Meaning —
⏳ The meaning of this text is being prepared (AI translation with an accuracy check). This usually takes a few minutes — this page will refresh when it is ready.
The meaning is ready. Show it.
The meaning could not be prepared right now.
A translation in is not yet available for this text.
The original text and transliteration are shown below.
श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ एकोनत्रिंशस्सर्गः ।
Shloka 1
समीक्ष्य विमलं व्योम गतविद्युद्वलाहकम् ।
सारसाकुलसङ्घुष्टं रम्यज्योत्स्नानुलेपनम् ॥ 1 ॥

samīkṣya vimalaṃ vyoma gatavidyudvalāhakam |
sārasākulasaṅghuṣṭaṃ ramyajyotsnānulepanam || 1 ||

Shloka 2
समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसङ्ग्रहम् ।
अत्यर्थमसतां मार्गमेकान्तगतमानसम् ॥ 2 ॥
अत्यर्थमसतां मार्गमेकान्तगतमानसम् ॥ 2 ॥
samṛddhārthaṃ ca sugrīvaṃ mandadharmārthasaṅgraham |
atyarthamasatāṃ mārgamekāntagatamānasam || 2 ||

Shloka 3
निर्वृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा ।
प्राप्तवन्तमभिप्रेतान्सर्वानेव मनोरथान् ॥ 3 ॥

nirvṛttakāryaṃ siddhārthaṃ pramadābhirataṃ sadā |
prāptavantamabhipretānsarvāneva manorathān || 3 ||

Shloka 4
स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम् ।
विहरन्तमहोरात्रं कृतार्थं विगतज्वरम् ॥ 4 ॥

svāṃ ca patnīmabhipretāṃ tārāṃ cāpi samīpsitām |
viharantamahorātraṃ kṛtārthaṃ vigatajvaram || 4 ||

Shloka 5
क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः ।
मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम् ॥ 5 ॥

krīḍantamiva deveśaṃ nandane'psarasāṃ gaṇaiḥ |
mantriṣu nyastakāryaṃ ca mantriṇāmanavekṣakam || 5 ||

Shloka 6
उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम् ।
निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित् ॥ 6 ॥

utsannarājyasandeśaṃ kāmavṛttamavasthitam |
niścitārtho'rthatattvajñaḥ kāladharmaviśeṣavit || 6 ||

Shloka 7
प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः ।
वाक्यविद्वाक्य तत्त्वज्ञं हरीशं मारुतात्मजः ॥ 7 ॥

prasādya vākyairmadhurairhetumadbhirmanoramaiḥ |
vākyavidvākya tattvajñaṃ harīśaṃ mārutātmajaḥ || 7 ||

Shloka 8
हितं तत्त्वं च पथ्यं च सामधर्मार्थनीतिमत् ।
प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम् ।
हरीश्वरमुपागम्य हनूमान्वाक्यमब्रवीत् ॥ 8 ॥

hitaṃ tattvaṃ ca pathyaṃ ca sāmadharmārthanītimat |
praṇayaprītisaṃyuktaṃ viśvāsakṛtaniścayam |
harīśvaramupāgamya hanūmānvākyamabravīt || 8 ||

Shloka 9
राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्धिता ।
मित्राणां सङ्ग्रहश्शेषस्तं भवान्कर्तुमर्हति ॥ 9 ॥

rājyaṃ prāptaṃ yaśaścaiva kaulī śrīrabhivardhitā |
mitrāṇāṃ saṅgrahaśśeṣastaṃ bhavānkartumarhati || 9 ||

Shloka 10
यो हि मित्रेषु कालज्ञस्सततं साधु वर्तते ॥ 10 ॥
yo hi mitreṣu kālajñassatataṃ sādhu vartate || 10 ||
Shloka 11
तस्य राज्यं च कीर्तिश्च प्रतापश्चाभि वर्धते ।
यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप ॥ 11 ॥

tasya rājyaṃ ca kīrtiśca pratāpaścābhi vardhate |
yasya kośaśca daṇḍaśca mitrāṇyātmā ca bhūmipa || 11 ||

Shloka 12
समवेतानि सर्वाणि स राज्यं महदश्नुते ।
तद्भवान्वृत्तसम्पन्नः स्थितः पथि निरत्यये ॥ 12 ॥

samavetāni sarvāṇi sa rājyaṃ mahadaśnute |
tadbhavānvṛttasampannaḥ sthitaḥ pathi niratyaye || 12 ||

Shloka 13
मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति ।
सन्त्यज्य सर्वकर्माणि मित्रार्थे योऽनुवर्तते ॥ 13 ॥

mitrārthamabhinītārthaṃ yathāvatkartumarhati |
santyajya sarvakarmāṇi mitrārthe yo'nuvartate || 13 ||

