Meaning —
⏳ The meaning of this text is being prepared (AI translation with an accuracy check). This usually takes a few minutes — this page will refresh when it is ready.
The meaning is ready. Show it.
The meaning could not be prepared right now.
A translation in is not yet available for this text.
The original text and transliteration are shown below.
श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ एकषष्टितमस्सर्गः ।
Shloka 1
ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः ।
अङ्गदप्रमुखा वीरा हनुमांश्च महाकपिः ॥ 1 ॥

tato jāmbavato vākyamagṛhṇanta vanaukasaḥ |
aṅgadapramukhā vīrā hanumāṃśca mahākapiḥ || 1 ||

Shloka 2
प्रीतिमन्तस्ततः सर्वे वायुपुत्रपरस्पराः ।
महेन्द्राद्रिं परित्यज्य पुप्लुवुः प्लवगर्षभाः ॥ 2 ॥

prītimantastataḥ sarve vāyuputraparasparāḥ |
mahendrādriṃ parityajya pupluvuḥ plavagarṣabhāḥ || 2 ||

Shloka 3
मेरुमन्दरसङ्काशा मत्ता इव महागजाः ।
छादयन्त इवाकाशं महाकाया महाबलाः ॥ 3 ॥
छादयन्त इवाकाशं महाकाया महाबलाः ॥ 3 ॥
merumandarasaṅkāśā mattā iva mahāgajāḥ |
chādayanta ivākāśaṃ mahākāyā mahābalāḥ || 3 ||

Shloka 4
सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् ।
हनूमन्तं महावेगं वहन्त इव दृष्टिभिः ॥ 4 ॥

sabhājyamānaṃ bhūtaistamātmavantaṃ mahābalam |
hanūmantaṃ mahāvegaṃ vahanta iva dṛṣṭibhiḥ || 4 ||

Shloka 5
राघवे चार्थनिर्ववृत्तिं कर्तुं च परमं यशः ।
समाधाय समृद्धार्थाः सर्वेसिद्धिभिरुन्नता ॥ 5 ॥

rāghave cārthanirvavṛttiṃ kartuṃ ca paramaṃ yaśaḥ |
samādhāya samṛddhārthāḥ sarvesiddhibhirunnatā || 5 ||

Shloka 6
प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः ।
सर्वे रामप्रतीकारे निश्चितार्था मनस्स्विनः ॥ 6 ॥

priyākhyānonmukhāḥ sarve sarve yuddhābhinandinaḥ |
sarve rāmapratīkāre niścitārthā manassvinaḥ || 6 ||

Shloka 7
प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः ।
नन्दनोपमयासेदुर्वनं द्रुमलतायुतम् ॥ 7 ॥
नन्दनोपमयासेदुर्वनं द्रुमलतायुतम् ॥ 7 ॥
plavamānāḥ khamāplutya tataste kānanaukasaḥ |
nandanopamayāsedurvanaṃ drumalatāyutam || 7 ||

Shloka 8
यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् ।
अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ॥ 8 ॥

yattanmadhuvanaṃ nāma sugrīvasyābhirakṣitam |
adhṛṣyaṃ sarvabhūtānāṃ sarvabhūtamanoharam || 8 ||

Shloka 9
यद्रक्षति महावीर्य स्सदा दधिमुखः कपिः ।
मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ॥ 9 ॥

yadrakṣati mahāvīrya ssadā dadhimukhaḥ kapiḥ |
mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ || 9 ||

Shloka 10
ते तद्वनमुपागम्य बभूवुः परमोत्कटाः ।
वानरा वानरेन्द्रस्य मनः कान्ततमं महत् ॥ 10 ॥

te tadvanamupāgamya babhūvuḥ paramotkaṭāḥ |
vānarā vānarendrasya manaḥ kāntatamaṃ mahat || 10 ||

Shloka 11
ततस्ते वानरा हृष्टा दृष्टवा मधुवनं महत् ।
कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः ॥ 11 ॥

tataste vānarā hṛṣṭā dṛṣṭavā madhuvanaṃ mahat |
kumāramabhyayācanta madhūni madhupiṅgalāḥ || 11 ||

Shloka 12
ततः कुमारस्तान् वृद्धान् जाम्बवत्प्रमुखान् कपीन् ।
अनुमान्य ददौ तेषां विसर्गं मधुभिक्षणे ॥ 12 ॥

tataḥ kumārastān vṛddhān jāmbavatpramukhān kapīn |
anumānya dadau teṣāṃ visargaṃ madhubhikṣaṇe || 12 ||

