर्यसङ्काशां सुरसां नागमातरम् ॥ 145 ॥
अयं वातात्मजः श्रीमान्प्लवते सागरोपरि ।
हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर ॥ 146 ॥
राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् ।
दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभः समम् ॥ 147 ॥
बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् ।
त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति ॥ 148 ॥
एवमुक्ता तु सा देवी दैवतैरभिसत्कृता ।
समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः ॥ 149 ॥
विकृतं च विरूपं च सर्वस्य च भयावहम् ।
प्लवमानं हनूमन्तमावृत्येदमुवाच ह ॥ 150 ॥
मम भक्षः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ ।
अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम् ॥ 151 ॥
एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः ।
प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत् ॥ 152 ॥
रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम् ।
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥ 153 ॥
अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः ।
तस्य सीता हृता भार्या रावणेन यशस्विनी ॥ 154 ॥
तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ।
कर्तुमर्हसि रामस्य साह्यं विषयवासिनि ॥ 155 ॥
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ॥ 156 ॥
एवमुक्ता हनुमता सुरसा कामरूपिणी ।
अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम ॥ 157 ॥
तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् ।
बलं जिज्ञासमाना वै नागमाता हनूमतः ॥ 158 ॥
प्रविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम ।
वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥ 159 ॥
व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेः पुरः ।
एवमुक्तः सुरसया क्रुद्धो वानरपुङ्गवः ॥ 160 ॥
अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे ।
इत्युक्त्वा सुरसां क्रुद्धो धशयोजनमायता ॥ 161 ॥
दशयोजनविस्तारो बभूव हनुमांस्तदा ।
तं दृष्ट्वा मेघसङ्काशं दशयोजनमायतम् ॥ 162 ॥
चकार सुरसा चास्यं विंशद्योजनमायतम् ।
हनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः ॥ 163 ॥
चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् ।
बभूव हनुमावनीरः पञ्चाशद्योजनोच्छ्रितः ॥ 164 ॥
चकार सुरसा वक्त्रं षष्टियोजनमायतम् ।
तथैव हनुमावनीरः सप्ततीयोजनोच्छ्रितः ॥ 165 ॥
चकार सुरसा वक्त्रमशीतीयोजनायतम् ।
हनुमानचलप्रख्यो नवतीयोजनोच्छ्रितः ॥ 166 ॥
चकार सुरसा वक्त्रं शतयोजनमायतं तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति ।
तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् ।
दीर्घजिह्वं सुरसया सुघोरं नरकोपमम् ॥ 167 ॥
सुसङ्क्षिप्यात्मनः कायं बभूवाङ्गुष्ठमात्रकः ।
सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाबलः ।
अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥ 168 ॥
प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते ।
गमिष्ये यत्र वैदेही सत्यं चासीद्वरस्तव ॥ 169 ॥
तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव ।
अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम् ॥ 170 ॥
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।
समानयस्व वैदेहीं राघवेण महात्मना ॥ 171 ॥
तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।
साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम् ॥ 172 ॥
स सागरमनाधृष्यमभ्येत्य वरुणालयम् ।
जगामाकाशमाविश्य वेगेन गरुडोपमः ॥ 173 ॥
सेविते वारिधाराभिः पतगैश्च निषेविते ।
चरिते कैशिकाचार्यैरैरावतनिषेविते ॥ 174 ॥
सिंहकुञ्जरशार्दूलपतगोरगवाहनैः ।
विमानैः सम्पतद्भिश्च विमलैः समलङ्कृते ॥ 175 ॥
वज्राशनिसमाघातैः पावकैरुपशोभिते ।
कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलङ्कृते ॥ 176 ॥
वहता हव्यमत्यर्धं सेविते चित्रभानुना ।
ग्रहनक्षत्रचन्द्रार्कतारागण विभूषिते ॥ 177 ॥
महर्षिगणगन्धर्वनागयक्षसमाकुले ।
विविक्ते विमले विश्वे विश्वावसुनिषेविते ॥ 178 ॥
देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे ।
विताने जीवलोकस्य वितते ब्रह्मनिर्मिते ॥ 179 ॥
बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः ।
जगाम वायुमार्गे तु गरुत्मानिव मारुतिः ॥ 180 ॥
प्रदृश्यमानः सर्वत्रः हनुमान्मारुतात्मजः ।
भेजेऽम्बरं निरालम्बं लम्बपक्ष इवाद्रिराट् ॥ 181 ॥
प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी ।
मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ॥ 182 ॥
अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता ।
इदं हि मे महत्सत्त्वं चिरस्य वशमागतम् ॥ 183 ॥
इति सञ्चिन्त्य मनसा छायामस्य समाक्षिपत् ।
छायायां गृह्यमाणायां चिन्तयामास वानरः ॥ 184 ॥
समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमः ।
प्रतिलोमेन वातेन महानौरिव सागरे ॥ 185 ॥
तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिः ।
ददर्श स महत्सत्त्वमुत्थितं लवणाम्भसि ॥ 186 ॥
तद्धृष्ट्वा चिन्तयामास मारुतिर्विकृताननम् ।
कपिराजेन कथितं सत्त्वमद्भुतदर्शनम् ॥ 187 ॥
छायाग्राहि महावीर्यं तदिदं नात्र संशयः ।
स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान्कपिः ॥ 188 ॥
व्यवर्धत महाकायः प्रावृषीव वलाहकः ।
तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः ॥ 189 ॥
वक्त्रं प्रसारयामास पातालान्तरसन्निभम् ।
घनराजीव गर्जन्ती वानरं समभिद्रवत् ॥ 190 ॥
स ददर्श ततस्तस्या विवृतं सुमहन्मुखम् ।
कायमात्रं च मेधावी मर्माणि च महाकपिः ॥ 191 ॥
स तस्या विवृते वक्त्रे वज्रसंहननः कपिः ।
सङ्क्षिप्य मुहुरात्मानं निष्पपात महाबलः ॥ 192 ॥
आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः ।
ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा ॥ 193 ॥
ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः ।
उत्पपाताथ वेगेन मनः सम्पातविक्रमः ॥ 194 ॥
तां तु दृष्ट्वा च धृत्या च दाक्षिण्येन निपात्य च ।
स कपिप्रवरो वेगाद्ववृधे पुनरात्मवान् ॥ 195 ॥
हृतहृत्सा हनुमतापपात विधुराम्भसि ।
तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् ॥ 196 ॥
भूतान्याकाशचारीणि तमूचुः प्लवगोत्तमम् ।
भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम् ॥ 197 ॥
साधयार्थमभिप्रेतमरिष्टं प्लवतां वर ।
यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव ॥ 198 ॥
धृतिर्दृष्टिर्मतिर्दाक्ष्यं सः कर्मसु न सीदति ।
स तैः सम्भावितः पूज्यः प्रतिपन्नप्रयोजनः ॥ 199 ॥
जगामाकाशमाविश्य पन्नगाशनवत्कपिः ।
प्राप्तभूयिष्ठपारस्तु सर्वतः प्रतिलोकयन् ॥ 200 ॥
योजनानां शतस्यान्ते वनराजिं ददर्श सः ।
ददर्श च पतन्नेव विविधद्रुमभूषितम् ॥ 201 ॥
द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च ।
सागरं सागरानूपं सागरानूपजान् द्रुमान् ॥ 202 ॥
सागरस्य च पत्नीनां मुख्यान्यपि विलोकयन् ।
स महामेघसङ्काशं समीक्ष्यात्मानमात्मवान् ॥ 203 ॥
निरुन्धन्तमिवाकाशं चकार मतिमान् मतिम् ।
कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः ॥ 204 ॥
मयि कौतूहलं कुर्यरिति मेने महाकपिः ।
ततः शरीरं सङ्क्षिप्य तन्महीधरसन्निभम् ॥ 205 ॥
पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् ।
तद्रूपमतिसङ्क्षिप्य हनुमान् प्रकृतौ स्थितः ॥ 206 ॥
त्रीन् क्रमानिव विक्रम्य बलिवीर्यहरो हरिः ।
स चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम् ।
परैरशक्यः प्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्धः ॥ 207 ॥
ततः स लम्बस्य गिरेः समृद्धे विचित्रकूटे निपपात कूटे ।
सकेतकोद्दालकनालिकेरे महाद्रिकूटप्रतिमो महात्मा ॥ 208 ॥
ततस्तु सम्प्राप्य समुद्रतीरं समीक्ष्य लङ्कां गिरिवर्यमूर्ध्नि ।
कपिस्तु तस्निन्निपपात पर्वते विधूय रूपं व्यथयन्मृगद्विजान् ॥ 209 ॥
स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम् ।
निपत्य तीरे च महोदधेस्तदा ददर्श लङ्काममरावतीमिव ॥ 210 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे प्रथमस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe sundarakāṇḍam |
atha prathamassargaḥ |
tato rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ |
iyeṣa padamanveṣṭuṃ cāraṇācarite pathi || 1 ||