Shloka 14
सम्भ्रमाद्धि कृतोत्साहस्सोऽनर्थैर्नावरुध्यते ।
यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते ॥ 14 ॥

sambhramāddhi kṛtotsāhasso'narthairnāvarudhyate |
yastu kālavyatīteṣu mitrakāryeṣu vartate || 14 ||

Shloka 15
स कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते ।
यदिदं मित्रकार्यं वीर नोमित्रकार्यमरिन्दम ॥ 15 ॥

sa kṛtvā mahato'pyarthānna mitrārthena yujyate |
yadidaṃ mitrakāryaṃ vīra nomitrakāryamarindama || 15 ||

Shloka 16
क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम् ।
तदिदं वीर कार्यं ते कालातीतमरिन्दम ॥ 16 ॥

kriyatāṃ rāghavasyaitadvaidehyāḥ parimārgaṇam |
tadidaṃ vīra kāryaṃ te kālātītamarindama || 16 ||

Shloka 17
न च कालमतीतं ते निवेदयति कालवित् ।
त्वरमाणोऽपि सन्प्राज्ञस्तव राजन्वशानुगः ॥ 17 ॥

na ca kālamatītaṃ te nivedayati kālavit |
tvaramāṇo'pi sanprājñastava rājanvaśānugaḥ || 17 ||

Shloka 18
कुलस्य हेतुः स्फीतस्य दीर्घबन्धुश्च राघवः ।
अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः ॥ 18 ॥

kulasya hetuḥ sphītasya dīrghabandhuśca rāghavaḥ |
aprameyaprabhāvaśca svayaṃ cāpratimo guṇaiḥ || 18 ||

Shloka 19
तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव ।
हरीश्वर कपिश्रेष्ठानाज्ञापयितुमर्हसि ॥ 19 ॥

tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava |
harīśvara kapiśreṣṭhānājñāpayitumarhasi || 19 ||

Shloka 20
न हि तावद्भवेत्कालो व्यतीतश्चोदनादृते ।
चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः ॥ 20 ॥

na hi tāvadbhavetkālo vyatītaścodanādṛte |
coditasya hi kāryasya bhavetkālavyatikramaḥ || 20 ||

Shloka 21
अकर्तुरपि कार्यस्य भवान्कर्ता हरीश्वर किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च ॥ 21 ॥
akarturapi kāryasya bhavānkartā harīśvara kiṃ punaḥ pratikartuste rājyena ca dhanena ca || 21 ||
Shloka 22
शक्तिमानपिविक्रान्तो वानरर्क्षगणेश्वर ।
कर्तुं दाशरथेः प्रीतिमाज्ञायां किन्न सज्जसे ॥ 22 ॥

śaktimānapivikrānto vānararkṣagaṇeśvara |
kartuṃ dāśaratheḥ prītimājñāyāṃ kinna sajjase || 22 ||

Shloka 23
कामं खलु शरैश्शक्तस्सुरासुरमहोरगान् ।
वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां हि काङ्क्षते ॥ 23 ॥

kāmaṃ khalu śaraiśśaktassurāsuramahoragān |
vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ hi kāṅkṣate || 23 ||

Shloka 24
प्राणत्यागाविशङ्केन कृतं तेन तवप्रियम् ।
तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे ॥ 24 ॥

prāṇatyāgāviśaṅkena kṛtaṃ tena tavapriyam |
tasya mārgāma vaidehīṃ pṛthivyāmapi cāmbare || 24 ||

Shloka 25
देवदानव गन्धर्वा नसुरास्समरुद्गणाः ।
न च यक्षा भयं तस्य कुर्युः किमुत राक्षसाः ॥ 25 ॥

devadānava gandharvā nasurāssamarudgaṇāḥ |
na ca yakṣā bhayaṃ tasya kuryuḥ kimuta rākṣasāḥ || 25 ||

Shloka 26
तदेवं शक्तियुक्तस्य पूर्वं प्रियकृतस्तव ।
रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम् ॥ 26 ॥

tadevaṃ śaktiyuktasya pūrvaṃ priyakṛtastava |
rāmasyārhasi piṅgeśa kartuṃ sarvātmanā priyam || 26 ||

Shloka 27
नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे ।
कस्यचित्सज्जतेऽस्माकं कपीश्वर तवाज्ञया ॥ 27 ॥

nādhastādavanau nāpsu gatirnopari cāmbare |
kasyacitsajjate'smākaṃ kapīśvara tavājñayā || 27 ||

Shloka 28
तदाज्ञापय कः किं ते कुतो वापि व्यवस्यतु ।
हरयोऽह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघ ॥ 28 ॥

tadājñāpaya kaḥ kiṃ te kuto vāpi vyavasyatu |
harayo'hyapradhṛṣyāste santi koṭyagrato'nagha || 28 ||

