📚 Valmiki Ramayana · Sundara Kanda

5.18 सुन्दरकाण्ड - अष्टादश सर्गः

Sarga 18

✍️ Author Maharishi Valmiki 🖋️ Devanagari script 🔢 32 verses
📄 Download PDF
View: Text in this script too →
🖋️ Script: मराठी ▾
Meaning —
श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ अष्टादशस्सर्गः ।
Shloka 1
तथा विप्रेक्ष्यमाणस्य वनं पुष्पितपादपम् ।
विचिन्वतश्च वैदेहीं किञ्चिच्छेषा निशाऽभवत् ॥ 1 ॥
tathā viprekṣyamāṇasya vanaṃ puṣpitapādapam |
vicinvataśca vaidehīṃ kiñciccheṣā niśā'bhavat || 1 ||
Shloka 2
षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् ।
शुश्राव ब्रह्मघोषांश्च स विरात्रे ब्रह्मरक्षसाम् ॥ 2 ॥
ṣaḍaṅgavedaviduṣāṃ kratupravarayājinām |
śuśrāva brahmaghoṣāṃśca sa virātre brahmarakṣasām || 2 ||
Shloka 3
अथ मङ्गलवादित्रशब्दैः श्रुतिमनोहरैः ।
प्राबुध्यत महाबाहुर्दशग्रीवो महाबलः ॥ 3 ॥
atha maṅgalavāditraśabdaiḥ śrutimanoharaiḥ |
prābudhyata mahābāhurdaśagrīvo mahābalaḥ || 3 ||
Shloka 4
विबुध्यतु यथाकालं राक्षसेन्द्रः प्रतापवान् ।
स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् ॥ 4 ॥
vibudhyatu yathākālaṃ rākṣasendraḥ pratāpavān |
srastamālyāmbaradharo vaidehīmanvacintayat || 4 ||
Shloka 5
भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः ।
न स तं राक्षसः कामं शशाकात्मनि गूहितुम् ॥ 5 ॥
bhṛśaṃ niyuktastasyāṃ ca madanena madotkaṭaḥ |
na sa taṃ rākṣasaḥ kāmaṃ śaśākātmani gūhitum || 5 ||
Shloka 6
स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् ।
तां नगैर्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः ॥ 6 ॥
sa sarvābharaṇairyukto bibhracchriyamanuttamām |
tāṃ nagairbahubhirjuṣṭāṃ sarvapuṣpaphalopagaiḥ || 6 ||
Shloka 7
वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् ।
सदा मदैश्च विहगैर्विचित्रां परमाद्भुताम् ॥ 7 ॥
vṛtāṃ puṣkariṇībhiśca nānāpuṣpopaśobhitām |
sadā madaiśca vihagairvicitrāṃ paramādbhutām || 7 ||
Shloka 8
ईहामृगैश्च विविधैर्जुष्टां दृष्टिमनोहरैः ।
वीधीः सम्प्रेक्षमाणश्च मणिकाञ्चनतोरणाः ॥ 8 ॥
īhāmṛgaiśca vividhairjuṣṭāṃ dṛṣṭimanoharaiḥ |
vīdhīḥ samprekṣamāṇaśca maṇikāñcanatoraṇāḥ || 8 ||
Shloka 9
नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् ।
अशोकवनिकामेव प्राविशत्सन्ततद्रुमाम् ॥ 9 ॥
nānāmṛgagaṇākīrṇāṃ phalaiḥ prapatitairvṛtām |
aśokavanikāmeva prāviśatsantatadrumām || 9 ||
Shloka 10
अङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत् ।
महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः ॥ 10 ॥
aṅganāśatamātraṃ tu taṃ vrajantamanuvrajat |
mahendramiva paulastyaṃ devagandharvayoṣitaḥ || 10 ||
Shloka 11
दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः ।
वालव्यजनहस्ताश्च तालवृन्तानि चापराः ॥ 11 ॥
dīpikāḥ kāñcanīḥ kāścijjagṛhustatra yoṣitaḥ |
vālavyajanahastāśca tālavṛntāni cāparāḥ || 11 ||
Shloka 12