Shloka 13
ततश्चानुमता स्सर्वे सम्प्रहृष्टा वनौकसः ।
मुदिताः प्रेरिताश्चापि प्रनृत्यन्तोऽभवंस्तदा ॥ 13 ॥

tataścānumatā ssarve samprahṛṣṭā vanaukasaḥ |
muditāḥ preritāścāpi pranṛtyanto'bhavaṃstadā || 13 ||

Shloka 14
गायन्ति केचित्प्रणमन्ति केचिन्नृत्यन्ति केचित्प्रहसन्ति केचित् ।
पतन्ति केचिद्विचरन्ति केचित्ल्पवन्ति केचित्प्रलपन्ति केचित् ॥ 14 ॥

gāyanti kecitpraṇamanti kecinnṛtyanti kecitprahasanti kecit |
patanti kecidvicaranti kecitlpavanti kecitpralapanti kecit || 14 ||

Shloka 15
परस्परं केचिदुपाश्रयन्ते परस्परं केचिदुपाक्रमन्ते ।
परस्परं केचिदुपब्रुवन्ते परस्परं केचिदुपारमन्ते ॥ 15 ॥

parasparaṃ kecidupāśrayante parasparaṃ kecidupākramante |
parasparaṃ kecidupabruvante parasparaṃ kecidupāramante || 15 ||

Shloka 16
द्रुमाद्द्रुमं केचिदभिद्रवन्ते क्षितौ नगाग्रान्निपतन्ति केचित् ।
महीतलात्केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसम्पतन्ति ॥ 16 ॥

drumāddrumaṃ kecidabhidravante kṣitau nagāgrānnipatanti kecit |
mahītalātkecidudīrṇavegā mahādrumāgrāṇyabhisampatanti || 16 ||

Shloka 17
गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति ।
रुदन्तमन्यः प्रणुदन्नुपैति नुदन्तमन्यः प्रणदन्नुपैति ॥ 17 ॥

gāyantamanyaḥ prahasannupaiti hasantamanyaḥ prarudannupaiti |
rudantamanyaḥ praṇudannupaiti nudantamanyaḥ praṇadannupaiti || 17 ||

Shloka 18
समाकुलं तत्कपिसैन्यमासीन्मधुप्रसानोत्कटसत्त्वचेष्टम् ।
न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव तृप्तः ॥ 18 ॥

samākulaṃ tatkapisainyamāsīnmadhuprasānotkaṭasattvaceṣṭam |
na cātra kaścinna babhūva matto na cātra kaścinna babhūva tṛptaḥ || 18 ||

Shloka 19
ततो वनं तत्परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान् ।
समीक्ष्य कोपाद्धधिवक्रनामा निवारयामास कपिः कपींस्तान् ॥ 19 ॥

tato vanaṃ tatparibhakṣyamāṇaṃ drumāṃśca vidhvaṃsitapatrapuṣpān |
samīkṣya kopāddhadhivakranāmā nivārayāmāsa kapiḥ kapīṃstān || 19 ||

Shloka 20
स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः ।
चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः ॥ 20 ॥

sa taiḥ pravṛddhaiḥ paribhartsyamāno vanasya goptā harivīravṛddhaḥ |
cakāra bhūyo matimugratejā vanasya rakṣāṃ prati vānarebhyaḥ || 20 ||

Shloka 21
उवाच कांश्चित्परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जघान ।
समेत्य कैश्चित्कलहं चकार तथैव साम्नोपजगाम कांश्चित् ॥ 21 ॥

uvāca kāṃścitparuṣāṇi dhṛṣṭamasaktamanyāṃśca talairjaghāna |
sametya kaiścitkalahaṃ cakāra tathaiva sāmnopajagāma kāṃścit || 21 ||

Shloka 22
स तैर्मदात्सम्परिवार्य वाक्यैर्भलाच्छ तेन प्रतिवार्यमाणैः ।
प्रधर्षितस्त्यक्तभयै स्समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम् ॥ 22 ॥

sa tairmadātsamparivārya vākyairbhalāccha tena prativāryamāṇaiḥ |
pradharṣitastyaktabhayai ssametya prakṛṣyate cāpyanavekṣya doṣam || 22 ||

