📚 Valmiki Ramayana · Yuddha Kanda

6.128 युद्धकाण्ड - अष्टाविंशत्यधिकशततम सर्गः

Sarga 128

✍️ Author Maharishi Valmiki 🖋️ Devanagari script 🔢 46 verses
📄 Download PDF
View: Text in this script too →
🖋️ Script: मराठी ▾
Meaning —
श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ अष्टाविंशत्यधिकशततमस्सर्गः ।
Shloka 1
अयोध्यान्तुसमालोक्यचिन्तयामासराघवः ।
प्रियकामःप्रियंरामस्ततस्त्वरितविक्रमः ॥ 1 ॥
ayodhyāntusamālokyacintayāmāsarāghavaḥ |
priyakāmaḥpriyaṃrāmastatastvaritavikramaḥ || 1 ||
Shloka 2
चिन्तयित्वाततोदृष्टिंवानरेषुन्यपातयत् ।
उवाचधीमांस्तेजस्वीहनूमन्तम्प्लवङ्गमम् ॥ 2 ॥
cintayitvātatodṛṣṭiṃvānareṣunyapātayat |
uvācadhīmāṃstejasvīhanūmantamplavaṅgamam || 2 ||
Shloka 3
अयोध्यान्त्वरितोगत्वाशीघ्रम्प्लवगसत्तम ।
जानीहिकछचित्कुशलीजनोनृपतिमन्दिरे ॥ 3 ॥
ayodhyāntvaritogatvāśīghramplavagasattama |
jānīhikachacitkuśalījanonṛpatimandire || 3 ||
Shloka 4
शृङ्गबेरिपुरम्प्राप्यगुहङ्गहनगोचरम् ।
निषादाधिपतिम्ब्रूहिकुशलंवचनान्मम ॥ 4 ॥
śṛṅgaberipuramprāpyaguhaṅgahanagocaram |
niṣādādhipatimbrūhikuśalaṃvacanānmama || 4 ||
Shloka 5
श्रुत्वातुमाङ्कुशलिनमरोगंविगतज्वरम् ।
भविष्यतिगुहःप्रीतस्सममात्मसमस्सखा ॥ 5 ॥
śrutvātumāṅkuśalinamarogaṃvigatajvaram |
bhaviṣyatiguhaḥprītassamamātmasamassakhā || 5 ||
Shloka 6
अयोध्यायाश्चतेमार्गम्प्रवृत्तिम्भरतस्य च ।
निवेदयिष्यतिप्रीतोनिषादाधिपतिर्गुहः ॥ 6 ॥
ayodhyāyāścatemārgampravṛttimbharatasya ca |
nivedayiṣyatiprītoniṣādādhipatirguhaḥ || 6 ||
Shloka 7
भरतस्तुत्वयावाच्यःकुशलंवचनान्मम ।
सिद्धार्थंशंसमान्तस्मैसभार्यंसहलक्ष्मणम् ॥ 7 ॥
bharatastutvayāvācyaḥkuśalaṃvacanānmama |
siddhārthaṃśaṃsamāntasmaisabhāryaṃsahalakṣmaṇam || 7 ||
Shloka 8
हरणञ्चापिवैदेह्यारावणेनबलीयसा ।
सुग्रीवेण च सम्वादंवालिनश्चवधंरणे ॥ 8 ॥
haraṇañcāpivaidehyārāvaṇenabalīyasā |
sugrīveṇa ca samvādaṃvālinaścavadhaṃraṇe || 8 ||
Shloka 9
मैथिल्यन्वेषणञ्चैवयथाचाधिगतात्वया ।
लङ्घयित्वामहातोयमापगापतिमव्ययम् ॥ 9 ॥
maithilyanveṣaṇañcaivayathācādhigatātvayā |