काञ्चनैरपि भृङ्गारैर्जह्रुः सलिलमग्रतः ।
मण्डलाग्रान् बृसीश्चापि गृह्यान्याः पृष्ठतो ययुः ॥ 12 ॥
kāñcanairapi bhṛṅgārairjahruḥ salilamagrataḥ |
maṇḍalāgrān bṛsīścāpi gṛhyānyāḥ pṛṣṭhato yayuḥ || 12 ||
Shloka 13
काचिद्रत्नमयीं स्थालीं पूर्णां पानस्य भामिनी ।
दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ॥ 13 ॥
kācidratnamayīṃ sthālīṃ pūrṇāṃ pānasya bhāminī |
dakṣiṇā dakṣiṇenaiva tadā jagrāha pāṇinā || 13 ||
Shloka 14
राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् ।
सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ॥ 14 ॥
rājahaṃsapratīkāśaṃ chatraṃ pūrṇaśaśiprabham |
sauvarṇadaṇḍamaparā gṛhītvā pṛṣṭhato yayau || 14 ||
Shloka 15
निद्रामदपरीताक्ष्यो रावणस्योत्तमाः स्त्रियः ।
अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव ॥ 15 ॥
nidrāmadaparītākṣyo rāvaṇasyottamāḥ striyaḥ |
anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva || 15 ||
Shloka 16
व्याविद्धहारकेयूराः समामृदितवर्णकाः ।
समागलितकेशान्ताः सस्वेदवदनास्तथा ॥ 16 ॥
vyāviddhahārakeyūrāḥ samāmṛditavarṇakāḥ |
samāgalitakeśāntāḥ sasvedavadanāstathā || 16 ||
Shloka 17
घूर्णन्त्यो मदशेषेण निद्रया च शुभाननाः ।
स्वेदक्लिष्टाङ्गकुसुमास्सुमाल्याकुलमूर्धजाः ॥ 17 ॥
ghūrṇantyo madaśeṣeṇa nidrayā ca śubhānanāḥ |
svedakliṣṭāṅgakusumāssumālyākulamūrdhajāḥ || 17 ||
Shloka 18
प्रयान्तं नैऋतपतिं नार्यो मदिरलोचनाः ।
बहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः ॥ 18 ॥
prayāntaṃ naiṛtapatiṃ nāryo madiralocanāḥ |
bahumānācca kāmācca priyā bhāryāstamanvayuḥ || 18 ||
Shloka 19
स च कामपराधीनः पतिस्तासां महाबलः ।
सीतासक्तमना मन्दो मन्दाञ्चितगतिर्बभौ ॥ 19 ॥
sa ca kāmaparādhīnaḥ patistāsāṃ mahābalaḥ |
sītāsaktamanā mando mandāñcitagatirbabhau || 19 ||
Shloka 20
ततः काञ्चीनिनादं च नूपुराणां च निस्वनम् ।
शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ॥ 20 ॥
tataḥ kāñcīninādaṃ ca nūpurāṇāṃ ca nisvanam |
śuśrāva paramastrīṇāṃ sa kapirmārutātmajaḥ || 20 ||
Shloka 21
तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् ।
द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः ॥ 21 ॥
taṃ cāpratimakarmāṇamacintyabalapauruṣam |
dvāradeśamanuprāptaṃ dadarśa hanumān kapiḥ || 21 ||
Shloka 22
दीपिकाभिरनेकाभिः समन्तादवभासितम् ।
गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः ॥ 22 ॥
dīpikābhiranekābhiḥ samantādavabhāsitam |
gandhatailāvasiktābhirdhriyamāṇābhiragrataḥ || 22 ||
Shloka 23
कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् ।
समक्षमिव कन्दर्पमपविद्धशरासनम् ॥ 23 ॥
kāmadarpamadairyuktaṃ jihmatāmrāyatekṣaṇam |
samakṣamiva kandarpamapaviddhaśarāsanam || 23 ||
Shloka 24
मथितामृतफेनाभमरजोवस्त्रमुत्तमम् ।
सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे ॥ 24 ॥
mathitāmṛtaphenābhamarajovastramuttamam |