duṣkaraṃ niṣpratidvandvaṃ cikīrṣan karma vānaraḥ |
samudagraśirogrīvo gavāmpatirivābabhau || 2 ||
atha vaiḍūryavarṇeṣu śādvaleṣu mahābalaḥ |
dhīraḥ salilakalpeṣu vicacāra yathāsukham || 3 ||
dvijān vitrāsayan dhīmānurasā pādapān haran |
mṛgāṃśca subahūnnighnan pravṛddha iva kesarī || 4 ||
nīlalohitamāñjiṣṭhapatravarṇaiḥ sitāsitaiḥ |
svabhāvavihitaiścitrairdhātubhiḥ samalaṅkṛtam || 5 ||
kāmarūpibhirāviṣṭamabhīkṣṇaṃ saparicchadaiḥ |
yakṣakinnaragandharvairdevakalpaiśca pannagaiḥ || 6 ||
sa tasya girivaryasya tale nāgavarāyute |
tiṣṭhan kapivarastatra hrade nāga ivābabhau || 7 ||
sa sūryāya mahendrāya pavanāya svayambhuve |
bhūtebhyaścāñjaliṃ kṛtvā cakāra gamane matim || 8 ||
añjaliṃ prāṅmukhaḥ kurvan pavanāyātmayonaye |
tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam || 9 ||
plavaṅgapravarairdṛṣṭaḥ plavane kṛtaniścayaḥ |
vavṛdhe rāmavṛddhyarthaṃ samudra iva parvasu || 10 ||
niṣpramāṇaśarīraḥ san lilaṅghayiṣurarṇavam |
bāhubhyāṃ pīḍayāmāsa caraṇābhyāṃ ca parvatam || 11 ||
sa cacālācalaścāpi muhūrtaṃ kapipīḍitaḥ |
tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ puṣpamaśātayat || 12 ||
tena pādapamuktena puṣpaugheṇa sugandhinā |
sarvataḥ saṃvṛtaḥ śailo babhau puṣpamayo yathā || 13 ||
tena cottamavīryeṇa pīḍyamānaḥ sa parvataḥ |
salilaṃ samprasusrāva madaṃ matta iva dvipaḥ || 14 ||
pīḍyamānastu balinā mahendrastena parvataḥ |
rītīrnirvartayāmāsa kāñcanāñjanarājatīḥ || 15 ||
mumoca ca śilāḥ śailo viśālāḥ samanaḥśilāḥ |
madhyamenārciṣā juṣṭā dhūmarājīrivānalaḥ || 16 ||
giriṇā pīḍyamānena pīḍyamānāni sarvataḥ |
guhāviṣṭāni bhūtāni vinedurvikṛtaiḥ svaraiḥ || 17 ||
sa mahāsattvasannādaḥ śailapīḍānimittajaḥ |
pṛthivīṃ pūrayāmāsa diśaścopavanāni ca || 18 ||
śirobhiḥ pṛthubhiḥ sarpā vyaktasvastikalakṣaṇaiḥ |
vamantaḥ pāvakaṃ ghoraṃ dadaṃśurdaśanaiḥ śilāḥ || 19 ||
tāstadā saviṣairdaṣṭāḥ kupitaistairmahāśilāḥ |
jajjvaluḥ pāvakoddīptā bibhiduśca sahasradhā || 20 ||
yāni cauṣadhajālāni tasmin jātāni parvate |
viṣaghnānyapi nāgānāṃ na śekuḥ śamituṃ viṣam || 21 ||
bhidyate'yaṃ girirbhūtairiti mattvā tapasvinaḥ |
trastā vidyādharāstasmādutpetuḥ strī gaṇaiḥ saha || 22 ||
pānabhūmigataṃ hitvā haimamāsavabhājanam |
pātrāṇi ca mahārhāṇi karakāṃśca hiraṇmayān || 23 ||
lehyānuccāvacān bhakṣyān māṃsāni vividhāni ca |
ārṣabhāṇi ca carmāṇi khaḍagāṃśca kanakatsarūn || 24 ||
kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ |
raktākṣāḥ puṣkarākṣāśca gaganaṃ pratipedire || 25 ||
hāranūpurakeyūrapārihāryadharāḥ striyaḥ |
vismitāḥ sasmitāstasthurākāśe ramaṇaiḥ saha || 26 ||
darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ |
sahitāstasthurākāśe vīkṣāñcakruśca parvatam || 27 ||
śuśruvuśca tadā śabdamṛṣīṇāṃ bhāvitātmanām |
cāraṇānāṃ ca siddhānāṃ sthitānāṃ vimale'mbare || 28 ||
eṣa parvatasaṅkāśo hanumān mārutātmajaḥ |
titīrṣati mahāvegassamudraṃ makarālayam || 29 ||
rāmārthaṃ vānarārthaṃ ca cikīrṣan karma duṣkaram |
samudrasya paraṃ pāraṃ duṣprāpaṃ prāptumicchati || 30 ||
iti vidyādharāḥ śrutvā vacasteṣāṃ mahātmanām |
tamaprameyaṃ dadṛśuḥ parvate vānararṣabham || 31 ||
dudhuve ca sa romāṇi cakampe cācalopamaḥ |
nanāda sumahānādaṃ sumahāniva toyadaḥ || 32 ||
ānupūrvyeṇa vṛttaṃ ca lāṅgūlaṃ lomabhiścitam |
utpatiṣyan vicikṣepa pakṣirāja ivoragam || 33 ||
tasya lāṅgūlamāviddhamāttavegasya pṛṣṭhataḥ |
dadṛśe garuḍeneva hriyamāṇo mahoragaḥ || 34 ||
bāhū saṃstambhayāmāsa mahāparighasannibhau |
sasāda ca kapiḥ kaṭyāṃ caraṇau sañcukoca ca || 35 ||
saṃhṛtya ca bhujau śrīmāṃstathaiva ca śirodharām |
tejaḥ sattvaṃ tathā vīryamāviveśa sa vīryavān || 36 ||
mārgamālokayandūrādūrdhvaṃ praṇihitekṣaṇaḥ |