laṅghayitvāmahātoyamāpagāpatimavyayam || 9 ||
Shloka 10
उपयानंसमुद्रस्यसागरस्य च दर्शनम् ।
यथा च कारितस्सेतूरावणश्चयथाहतः ॥ 10 ॥
upayānaṃsamudrasyasāgarasya ca darśanam |
yathā ca kāritassetūrāvaṇaścayathāhataḥ || 10 ||
Shloka 11
वरदानम्महेन्द्रेणब्रह्मणावरुणेन च ।
महादेवप्रसादाच्छपित्राममसमागमम् ॥ 11 ॥
varadānammahendreṇabrahmaṇāvaruṇena ca |
mahādevaprasādācchapitrāmamasamāgamam || 11 ||
Shloka 12
उपयातं च मांसौम्य भरतायनिवेदय ।
सहराक्षसराजेनहरीणामीश्वरेण च ॥ 12 ॥
upayātaṃ ca māṃsaumya bharatāyanivedaya |
saharākṣasarājenaharīṇāmīśvareṇa ca || 12 ||
Shloka 13
जित्वाशत्रुगणान्रामःप्राप्यचानुत्तमंयशः ।
उपायानंसमृद्धार्थस्सहमित्रैर्महाबलैः ॥ 13 ॥
jitvāśatrugaṇānrāmaḥprāpyacānuttamaṃyaśaḥ |
upāyānaṃsamṛddhārthassahamitrairmahābalaiḥ || 13 ||
Shloka 14
एतच्छ्रुत्वायमाकारम्भजतेभरतस्ततः ।
स च तेवेदितव्यःस्यात्सर्वंयच्छापिमाम्प्रति ॥ 14 ॥
etacchrutvāyamākārambhajatebharatastataḥ |
sa ca teveditavyaḥsyātsarvaṃyacchāpimāmprati || 14 ||
Shloka 15
ज्ञेयाःसर्वे च वृत्तान्ताःभरतस्येङ्गितानि च ।
तत्त्वेनमुखवर्णेनदृष्ट्याव्याभाषितेन च ॥ 15 ॥
jñeyāḥsarve ca vṛttāntāḥbharatasyeṅgitāni ca |
tattvenamukhavarṇenadṛṣṭyāvyābhāṣitena ca || 15 ||
Shloka 16
सर्वकालसमृद्धंहिहस्त्यश्वरथसङ्कुलम् ।
पितृपैतामहंराज्यङ्कस्यनावर्तयेन्मनः ॥ 16 ॥
sarvakālasamṛddhaṃhihastyaśvarathasaṅkulam |
pitṛpaitāmahaṃrājyaṅkasyanāvartayenmanaḥ || 16 ||
Shloka 17
सङ्गत्याभरत्श्रीमान् राज्येनार्थीस्वयम्भवेत् ।
प्रशास्तुवसुधांसर्वामखिलांरघुनन्दनः ॥ 17 ॥
saṅgatyābharatśrīmān rājyenārthīsvayambhavet |
praśāstuvasudhāṃsarvāmakhilāṃraghunandanaḥ || 17 ||
Shloka 18
तस्यबुद्धिं च विज्ञायव्यवसायं च वानर ।
यावन्नदूरंयाताःस्मक्षिप्रमागन्तुमर्हसि ॥ 18 ॥
tasyabuddhiṃ ca vijñāyavyavasāyaṃ ca vānara |
yāvannadūraṃyātāḥsmakṣipramāgantumarhasi || 18 ||
Shloka 19
इतिप्रतिसमादिष्टोहनूमान्मारुतात्मजः ।
मानुषःधारयनृपमयोध्यान्त्वरितोययौ ॥ 19 ॥
itipratisamādiṣṭohanūmānmārutātmajaḥ |
mānuṣaḥdhārayanṛpamayodhyāntvaritoyayau || 19 ||
Shloka 20