salīlamanukarṣantaṃ vimuktaṃ saktamaṅgade || 24 ||
Shloka 25
तं पत्रविटपे लीनः पत्रपुष्पघनावृतः ।
समीपमिव सङ्क्रान्तं निध्यातुमुपचक्रमे ॥ 25 ॥
taṃ patraviṭape līnaḥ patrapuṣpaghanāvṛtaḥ |
samīpamiva saṅkrāntaṃ nidhyātumupacakrame || 25 ||
Shloka 26
अवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः ।
रूपयौवनसम्पन्ना रावणस्य वरस्त्रियः ॥ 26 ॥
avekṣamāṇastu tato dadarśa kapikuñjaraḥ |
rūpayauvanasampannā rāvaṇasya varastriyaḥ || 26 ||
Shloka 27
ताभिः परिवृतो राजा सुरूपाभिर्महायशाः ।
तन्मृगद्विजसङ्घुष्टं प्रविष्टः प्रमदावनम् ॥ 27 ॥
tābhiḥ parivṛto rājā surūpābhirmahāyaśāḥ |
tanmṛgadvijasaṅghuṣṭaṃ praviṣṭaḥ pramadāvanam || 27 ||
Shloka 28
क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः ।
तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ॥ 28 ॥
kṣībo vicitrābharaṇaḥ śaṅkukarṇo mahābalaḥ |
tena viśravasaḥ putraḥ sa dṛṣṭo rākṣasādhipaḥ || 28 ||
Shloka 29
वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः ।
तं ददर्श महातेजास्तेजोवन्तं महाकपिः ॥ 29 ॥
vṛtaḥ paramanārībhistārābhiriva candramāḥ |
taṃ dadarśa mahātejāstejovantaṃ mahākapiḥ || 29 ||
Shloka 30
रावणोऽयं महाबाहुरिति सञ्चिन्त्य वानरः ।
अवप्लुतो महातेजा हनुमान्मारुतात्मजः ॥ 30 ॥
rāvaṇo'yaṃ mahābāhuriti sañcintya vānaraḥ |
avapluto mahātejā hanumānmārutātmajaḥ || 30 ||
Shloka 31
स तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा ।
पत्रगुह्यान्तरे सक्तो हनुमान् संवृतोऽभवत् ॥ 31 ॥
sa tathāpyugratejāḥ sannirdhūtastasya tejasā |
patraguhyāntare sakto hanumān saṃvṛto'bhavat || 31 ||
Shloka 32
स तामसितकेशान्तां सुश्रोणीं संहतस्त्नीम् ।
दिदृक्षुरसितापाङ्गामुपावर्तत रावणः ॥ 32 ॥
sa tāmasitakeśāntāṃ suśroṇīṃ saṃhatastnīm |
didṛkṣurasitāpāṅgāmupāvartata rāvaṇaḥ || 32 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे अष्टादशस्सर्गः ॥
Sanskrit — Devanagari (original)
श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ अष्टादशस्सर्गः ।
तथा विप्रेक्ष्यमाणस्य वनं पुष्पितपादपम् ।
विचिन्वतश्च वैदेहीं किञ्चिच्छेषा निशाऽभवत् ॥ 1 ॥
षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् ।
शुश्राव ब्रह्मघोषांश्च स विरात्रे ब्रह्मरक्षसाम् ॥ 2 ॥
अथ मङ्गलवादित्रशब्दैः श्रुतिमनोहरैः ।
प्राबुध्यत महाबाहुर्दशग्रीवो महाबलः ॥ 3 ॥
विबुध्यतु यथाकालं राक्षसेन्द्रः प्रतापवान् ।
स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् ॥ 4 ॥
भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः ।
न स तं राक्षसः कामं शशाकात्मनि गूहितुम् ॥ 5 ॥
स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् ।
तां नगैर्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः ॥ 6 ॥
वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् ।
सदा मदैश्च विहगैर्विचित्रां परमाद्भुताम् ॥ 7 ॥
ईहामृगैश्च विविधैर्जुष्टां दृष्टिमनोहरैः ।
वीधीः सम्प्रेक्षमाणश्च मणिकाञ्चनतोरणाः ॥ 8 ॥
नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् ।
अशोकवनिकामेव प्राविशत्सन्ततद्रुमाम् ॥ 9 ॥
अङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत् ।
महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः ॥ 10 ॥
दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः ।
वालव्यजनहस्ताश्च तालवृन्तानि चापराः ॥ 11 ॥
काञ्चनैरपि भृङ्गारैर्जह्रुः सलिलमग्रतः ।
मण्डलाग्रान् बृसीश्चापि गृह्यान्याः पृष्ठतो ययुः ॥ 12 ॥
काचिद्रत्नमयीं स्थालीं पूर्णां पानस्य भामिनी ।
दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ॥ 13 ॥
राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् ।
सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ॥ 14 ॥
निद्रामदपरीताक्ष्यो रावणस्योत्तमाः स्त्रियः ।
अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव ॥ 15 ॥
व्याविद्धहारकेयूराः समामृदितवर्णकाः ।
समागलितकेशान्ताः सस्वेदवदनास्तथा ॥ 16 ॥
घूर्णन्त्यो मदशेषेण निद्रया च शुभाननाः ।
स्वेदक्लिष्टाङ्गकुसुमास्सुमाल्याकुलमूर्धजाः ॥ 17 ॥
प्रयान्तं नैऋतपतिं नार्यो मदिरलोचनाः ।
बहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः ॥ 18 ॥
स च कामपराधीनः पतिस्तासां महाबलः ।
सीतासक्तमना मन्दो मन्दाञ्चितगतिर्बभौ ॥ 19 ॥
ततः काञ्चीनिनादं च नूपुराणां च निस्वनम् ।
शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ॥ 20 ॥
तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् ।
द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः ॥ 21 ॥
दीपिकाभिरनेकाभिः समन्तादवभासितम् ।
गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः ॥ 22 ॥
कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् ।
समक्षमिव कन्दर्पमपविद्धशरासनम् ॥ 23 ॥
मथितामृतफेनाभमरजोवस्त्रमुत्तमम् ।
सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे ॥ 24 ॥
तं पत्रविटपे लीनः पत्रपुष्पघनावृतः ।
समीपमिव सङ्क्रान्तं निध्यातुमुपचक्रमे ॥ 25 ॥
अवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः ।
रूपयौवनसम्पन्ना रावणस्य वरस्त्रियः ॥ 26 ॥
ताभिः परिवृतो राजा सुरूपाभिर्महायशाः ।
तन्मृगद्विजसङ्घुष्टं प्रविष्टः प्रमदावनम् ॥ 27 ॥
क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः ।
तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ॥ 28 ॥
वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः ।
तं ददर्श महातेजास्तेजोवन्तं महाकपिः ॥ 29 ॥
रावणोऽयं महाबाहुरिति सञ्चिन्त्य वानरः ।
अवप्लुतो महातेजा हनुमान्मारुतात्मजः ॥ 30 ॥
स तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा ।
पत्रगुह्यान्तरे सक्तो हनुमान् संवृतोऽभवत् ॥ 31 ॥
स तामसितकेशान्तां सुश्रोणीं संहतस्त्नीम् ।
दिदृक्षुरसितापाङ्गामुपावर्तत रावणः ॥ 32 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे अष्टादशस्सर्गः ॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version. It is a transliteration, not a translation — see “Meaning” for translations where available.
🕉 InfoLyter.in