rurodha hṛdaye prāṇānākāśamavalokayan || 37 ||
padbhyāṃ dṛḍhamavasthānaṃ kṛtvā sa kapikuñjaraḥ |
nikuñcya karṇau hanumānutpatiṣyan mahābalaḥ |
vānarān vānaraśreṣṭha idaṃ vacanamabravīt || 38 ||
yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ |
gacchettadvadgamiṣyāmi laṅkāṃ rāvaṇapālitām || 39 ||
na hi drakṣyāmi yadi tāṃ laṅkāyāṃ janakātmajām |
anenaiva hi vegena gamiṣyāmi surālayam || 40 ||
yadi vā tridive sītāṃ na drakṣyāmyakṛtaśramaḥ |
baddhvā rākṣasarājānamānayiṣyāmi rāvaṇam || 41 ||
sarvathā kṛtakāryo'hameṣyāmi saha sītayā |
ānayiṣyāmi vā laṅkāṃ samutpāṭya sarāvaṇām || 42 ||
evamuktvā tu hanumānvānarānvānarottamaḥ || 43 ||
utpapātātha vegena vegavānavicārayan |
suparṇamiva cātmānaṃ mene sa kapikuñjaraḥ || 44 ||
samutpatati tasmiṃstu vegātte nagarohiṇaḥ |
saṃhṛtya viṭapān sarvān samutpetuḥ samantataḥ || 45 ||
sa mattakoyaṣṭimakān pādapān puṣpaśālinaḥ |
udvahannūruvegena jagāma vimale'mbare || 46 ||
ūruvegoddhatā vṛkṣā muhūrtaṃ kapimanvayuḥ |
prasthitaṃ dīrghamadhvānaṃ svabandhumiva bāndhavāḥ || 47 ||
tamūruvegonmathitāḥ sālāścānye nagottamāḥ |
anujagmurhanūmantaṃ sainyā iva mahīpatim || 48 ||
supuṣpitāgrairbahubhiḥ pādapairanvitaḥ kapiḥ |
hanumān parvatākāro babhūvādbhutadarśanaḥ || 49 ||
sāravanto'tha ye vṛkṣā nyamajjan lavaṇāmbhasi |
bhayādiva mahendrasya parvatā varuṇālaye || 50 ||
sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ |
śuśubhe meghasaṅkāśaḥ khadyotairiva parvataḥ || 51 ||
vimuktāstasya vegena muktvā puṣpāṇi te drumāḥ |
avaśīryanta salile nivṛttāḥ suhṛdo yathā || 52 ||
laghutvenopapannaṃ tadvicitraṃ sāgare'patat |
drumāṇāṃ vividhaṃ puṣpaṃ kapivāyusamīritam || 53 ||
tārācitamivākāśaṃ prababhau sa mahārṇavaḥ |
puṣpaugheṇānubaddhena nānāvarṇena vānaraḥ |
babhau megha ivākāśe vidyudgaṇa vibhūṣitaḥ || 54 ||
tasya vegasamādhūtaiḥ puṣpaistoyamadṛśyata || 55 ||
tārābhirabhirāmābhiruditābhirivāmbaram |
tasyāmbaragatau bāhū dadṛśāte prasāritau || 56 ||
parvatāgrādviniṣkrāntau pañcāsyāviva pannagau |
pibanniva babhau cāpi sormimālaṃ mahārṇavam || 57 ||
pipāsuriva cākāśaṃ dadṛśe sa mahākapiḥ |
tasya vidyutprabhākāre vāyumārgānusāriṇaḥ || 58 ||
nayane viprakāśete parvatasthāvivānalau |
piṅge piṅgākṣamukhyasya bṛhatī parimaṇḍale || 59 ||
cakṣuṣī samprākāśete candrasūryāvivoditau |
mukhaṃ nāsikayā tasya tāmrayā tāmramābabhau || 60 ||
sandhyayā samabhispṛṣṭaṃ yathā tatsūryamaṇḍalam |
lāṅgūlaṃ ca samāviddhaṃ plavamānasya śobhate || 61 ||
ambare vāyuputrasya śakradhvaja ivocchritam |
lāṅgūlacakreṇa mahān śukladaṃṣṭro'nilātmajaḥ || 62 ||
vyarocata mahāprājñaḥ pariveṣīva bhāskaraḥ |
sphigdeśenābhitāmreṇa rarāja sa mahākapiḥ || 63 ||
mahatā dāriteneva girirgairikadhātunā |
tasya vānarasiṃhasya plavamānasya sāgaram || 64 ||
kakṣāntaragato vāyurjīmūta iva garjati |
khe yathā nipatatyulkā hyuttarāntādviniḥsṛtā || 65 ||
dṛśyate sānubandhā ca tathā sa kapikuñjaraḥ |
patatpataṅgasaṅkāśo vyāyataḥ śuśubhe kapiḥ || 66 ||
pravṛddha iva mātaṅgaḥ kakṣyayā badhyamānayā |
upariṣṭāccharīreṇa chāyayā cāvagāḍhayā || 67 ||
sāgare mārutāviṣṭā naurivāsīttadā kapiḥ |
yaṃ yaṃ deśaṃ samudrasya jagāma sa mahākapiḥ |
sa sa tasyoruvegena sonmāda iva lakṣyate || 68 ||
sāgarasyormijālānāmurasā śailavarṣmaṇām |
abhighnaṃstu mahāvegaḥ pupluve sa mahākapiḥ || 69 ||
kapivātaśca balavān meghavātaśca niḥsṛtaḥ |
sāgaraṃ bhīmanirghoṣaṃ kampayāmāsaturbhṛśam || 70 ||
vikarṣannūrmijālāni bṛhanti lavaṇāmbhasi |
pupluve kapiśārdūlo vikiranniva rodasī || 71 ||
merumandarasaṅkāśānuddhatān sa mahārṇave |
atyakrāmanmahāvegastaraṅgān gaṇayanniva || 72 ||
tasya vegasamuddhūtaṃ jalaṃ sajaladaṃ tadā |