अतोत्पपातवेगेनहनूमान्मारुतात्मजः ।
गरुत्मानिववेगेनजिघृक्षन्पन्नगोत्तमम् ॥ 20 ॥
atotpapātavegenahanūmānmārutātmajaḥ |
garutmānivavegenajighṛkṣanpannagottamam || 20 ||
Shloka 21
लङ्घयित्वापितृपथंविहगेन्द्रालयंशुभम् ।
गङ्गायमुनयोर्भीमंसमतीत्यसमागमम् ॥ 21 ॥
laṅghayitvāpitṛpathaṃvihagendrālayaṃśubham |
gaṅgāyamunayorbhīmaṃsamatītyasamāgamam || 21 ||
Shloka 22
शृङ्गबेरपुरम्प्राप्यगुहमासाद्यवीर्यवान् ।
स वाचाशुभयाहृष्टोहनुमानिदमब्रवीत् ॥ 22 ॥
śṛṅgaberapuramprāpyaguhamāsādyavīryavān |
sa vācāśubhayāhṛṣṭohanumānidamabravīt || 22 ||
Shloka 23
सखातुतवकाकुत्स्थोरामस्सत्यपराक्रमः ।
ससीतस्सहसौमित्रिस्सत्वाङ्कुशलमब्रवीत् ॥ 23 ॥
sakhātutavakākutsthorāmassatyaparākramaḥ |
sasītassahasaumitrissatvāṅkuśalamabravīt || 23 ||
Shloka 24
पञ्चमीमद्यरजनीमुषित्वावचनान्मुनेः ।
भरद्वाजाभ्यनुज्ञातन्द्रक्ष्यस्यद्यैवराघवम् ॥ 24 ॥
pañcamīmadyarajanīmuṣitvāvacanānmuneḥ |
bharadvājābhyanujñātandrakṣyasyadyaivarāghavam || 24 ||
Shloka 25
एवमुक्त्वामहातेजास्सम्प्रहृष्टतनूरुहः ।
उत्पपातमहावेगाद्वेगवान्विचारयन् ॥ 25 ॥
evamuktvāmahātejāssamprahṛṣṭatanūruhaḥ |
utpapātamahāvegādvegavānvicārayan || 25 ||
Shloka 26
सोऽपश्यद्रामतीर्थं च नदींवालुकिनीन्तथा ।
वरूथीङ्गोमतीञ्चैवभीमंशालवनन्तथा ॥ 26 ॥
so'paśyadrāmatīrthaṃ ca nadīṃvālukinīntathā |
varūthīṅgomatīñcaivabhīmaṃśālavanantathā || 26 ||
Shloka 27
प्रजाश्चबहुसाहस्रीःस्फीतान्जनपदानपि ।
सःगत्वादूरमध्वानन्त्वरितःकपिकुञ्जरः ॥ 27 ॥
prajāścabahusāhasrīḥsphītānjanapadānapi |
saḥgatvādūramadhvānantvaritaḥkapikuñjaraḥ || 27 ||
Shloka 28
आससादद्रुमान् फुल्लान्नन्दिग्रामसमीपगान् ।
स्त्रीभिस्सपुत्रैर्वृद्धैश्चरममाणैःस्वलङ्कृतैः ।
सुराधिपस्योपवनेयथाचैत्ररथेद्रुमान् ॥ 28 ॥
āsasādadrumān phullānnandigrāmasamīpagān |
strībhissaputrairvṛddhaiścaramamāṇaiḥsvalaṅkṛtaiḥ |
surādhipasyopavaneyathācaitrarathedrumān || 28 ||
Shloka 29
क्रोशमात्रेत्वयोध्यायाचशीरकृष्णाजिनम्बरम् ॥ 29 ॥
krośamātretvayodhyāyācaśīrakṛṣṇājinambaram || 29 ||
Shloka 30
ददर्शभरतन्दीनङ्कृशमाश्रमवासिनम् ।