Shloka 23
नखैस्तुदन्तो दशनैर्दशन्त स्तलैश्च पादैश्च समापयन्तः ।
मदात्कपिं तं कपय स्समग्रा महावनं निर्विषयं च चक्रुः ॥ 23 ॥

nakhaistudanto daśanairdaśanta stalaiśca pādaiśca samāpayantaḥ |
madātkapiṃ taṃ kapaya ssamagrā mahāvanaṃ nirviṣayaṃ ca cakruḥ || 23 ||

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे एकषष्टितमस्सर्गः ॥
Sanskrit — Devanagari (original)
श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ एकषष्टितमस्सर्गः ।
ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः ।
अङ्गदप्रमुखा वीरा हनुमांश्च महाकपिः ॥ 1 ॥
प्रीतिमन्तस्ततः सर्वे वायुपुत्रपरस्पराः ।
महेन्द्राद्रिं परित्यज्य पुप्लुवुः प्लवगर्षभाः ॥ 2 ॥
मेरुमन्दरसङ्काशा मत्ता इव महागजाः ।
छादयन्त इवाकाशं महाकाया महाबलाः ॥ 3 ॥
सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् ।
हनूमन्तं महावेगं वहन्त इव दृष्टिभिः ॥ 4 ॥
राघवे चार्थनिर्ववृत्तिं कर्तुं च परमं यशः ।
समाधाय समृद्धार्थाः सर्वेसिद्धिभिरुन्नता ॥ 5 ॥
प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः ।
सर्वे रामप्रतीकारे निश्चितार्था मनस्स्विनः ॥ 6 ॥
प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः ।
नन्दनोपमयासेदुर्वनं द्रुमलतायुतम् ॥ 7 ॥
यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् ।
अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ॥ 8 ॥
यद्रक्षति महावीर्य स्सदा दधिमुखः कपिः ।
मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ॥ 9 ॥
ते तद्वनमुपागम्य बभूवुः परमोत्कटाः ।
वानरा वानरेन्द्रस्य मनः कान्ततमं महत् ॥ 10 ॥
ततस्ते वानरा हृष्टा दृष्टवा मधुवनं महत् ।
कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः ॥ 11 ॥
ततः कुमारस्तान् वृद्धान् जाम्बवत्प्रमुखान् कपीन् ।
अनुमान्य ददौ तेषां विसर्गं मधुभिक्षणे ॥ 12 ॥
ततश्चानुमता स्सर्वे सम्प्रहृष्टा वनौकसः ।
मुदिताः प्रेरिताश्चापि प्रनृत्यन्तोऽभवंस्तदा ॥ 13 ॥
गायन्ति केचित्प्रणमन्ति केचिन्नृत्यन्ति केचित्प्रहसन्ति केचित् ।
पतन्ति केचिद्विचरन्ति केचित्ल्पवन्ति केचित्प्रलपन्ति केचित् ॥ 14 ॥
परस्परं केचिदुपाश्रयन्ते परस्परं केचिदुपाक्रमन्ते ।
परस्परं केचिदुपब्रुवन्ते परस्परं केचिदुपारमन्ते ॥ 15 ॥
द्रुमाद्द्रुमं केचिदभिद्रवन्ते क्षितौ नगाग्रान्निपतन्ति केचित् ।
महीतलात्केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसम्पतन्ति ॥ 16 ॥
गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति ।
रुदन्तमन्यः प्रणुदन्नुपैति नुदन्तमन्यः प्रणदन्नुपैति ॥ 17 ॥
समाकुलं तत्कपिसैन्यमासीन्मधुप्रसानोत्कटसत्त्वचेष्टम् ।
न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव तृप्तः ॥ 18 ॥
ततो वनं तत्परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान् ।
समीक्ष्य कोपाद्धधिवक्रनामा निवारयामास कपिः कपींस्तान् ॥ 19 ॥
स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः ।
चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः ॥ 20 ॥
उवाच कांश्चित्परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जघान ।
समेत्य कैश्चित्कलहं चकार तथैव साम्नोपजगाम कांश्चित् ॥ 21 ॥
स तैर्मदात्सम्परिवार्य वाक्यैर्भलाच्छ तेन प्रतिवार्यमाणैः ।
प्रधर्षितस्त्यक्तभयै स्समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम् ॥ 22 ॥
नखैस्तुदन्तो दशनैर्दशन्त स्तलैश्च पादैश्च समापयन्तः ।
मदात्कपिं तं कपय स्समग्रा महावनं निर्विषयं च चक्रुः ॥ 23 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे एकषष्टितमस्सर्गः ॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
It is a transliteration, not a translation — see “Meaning” for translations where available.