ambarasthaṃ vibabhrāja śāradābhramivātatam || 73 ||
timinakrajhaṣāḥ kūrmā dṛśyante vivṛtāstadā |
vastrāpakarṣaṇeneva śarīrāṇi śarīriṇām || 74 ||
plavamānaṃ samīkṣyātha bhujaṅgāḥ sāgarālayāḥ |
vyomni taṃ kapiśārdūlaṃ suparṇa iti menire || 75 ||
daśayojanavistīrṇā triṃśadyojanamāyatā |
chāyā vānarasiṃhasya jale cārutarābhavat || 76 ||
śvetābhraghanarājīva vāyuputrānugāminī |
tasya sā śuśubhe chāyā vitatā lavaṇāmbhasi || 77 ||
śuśubhe sa mahātejā mahākāyo mahākapiḥ |
vāyumārge nirālambe pakṣavāniva parvataḥ || 78 ||
yenāsau yāti balavān vegena kapikuñjaraḥ |
tena mārgeṇa sahasā droṇīkṛta ivārṇavaḥ || 79 ||
āpāte pakṣisaṅghānāṃ pakṣirāja iva vrajan |
hanumān meghajālāni prakarṣan māruto yathā || 80 ||
pāṇḍurāruṇavarṇāni nīlamāñjiṣṭhakāni ca |
kapinākṛṣyamāṇāni mahābhrāṇi cakāśire || 81 ||
praviśannabhrajālāni niṣpataṃśca punaḥ punaḥ |
pracchannaśca prakāśaśca candramā iva lakṣyate || 82 ||
plavamānaṃ tu taṃ dṛṣṭvā plavaṅgaṃ tvaritaṃ tadā |
vavarṣuḥ puṣpavarṣāṇi devagandharvadānavāḥ || 83 ||
tatāpa na hi taṃ sūryaḥ plavantaṃ vānarottamam |
siṣeve ca tadā vāyū rāmakāryārthasiddhaye || 84 ||
ṛṣayastuṣṭuvuścainaṃ plavamānaṃ vihāyasā |
jaguśca devagandharvāḥ praśaṃsanto mahaujasam || 85 ||
nāgāśca tuṣṭuvuryakṣā rakṣāṃsi vibudhāḥ khagāḥ |
prekṣya sarve kapivaraṃ sahasā vigataklamam || 86 ||
tasmin plavagaśārdūle plavamāne hanūmati |
ikṣvākukulamānārthī cintayāmāsa sāgaraḥ || 87 ||
sāhāyyaṃ vānarendrasya yadi nāhaṃ hanūmataḥ |
kariṣyāmi bhaviṣyāmi sarvavācyo vivakṣatām || 88 ||
ahamikṣvākunāthena sagareṇa vivardhitaḥ |
ikṣvākusacivaścāyaṃ nāvasīditumarhati || 89 ||
tathā mayā vidhātavyaṃ viśrameta yathā kapiḥ || 90 ||
śeṣaṃ ca mayi viśrāntaḥ sukhenātipatiṣyati |
iti kṛtvā matiṃ sādhvīṃsamudra śchannamambhasi || 91 ||
hiraṇyanābhaṃ mainākamuvāca girisattamam |
tvamihāsurasaṅghānāṃ pātālatalavāsinām || 92 ||
devarājñā giriśreṣṭha parighaḥ sanniveśitaḥ |
tvameṣāṃ jātavīryāṇāṃ punarevotpatiṣyatām || 93 ||
pātālasyāprameyasya dvāramāvṛtya tiṣṭhasi |
tiryagūrdhvamadhaścaiva śaktiste śaila vardhitum || 94 ||
tasmātsañcodayāmi tvāmuttiṣṭha girisattama |
sa eṣa kapiśārdūlastvāmuparyeti vīryavān || 95 ||
hanūmānrāmakāryārthaṃ bhīmakarmā khamāplutaḥ |
asya sāhyaṃ mayā kāryamikṣvākukulavartinaḥ || 96 ||
mama hīkṣvākavaḥ pūjyāḥ paraṃ pūjyatamāstava |
kuru sācivyamasmākaṃ na naḥ kāryamatikramet || 97 ||
kartavyamakṛtaṃ kāryaṃ satāṃ manyumudīrayet |
salilādūrdhvamuttiṣṭha tiṣṭhatveṣa kapistvayi || 98 ||
asmākamatithiścaiva pūjyaśca plavatāṃ varaḥ |
cāmīkaramahānābha devagandharvasevita || 99 ||
hanumāṃstvayi viśrāntastataḥ śeṣaṃ gamiṣyati |
kākutsthasyānṛśaṃsyaṃ ca maithilyāśca vivāsanam || 100 ||
śramaṃ ca plavagendrasya samīkṣyotthātumarhasi |
hiraṇyanābho maināko niśamya lavaṇāmbhasaḥ || 101 ||
utpapāta jalāttūrṇaṃ mahādrumalatāyutaḥ |
sa sāgarajalaṃ bhittvā babhūvābhyutthitastadā || 102 ||
yathā jaladharaṃ bhittvā dīptaraśmirdivākaraḥ |
sa mahātmā muhūrtena sarvataḥ salilāvṛtaḥ || 103 ||
darśayāmāsa śṛṅgāṇi sāgareṇa niyojitaḥ |
ādityodayasaṅkāśairālikhadbhirivāmbaram |
śātakumbhamayaiḥ śṛṅgaiḥ sakinnaramahoragaiḥ || 104 ||
taptajāmbūnadaiḥ śṛṅgaiḥ parvatasya samutthitaiḥ || 105 ||
ākāśaṃ śastrasaṅkāśamabhavatkāñcanaprabham |
jātarūpamayaiḥ śṛṅgairbhrājamānaiḥ svayamprabhaiḥ || 106 ||
ādityaśatasaṅkāśaḥ so'bhavadgirisattamaḥ |
tamutthitamasaṅgena hanumānagrataḥ sthitam || 107 ||
madhye lavaṇatoyasya vighno'yamiti niścitaḥ |
sa tamucchrratamatyarthaṃ mahāvego mahākapiḥ || 108 ||
urasā pātayāmāsa jīmūtamiva mārutaḥ |
sa tathā pātitastena kapinā parvatottamaḥ || 109 ||