जटिलम्मलदिग्धाङ्गम्भ्रातृव्यसनकर्शितम् ॥ 30 ॥
dadarśabharatandīnaṅkṛśamāśramavāsinam |
jaṭilammaladigdhāṅgambhrātṛvyasanakarśitam || 30 ||
Shloka 31
फलमूलाशिनन्दान्तन्तापसन्धर्मचारिणम् ।
समुन्नतजटाभारंवल्कलाजिनवाससम् ॥ 31 ॥
phalamūlāśinandāntantāpasandharmacāriṇam |
samunnatajaṭābhāraṃvalkalājinavāsasam || 31 ||
Shloka 32
नियतम्भावितात्मानम्ब्रह्मर्षिसमतेजसम् ।
पादुकेतेपुरस्कृत्यप्रशासन्तंवसुन्धराम् ॥ 32 ॥
niyatambhāvitātmānambrahmarṣisamatejasam |
pāduketepuraskṛtyapraśāsantaṃvasundharām || 32 ||
Shloka 33
चातुर्वर्णस्यलोकस्यत्रातारम्महतोभयात् ।
उपस्थितममात्यैश्चशुचिभिश्चपुरोहितैः ॥ 33 ॥
cāturvarṇasyalokasyatrātārammahatobhayāt |
upasthitamamātyaiścaśucibhiścapurohitaiḥ || 33 ||
Shloka 34
बलमुख्यैश्चयुक्तैश्चकाषायाम्बरदारिभिः ।
नहितेराजपुत्रन्तञ्चीरकृष्णाजिनाम्बरम् ॥ 34 ॥
balamukhyaiścayuktaiścakāṣāyāmbaradāribhiḥ |
nahiterājaputrantañcīrakṛṣṇājināmbaram || 34 ||
Shloka 35
परिभोक्तुंव्यवस्यन्तिपौरावैधर्मवत्सलाः ।
तम्धर्ममिवधर्मज्ञन्देहवन्तमिवापरम् ॥ 35 ॥
paribhoktuṃvyavasyantipaurāvaidharmavatsalāḥ |
tamdharmamivadharmajñandehavantamivāparam || 35 ||
Shloka 36
उवाचप्राञ्जलिर्वाक्यंहनूमान्मारुतात्मजः ।
वसन्तन्दण्डकारण्येयन्त्वञ्चीरजटाधरम् ॥ 36 ॥
uvācaprāñjalirvākyaṃhanūmānmārutātmajaḥ |
vasantandaṇḍakāraṇyeyantvañcīrajaṭādharam || 36 ||
Shloka 37
अनुशोचसिकाकुत्स्थं स त्वाङ्कौशलमब्रवीत् ।
प्रियमाख्यामितेदेवशोकन्त्यजसुदारुणम् ॥ 37 ॥
anuśocasikākutsthaṃ sa tvāṅkauśalamabravīt |
priyamākhyāmitedevaśokantyajasudāruṇam || 37 ||
Shloka 38
अस्मिन्मुहूर्तेभ्रात्रात्वंरामेणसहसङ्गतः ।
निहत्यरावणंरामःप्रतिलभ्य च मैथिलीम् ॥ 38 ॥
asminmuhūrtebhrātrātvaṃrāmeṇasahasaṅgataḥ |
nihatyarāvaṇaṃrāmaḥpratilabhya ca maithilīm || 38 ||
Shloka 39
उपयातिसमृद्धार्थःसहमित्रैर्महाबलैः ।
लक्ष्मणश्चमहातेजावैदेही च यशस्विनी ॥ 39 ॥
upayātisamṛddhārthaḥsahamitrairmahābalaiḥ |
lakṣmaṇaścamahātejāvaidehī ca yaśasvinī || 39 ||
Shloka 40
सीतासमग्रारामेणमहेन्द्रेणशचीयथा ।