buddhvā tasya kapervegaṃ jaharṣa ca nananda ca |
tamākāśagataṃ vīramākāśe samupasthitaḥ || 110 ||
prīto hṛṣṭamānā vākyamabravītparvataḥ kapim |
mānuṣaṃ dhārayan rūpamātmanaḥ śikhare sthitaḥ || 111 ||
duṣkaraṃ kṛtavānkarma tvamidaṃ vānarottama |
nipatya mama śṛṅgeṣu viśramasva yathāsukham || 112 ||
rāghavasya kule jātairudadhiḥ parivardhitaḥ |
sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ || 113 ||
kṛte ca pratikartavyameṣa dharmaḥ sanātanaḥ |
so'yaṃ tvatpratikārārthī tvattaḥ sammānamarhati || 114 ||
tvannimittamanenāhaṃ bahumānātpracoditaḥ |
tiṣṭha tvaṃ kapiśārdūla mayi viśramya gamyatām || 115 ||
tava sānuṣu viśrāntaḥ śeṣaṃ prakramatāmiti |
yojanānāṃ śataṃ cāpi kapireṣa samāplutaḥ || 116 ||
tadidaṃ gandhavatsvādu kandamūlaphalaṃ bahu |
tadāsvādya hariśreṣṭha viśrānto'nu gamiṣyasi || 117 ||
asmākamapi sambandhaḥ kapimukhya tvayāsti vai |
prakhyātastriṣu lokeṣu mahāguṇaparigrahaḥ || 118 ||
vegavantaḥ plavanto ye plavagā mārutātmaja |
teṣāṃ mukhyatamaṃ manye tvāmahaṃ kapikuñjara || 119 ||
atithiḥ kila pūjārhaḥ prākṛto'pi vijānatā |
dharmaṃ jijñāsamānena kiṃ punastvādṛśo mahān || 120 ||
tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ |
putrastasyaiva vegena sadṛśaḥ kapikuñjara || 121 ||
pūjite tvayi dharmajña pūjāṃ prāpnoti mārutaḥ |
tasmāttvaṃ pūjanīyo me śṛṇu cāpyatra kāraṇam || 122 ||
pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo'bhavan |
te hi jagmurdiśaḥ sarvā garuḍānilaveginaḥ || 123 ||
tatasteṣu prayāteṣu devasaṅghāḥ maharṣibhiḥ |
bhūtāni ca bhayaṃ jagmusteṣāṃ patanaśaṅkayā || 124 ||
tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṃ śatakratuḥ |
pakṣān ciccheda vajreṇa tatra tatra sahasraśaḥ || 125 ||
sa māmupāgataḥ kruddho vajramudyamya devarāṭ |
tato'haṃ sahasā kṣiptaḥ śvasanena mahātmanā || 126 ||
asminlavaṇatoye ca prakṣiptaḥ plavagottama |
guptapakṣasamagraśca tava pitrābhirakṣitaḥ || 127 ||
tato'haṃ mānayāmi tvāṃ mānyo hi mama mārutaḥ |
tvayā me hyeṣa sambandhaḥ kapimukhya mahāguṇaḥ || 128 ||
asminnevaṅgate kārye sāgarasya mamaiva ca |
prītiṃ prītamanāḥ kartuṃ tvamarhasi mahākape || 129 ||
śramaṃ mokṣaya pūjāṃ ca gṛhāṇa kapisattama |
prītiṃ ca bahumanyasva prīto'smi tava darśanāt || 130 ||
evamuktaḥ kapiśreṣṭhastaṃ nagottamamabravīt |
prīto'smi kṛtamātithyaṃ manyureṣo'panīyatām || 131 ||
tvarate kāryakālo me ahaścāpyativartate |
pratijñā ca mayā dattā na sthātavyamihāntare || 132 ||
ityuktvā pāṇinā śailamālabhya haripuṅgavaḥ |
jagāmākāśamāviśya vīryavān prahasanniva || 133 ||
sa parvatasamudrābhyāṃ bahumānādavekṣitaḥ |
pūjitaścopapannābhirāśīrbhiranilātmajaḥ || 134 ||
athordhvaṃ dūramutplutya hitvā śailamahārṇavau |
pituḥ panthānamāsthāya jagāma vimale'mbare || 135 ||
bhūyaścordhvaṃ gatiṃ prāpya giriṃ tamavalokayan |
vāyusūnurnirālambe jagāma vimale'mbare || 136 ||
tad dvitīyaṃ hanumato dṛṣṭvā karma suduṣkaram |
praśaśaṃsuḥ surāḥ sarve siddhāśca paramarṣayaḥ || 137 ||
devatāścābhavan hṛṣṭāstatrasthāstasya karmaṇā |
kāñcanasya sunābhasya sahasrākṣaśca vāsavaḥ || 138 ||
uvāca vacanaṃ dhīmān paritoṣātsagadgadam |
sunābhaṃ parvataśreṣṭhaṃ svayameva śacīpatiḥ || 139 ||
hiraṇyanābha śailendra parituṣṭo'smi te bhṛśam |
abhayaṃ te prayacchāmi tiṣṭha saumya yathāsukham || 140 ||
sāhyaṃ kṛtaṃ te sumahadvikrāntasya hanūmataḥ |
kramato yojanaśataṃ nirbhayasya bhaye sati || 141 ||
rāmasyaiṣa hitāyaiva yāti dāśaratherhariḥ |
satkriyāṃ kurvatā tasya toṣito'smi dṛḍhaṃ tvayā || 142 ||
tataḥ praharṣamagamadvipulaṃ parvatottamaḥ |
devatānāṃ patiṃ dṛṣṭvā parituṣṭaṃ śatakratum || 143 ||
sa vai dattavaraḥ śailo babhūvāvasthitastadā |
hanumāṃśca muhūrtena vyaticakrāma sāgaram || 144 ||
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
abruvan sūryasaṅkāśāṃ surasāṃ nāgamātaram || 145 ||
ayaṃ vātātmajaḥ śrīmānplavate sāgaropari |
hanumānnāma tasya tvaṃ muhūrtaṃ vighnamācara || 146 ||
rākṣasaṃ rūpamāsthāya sughoraṃ parvatopamam |
daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥ samam || 147 ||
balamicchāmahe jñātuṃ bhūyaścāsya parākramam |
tvāṃ vijeṣyatyupāyena viṣādaṃ vā gamiṣyati || 148 ||
evamuktā tu sā devī daivatairabhisatkṛtā |
samudramadhye surasā bibhratī rākṣasaṃ vapuḥ || 149 ||
vikṛtaṃ ca virūpaṃ ca sarvasya ca bhayāvaham |
plavamānaṃ hanūmantamāvṛtyedamuvāca ha || 150 ||
mama bhakṣaḥ pradiṣṭastvamīśvarairvānararṣabha |
ahaṃ tvāṃ bhakṣayiṣyāmi praviśedaṃ mamānanam || 151 ||
evamuktaḥ surasayā prāñjalirvānararṣabhaḥ |
prahṛṣṭavadanaḥ śrīmānidaṃ vacanamabravīt || 152 ||
rāmo dāśarathirnāma praviṣṭo daṇḍakāvanam |
lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā || 153 ||
anyakāryaviṣaktasya baddhavairasya rākṣasaiḥ |
tasya sītā hṛtā bhāryā rāvaṇena yaśasvinī || 154 ||
tasyāḥ sakāśaṃ dūto'haṃ gamiṣye rāmaśāsanāt |
kartumarhasi rāmasya sāhyaṃ viṣayavāsini || 155 ||
athavā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam |
āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te || 156 ||
evamuktā hanumatā surasā kāmarūpiṇī |
abravīnnātivartenmāṃ kaścideṣa varo mama || 157 ||
taṃ prayāntaṃ samudvīkṣya surasā vākyamabravīt |
balaṃ jijñāsamānā vai nāgamātā hanūmataḥ || 158 ||
praviśya vadanaṃ me'dya gantavyaṃ vānarottama |
vara eṣa purā datto mama dhātreti satvarā || 159 ||
vyādāya vipulaṃ vaktraṃ sthitā sā māruteḥ puraḥ |
evamuktaḥ surasayā kruddho vānarapuṅgavaḥ || 160 ||
abravītkuru vai vaktraṃ yena māṃ viṣahiṣyase |
ityuktvā surasāṃ kruddho dhaśayojanamāyatā || 161 ||
daśayojanavistāro babhūva hanumāṃstadā |
taṃ dṛṣṭvā meghasaṅkāśaṃ daśayojanamāyatam || 162 ||
cakāra surasā cāsyaṃ viṃśadyojanamāyatam |
hanumāṃstu tataḥ kruddhastriṃśadyojanamāyataḥ || 163 ||
cakāra surasā vaktraṃ catvāriṃśattathocchritam |
babhūva hanumāvanīraḥ pañcāśadyojanocchritaḥ || 164 ||
cakāra surasā vaktraṃ ṣaṣṭiyojanamāyatam |
tathaiva hanumāvanīraḥ saptatīyojanocchritaḥ || 165 ||
cakāra surasā vaktramaśītīyojanāyatam |
hanumānacalaprakhyo navatīyojanocchritaḥ || 166 ||
cakāra surasā vaktraṃ śatayojanamāyataṃ tava sānuṣu viśrāntaḥ śeṣaṃ prakramatāmiti |
taddṛṣṭvā vyāditaṃ tvāsyaṃ vāyuputraḥ subuddhimān |
dīrghajihvaṃ surasayā sughoraṃ narakopamam || 167 ||
susaṅkṣipyātmanaḥ kāyaṃ babhūvāṅguṣṭhamātrakaḥ |
so'bhipatyāśu tadvaktraṃ niṣpatya ca mahābalaḥ |
antarikṣe sthitaḥ śrīmānidaṃ vacanamabravīt || 168 ||
praviṣṭo'smi hi te vaktraṃ dākṣāyaṇi namo'stu te |
gamiṣye yatra vaidehī satyaṃ cāsīdvarastava || 169 ||
taṃ dṛṣṭvā vadanānmuktaṃ candraṃ rāhumukhādiva |
abravītsurasā devī svena rūpeṇa vānaram || 170 ||
arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham |
samānayasva vaidehīṃ rāghaveṇa mahātmanā || 171 ||
tattṛtīyaṃ hanumato dṛṣṭvā karma suduṣkaram |
sādhu sādhviti bhūtāni praśaśaṃsustadā harim || 172 ||
sa sāgaramanādhṛṣyamabhyetya varuṇālayam |
jagāmākāśamāviśya vegena garuḍopamaḥ || 173 ||
sevite vāridhārābhiḥ patagaiśca niṣevite |
carite kaiśikācāryairairāvataniṣevite || 174 ||
siṃhakuñjaraśārdūlapatagoragavāhanaiḥ |
vimānaiḥ sampatadbhiśca vimalaiḥ samalaṅkṛte || 175 ||
vajrāśanisamāghātaiḥ pāvakairupaśobhite |
kṛtapuṇyairmahābhāgaiḥ svargajidbhiralaṅkṛte || 176 ||
vahatā havyamatyardhaṃ sevite citrabhānunā |
grahanakṣatracandrārkatārāgaṇa vibhūṣite || 177 ||