एवमुक्तोहनुमताभरतःकैकयीसुतः ॥ 40 ॥
sītāsamagrārāmeṇamahendreṇaśacīyathā |
evamuktohanumatābharataḥkaikayīsutaḥ || 40 ||
Shloka 41
पपातसहसाहृष्टोहर्षान्मोहमुपागमत् ।
ततोमुहूर्तादुत्थायप्रत्याश्वस्य च राघवः ॥ 41 ॥
papātasahasāhṛṣṭoharṣānmohamupāgamat |
tatomuhūrtādutthāyapratyāśvasya ca rāghavaḥ || 41 ||
Shloka 42
हनूमन्तमुवाचेदम्भरतःप्रियवादिनम् ।
अशोकजैःप्रीतिमयैःकपिमालिङ्ग्यसम्भ्रमात् ॥ 42 ॥
hanūmantamuvācedambharataḥpriyavādinam |
aśokajaiḥprītimayaiḥkapimāliṅgyasambhramāt || 42 ||
Shloka 43
सिषेचभरतःश्रीमान्विपुलैरश्रुबिन्धुभिः ।
देवोवामानुषोवात्वमनुक्रोशादिहागतः ॥ 43 ॥
siṣecabharataḥśrīmānvipulairaśrubindhubhiḥ |
devovāmānuṣovātvamanukrośādihāgataḥ || 43 ||
Shloka 44
प्रियाख्यानस्यतेसौम्यददामिब्रुवतःप्रियम् ।
गवांशतसहस्रं च ग्रामाणां च शतम्परम् ॥ 44 ॥
priyākhyānasyatesaumyadadāmibruvataḥpriyam |
gavāṃśatasahasraṃ ca grāmāṇāṃ ca śatamparam || 44 ||
Shloka 45
सकुण्डलाश्शुभाचाराभार्याःकन्यास्तुषोडश ।
हेमवर्णास्सुनासोरूश्शशिसौम्याननाःस्त्रियः ॥ 45 ॥
sakuṇḍalāśśubhācārābhāryāḥkanyāstuṣoḍaśa |
hemavarṇāssunāsorūśśaśisaumyānanāḥstriyaḥ || 45 ||
Shloka 46
सर्वाभरणसम्पन्नास्सम्पन्नाःकुलजातिभिः ।
निशम्यरामागमनन्नृपात्मजःकपिप्रवीरस्यतदाद्भुतोपमम् ।
प्रहर्षितोरामदिदृक्ष्याऽभवत्पुनश्चहर्षादिदमब्रवीद्वचः ॥ 46 ॥
sarvābharaṇasampannāssampannāḥkulajātibhiḥ |
niśamyarāmāgamanannṛpātmajaḥkapipravīrasyatadādbhutopamam |
praharṣitorāmadidṛkṣyā'bhavatpunaścaharṣādidamabravīdvacaḥ || 46 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे अष्टाविंशत्यधिकशततमस्सर्गः ॥
Sanskrit — Devanagari (original)
श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ अष्टाविंशत्यधिकशततमस्सर्गः ।
अयोध्यान्तुसमालोक्यचिन्तयामासराघवः ।
प्रियकामःप्रियंरामस्ततस्त्वरितविक्रमः ॥ 1 ॥
चिन्तयित्वाततोदृष्टिंवानरेषुन्यपातयत् ।
उवाचधीमांस्तेजस्वीहनूमन्तम्प्लवङ्गमम् ॥ 2 ॥
अयोध्यान्त्वरितोगत्वाशीघ्रम्प्लवगसत्तम ।
जानीहिकछचित्कुशलीजनोनृपतिमन्दिरे ॥ 3 ॥
शृङ्गबेरिपुरम्प्राप्यगुहङ्गहनगोचरम् ।
निषादाधिपतिम्ब्रूहिकुशलंवचनान्मम ॥ 4 ॥
श्रुत्वातुमाङ्कुशलिनमरोगंविगतज्वरम् ।
भविष्यतिगुहःप्रीतस्सममात्मसमस्सखा ॥ 5 ॥
अयोध्यायाश्चतेमार्गम्प्रवृत्तिम्भरतस्य च ।
निवेदयिष्यतिप्रीतोनिषादाधिपतिर्गुहः ॥ 6 ॥
भरतस्तुत्वयावाच्यःकुशलंवचनान्मम ।
सिद्धार्थंशंसमान्तस्मैसभार्यंसहलक्ष्मणम् ॥ 7 ॥
हरणञ्चापिवैदेह्यारावणेनबलीयसा ।
सुग्रीवेण च सम्वादंवालिनश्चवधंरणे ॥ 8 ॥
मैथिल्यन्वेषणञ्चैवयथाचाधिगतात्वया ।
लङ्घयित्वामहातोयमापगापतिमव्ययम् ॥ 9 ॥
उपयानंसमुद्रस्यसागरस्य च दर्शनम् ।
यथा च कारितस्सेतूरावणश्चयथाहतः ॥ 10 ॥
वरदानम्महेन्द्रेणब्रह्मणावरुणेन च ।
महादेवप्रसादाच्छपित्राममसमागमम् ॥ 11 ॥
उपयातं च मांसौम्य भरतायनिवेदय ।
सहराक्षसराजेनहरीणामीश्वरेण च ॥ 12 ॥
जित्वाशत्रुगणान्रामःप्राप्यचानुत्तमंयशः ।
उपायानंसमृद्धार्थस्सहमित्रैर्महाबलैः ॥ 13 ॥
एतच्छ्रुत्वायमाकारम्भजतेभरतस्ततः ।
स च तेवेदितव्यःस्यात्सर्वंयच्छापिमाम्प्रति ॥ 14 ॥
ज्ञेयाःसर्वे च वृत्तान्ताःभरतस्येङ्गितानि च ।
तत्त्वेनमुखवर्णेनदृष्ट्याव्याभाषितेन च ॥ 15 ॥
सर्वकालसमृद्धंहिहस्त्यश्वरथसङ्कुलम् ।
पितृपैतामहंराज्यङ्कस्यनावर्तयेन्मनः ॥ 16 ॥
सङ्गत्याभरत्श्रीमान् राज्येनार्थीस्वयम्भवेत् ।
प्रशास्तुवसुधांसर्वामखिलांरघुनन्दनः ॥ 17 ॥
तस्यबुद्धिं च विज्ञायव्यवसायं च वानर ।
यावन्नदूरंयाताःस्मक्षिप्रमागन्तुमर्हसि ॥ 18 ॥
इतिप्रतिसमादिष्टोहनूमान्मारुतात्मजः ।
मानुषःधारयनृपमयोध्यान्त्वरितोययौ ॥ 19 ॥
अतोत्पपातवेगेनहनूमान्मारुतात्मजः ।
गरुत्मानिववेगेनजिघृक्षन्पन्नगोत्तमम् ॥ 20 ॥
लङ्घयित्वापितृपथंविहगेन्द्रालयंशुभम् ।
गङ्गायमुनयोर्भीमंसमतीत्यसमागमम् ॥ 21 ॥
शृङ्गबेरपुरम्प्राप्यगुहमासाद्यवीर्यवान् ।
स वाचाशुभयाहृष्टोहनुमानिदमब्रवीत् ॥ 22 ॥
सखातुतवकाकुत्स्थोरामस्सत्यपराक्रमः ।
ससीतस्सहसौमित्रिस्सत्वाङ्कुशलमब्रवीत् ॥ 23 ॥
पञ्चमीमद्यरजनीमुषित्वावचनान्मुनेः ।
भरद्वाजाभ्यनुज्ञातन्द्रक्ष्यस्यद्यैवराघवम् ॥ 24 ॥
एवमुक्त्वामहातेजास्सम्प्रहृष्टतनूरुहः ।
उत्पपातमहावेगाद्वेगवान्विचारयन् ॥ 25 ॥
सोऽपश्यद्रामतीर्थं च नदींवालुकिनीन्तथा ।
वरूथीङ्गोमतीञ्चैवभीमंशालवनन्तथा ॥ 26 ॥
प्रजाश्चबहुसाहस्रीःस्फीतान्जनपदानपि ।
सःगत्वादूरमध्वानन्त्वरितःकपिकुञ्जरः ॥ 27 ॥