maharṣigaṇagandharvanāgayakṣasamākule |
vivikte vimale viśve viśvāvasuniṣevite || 178 ||
devarājagajākrānte candrasūryapathe śive |
vitāne jīvalokasya vitate brahmanirmite || 179 ||
bahuśaḥ sevite vīrairvidyādharagaṇairvaraiḥ |
jagāma vāyumārge tu garutmāniva mārutiḥ || 180 ||
pradṛśyamānaḥ sarvatraḥ hanumānmārutātmajaḥ |
bheje'mbaraṃ nirālambaṃ lambapakṣa ivādrirāṭ || 181 ||
plavamānaṃ tu taṃ dṛṣṭvā siṃhikā nāma rākṣasī |
manasā cintayāmāsa pravṛddhā kāmarūpiṇī || 182 ||
adya dīrghasya kālasya bhaviṣyāmyahamāśitā |
idaṃ hi me mahatsattvaṃ cirasya vaśamāgatam || 183 ||
iti sañcintya manasā chāyāmasya samākṣipat |
chāyāyāṃ gṛhyamāṇāyāṃ cintayāmāsa vānaraḥ || 184 ||
samākṣipto'smi sahasā paṅgūkṛtaparākramaḥ |
pratilomena vātena mahānauriva sāgare || 185 ||
tiryagūrdhvamadhaścaiva vīkṣamāṇastataḥ kapiḥ |
dadarśa sa mahatsattvamutthitaṃ lavaṇāmbhasi || 186 ||
taddhṛṣṭvā cintayāmāsa mārutirvikṛtānanam |
kapirājena kathitaṃ sattvamadbhutadarśanam || 187 ||
chāyāgrāhi mahāvīryaṃ tadidaṃ nātra saṃśayaḥ |
sa tāṃ buddhvārthatattvena siṃhikāṃ matimānkapiḥ || 188 ||
vyavardhata mahākāyaḥ prāvṛṣīva valāhakaḥ |
tasya sā kāyamudvīkṣya vardhamānaṃ mahākapeḥ || 189 ||
vaktraṃ prasārayāmāsa pātālāntarasannibham |
ghanarājīva garjantī vānaraṃ samabhidravat || 190 ||
sa dadarśa tatastasyā vivṛtaṃ sumahanmukham |
kāyamātraṃ ca medhāvī marmāṇi ca mahākapiḥ || 191 ||
sa tasyā vivṛte vaktre vajrasaṃhananaḥ kapiḥ |
saṅkṣipya muhurātmānaṃ niṣpapāta mahābalaḥ || 192 ||
āsye tasyā nimajjantaṃ dadṛśuḥ siddhacāraṇāḥ |
grasyamānaṃ yathā candraṃ pūrṇaṃ parvaṇi rāhuṇā || 193 ||
tatastasyā nakhaistīkṣṇairmarmāṇyutkṛtya vānaraḥ |
utpapātātha vegena manaḥ sampātavikramaḥ || 194 ||
tāṃ tu dṛṣṭvā ca dhṛtyā ca dākṣiṇyena nipātya ca |
sa kapipravaro vegādvavṛdhe punarātmavān || 195 ||
hṛtahṛtsā hanumatāpapāta vidhurāmbhasi |
tāṃ hatāṃ vānareṇāśu patitāṃ vīkṣya siṃhikām || 196 ||
bhūtānyākāśacārīṇi tamūcuḥ plavagottamam |
bhīmamadya kṛtaṃ karma mahatsattvaṃ tvayā hatam || 197 ||
sādhayārthamabhipretamariṣṭaṃ plavatāṃ vara |
yasya tvetāni catvāri vānarendra yathā tava || 198 ||
dhṛtirdṛṣṭirmatirdākṣyaṃ saḥ karmasu na sīdati |
sa taiḥ sambhāvitaḥ pūjyaḥ pratipannaprayojanaḥ || 199 ||
jagāmākāśamāviśya pannagāśanavatkapiḥ |
prāptabhūyiṣṭhapārastu sarvataḥ pratilokayan || 200 ||
yojanānāṃ śatasyānte vanarājiṃ dadarśa saḥ |
dadarśa ca patanneva vividhadrumabhūṣitam || 201 ||
dvīpaṃ śākhāmṛgaśreṣṭho malayopavanāni ca |
sāgaraṃ sāgarānūpaṃ sāgarānūpajān drumān || 202 ||
sāgarasya ca patnīnāṃ mukhyānyapi vilokayan |
sa mahāmeghasaṅkāśaṃ samīkṣyātmānamātmavān || 203 ||
nirundhantamivākāśaṃ cakāra matimān matim |
kāyavṛddhiṃ pravegaṃ ca mama dṛṣṭvaiva rākṣasāḥ || 204 ||
mayi kautūhalaṃ kuryariti mene mahākapiḥ |
tataḥ śarīraṃ saṅkṣipya tanmahīdharasannibham || 205 ||
punaḥ prakṛtimāpede vītamoha ivātmavān |
tadrūpamatisaṅkṣipya hanumān prakṛtau sthitaḥ || 206 ||
trīn kramāniva vikramya balivīryaharo hariḥ |
sa cārunānāvidharūpadhārī paraṃ samāsādya samudratīram |
parairaśakyaḥ pratipannarūpaḥ samīkṣitātmā samavekṣitārdhaḥ || 207 ||
tataḥ sa lambasya gireḥ samṛddhe vicitrakūṭe nipapāta kūṭe |
saketakoddālakanālikere mahādrikūṭapratimo mahātmā || 208 ||
tatastu samprāpya samudratīraṃ samīkṣya laṅkāṃ girivaryamūrdhni |
kapistu tasninnipapāta parvate vidhūya rūpaṃ vyathayanmṛgadvijān || 209 ||
sa sāgaraṃ dānavapannagāyutaṃ balena vikramya mahormimālinam |
nipatya tīre ca mahodadhestadā dadarśa laṅkāmamarāvatīmiva || 210 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye sundarakāṇḍe prathamassargaḥ ||

🕉 InfoLyter.in