आससादद्रुमान् फुल्लान्नन्दिग्रामसमीपगान् ।
स्त्रीभिस्सपुत्रैर्वृद्धैश्चरममाणैःस्वलङ्कृतैः ।
सुराधिपस्योपवनेयथाचैत्ररथेद्रुमान् ॥ 28 ॥
क्रोशमात्रेत्वयोध्यायाचशीरकृष्णाजिनम्बरम् ॥ 29 ॥
ददर्शभरतन्दीनङ्कृशमाश्रमवासिनम् ।
जटिलम्मलदिग्धाङ्गम्भ्रातृव्यसनकर्शितम् ॥ 30 ॥
फलमूलाशिनन्दान्तन्तापसन्धर्मचारिणम् ।
समुन्नतजटाभारंवल्कलाजिनवाससम् ॥ 31 ॥
नियतम्भावितात्मानम्ब्रह्मर्षिसमतेजसम् ।
पादुकेतेपुरस्कृत्यप्रशासन्तंवसुन्धराम् ॥ 32 ॥
चातुर्वर्णस्यलोकस्यत्रातारम्महतोभयात् ।
उपस्थितममात्यैश्चशुचिभिश्चपुरोहितैः ॥ 33 ॥
बलमुख्यैश्चयुक्तैश्चकाषायाम्बरदारिभिः ।
नहितेराजपुत्रन्तञ्चीरकृष्णाजिनाम्बरम् ॥ 34 ॥
परिभोक्तुंव्यवस्यन्तिपौरावैधर्मवत्सलाः ।
तम्धर्ममिवधर्मज्ञन्देहवन्तमिवापरम् ॥ 35 ॥
उवाचप्राञ्जलिर्वाक्यंहनूमान्मारुतात्मजः ।
वसन्तन्दण्डकारण्येयन्त्वञ्चीरजटाधरम् ॥ 36 ॥
अनुशोचसिकाकुत्स्थं स त्वाङ्कौशलमब्रवीत् ।
प्रियमाख्यामितेदेवशोकन्त्यजसुदारुणम् ॥ 37 ॥
अस्मिन्मुहूर्तेभ्रात्रात्वंरामेणसहसङ्गतः ।
निहत्यरावणंरामःप्रतिलभ्य च मैथिलीम् ॥ 38 ॥
उपयातिसमृद्धार्थःसहमित्रैर्महाबलैः ।
लक्ष्मणश्चमहातेजावैदेही च यशस्विनी ॥ 39 ॥
सीतासमग्रारामेणमहेन्द्रेणशचीयथा ।
एवमुक्तोहनुमताभरतःकैकयीसुतः ॥ 40 ॥
पपातसहसाहृष्टोहर्षान्मोहमुपागमत् ।
ततोमुहूर्तादुत्थायप्रत्याश्वस्य च राघवः ॥ 41 ॥
हनूमन्तमुवाचेदम्भरतःप्रियवादिनम् ।
अशोकजैःप्रीतिमयैःकपिमालिङ्ग्यसम्भ्रमात् ॥ 42 ॥
सिषेचभरतःश्रीमान्विपुलैरश्रुबिन्धुभिः ।
देवोवामानुषोवात्वमनुक्रोशादिहागतः ॥ 43 ॥
प्रियाख्यानस्यतेसौम्यददामिब्रुवतःप्रियम् ।
गवांशतसहस्रं च ग्रामाणां च शतम्परम् ॥ 44 ॥
सकुण्डलाश्शुभाचाराभार्याःकन्यास्तुषोडश ।
हेमवर्णास्सुनासोरूश्शशिसौम्याननाःस्त्रियः ॥ 45 ॥
सर्वाभरणसम्पन्नास्सम्पन्नाःकुलजातिभिः ।
निशम्यरामागमनन्नृपात्मजःकपिप्रवीरस्यतदाद्भुतोपमम् ।
प्रहर्षितोरामदिदृक्ष्याऽभवत्पुनश्चहर्षादिदमब्रवीद्वचः ॥ 46 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे अष्टाविंशत्यधिकशततमस्सर्गः ॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version. It is a transliteration, not a translation — see “Meaning” for translations where available.
🕉 InfoLyter.in