Shloka 29
तस्य तद्वचनं श्रुत्वा काले साधु निवेदनम् ।
सुग्रीवस्सत्त्वसम्पन्नश्चकार मतिमुत्तमाम् ॥ 29 ॥

tasya tadvacanaṃ śrutvā kāle sādhu nivedanam |
sugrīvassattvasampannaścakāra matimuttamām || 29 ||

Shloka 30
स सन्दिदेशाभिमतं नीलं नित्यकृतोद्यमम् ।
दिक्षु सर्वासु सर्वेषां सैन्यानामुपसङ्ग्रहे ॥ 30 ॥

sa sandideśābhimataṃ nīlaṃ nityakṛtodyamam |
dikṣu sarvāsu sarveṣāṃ sainyānāmupasaṅgrahe || 30 ||

Shloka 31
यथा सेना समग्रा मे यूथपालाश्च सर्वशः ।
समागच्छन्त्यसङ्गेन सेनाग्राणि तथा कुरु ॥ 31 ॥

yathā senā samagrā me yūthapālāśca sarvaśaḥ |
samāgacchantyasaṅgena senāgrāṇi tathā kuru || 31 ||

Shloka 32
ये त्वन्तपालाः प्लवगाश्शीघ्रगा व्यवसायिनः ।
समानयन्तु ते सैन्यं त्वरिताश्शासनान्मम ॥ 32 ॥

ye tvantapālāḥ plavagāśśīghragā vyavasāyinaḥ |
samānayantu te sainyaṃ tvaritāśśāsanānmama || 32 ||

Shloka 33
स्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु ।
त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयान्नेह वानरः ।
तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा ॥ 33 ॥

svayaṃ cānantaraṃ sainyaṃ bhavānevānupaśyatu |
tripañcarātrādūrdhvaṃ yaḥ prāpnuyānneha vānaraḥ |
tasya prāṇāntiko daṇḍo nātra kāryā vicāraṇā || 33 ||

हरींश्च वृद्धानुपयातु साङ्गदो भवान्ममाज्ञामधिकृत्य निश्चिताम् ।
harīṃśca vṛddhānupayātu sāṅgado bhavānmamājñāmadhikṛtya niścitām |
इति व्यवस्थां हरिपुङ्गवेश्वरो विधाय वेश्म प्रविवेश वीर्यवान् ॥ 34 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे एकोनत्रिंशस्सर्गः ॥
Sanskrit — Devanagari (original)
श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ एकोनत्रिंशस्सर्गः ।
समीक्ष्य विमलं व्योम गतविद्युद्वलाहकम् ।
सारसाकुलसङ्घुष्टं रम्यज्योत्स्नानुलेपनम् ॥ 1 ॥
समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसङ्ग्रहम् ।
अत्यर्थमसतां मार्गमेकान्तगतमानसम् ॥ 2 ॥
निर्वृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा ।
प्राप्तवन्तमभिप्रेतान्सर्वानेव मनोरथान् ॥ 3 ॥
स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम् ।
विहरन्तमहोरात्रं कृतार्थं विगतज्वरम् ॥ 4 ॥
क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः ।
मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम् ॥ 5 ॥
उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम् ।
निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित् ॥ 6 ॥
प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः ।
वाक्यविद्वाक्य तत्त्वज्ञं हरीशं मारुतात्मजः ॥ 7 ॥
हितं तत्त्वं च पथ्यं च सामधर्मार्थनीतिमत् ।
प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम् ।
हरीश्वरमुपागम्य हनूमान्वाक्यमब्रवीत् ॥ 8 ॥
राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्धिता ।
मित्राणां सङ्ग्रहश्शेषस्तं भवान्कर्तुमर्हति ॥ 9 ॥
यो हि मित्रेषु कालज्ञस्सततं साधु वर्तते ॥ 10 ॥
तस्य राज्यं च कीर्तिश्च प्रतापश्चाभि वर्धते ।
यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप ॥ 11 ॥
समवेतानि सर्वाणि स राज्यं महदश्नुते ।
तद्भवान्वृत्तसम्पन्नः स्थितः पथि निरत्यये ॥ 12 ॥
मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति ।
सन्त्यज्य सर्वकर्माणि मित्रार्थे योऽनुवर्तते ॥ 13 ॥
सम्भ्रमाद्धि कृतोत्साहस्सोऽनर्थैर्नावरुध्यते ।
यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते ॥ 14 ॥
स कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते ।
यदिदं मित्रकार्यं वीर नोमित्रकार्यमरिन्दम ॥ 15 ॥
क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम् ।
तदिदं वीर कार्यं ते कालातीतमरिन्दम ॥ 16 ॥
न च कालमतीतं ते निवेदयति कालवित् ।
त्वरमाणोऽपि सन्प्राज्ञस्तव राजन्वशानुगः ॥ 17 ॥
कुलस्य हेतुः स्फीतस्य दीर्घबन्धुश्च राघवः ।
अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः ॥ 18 ॥
तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव ।
हरीश्वर कपिश्रेष्ठानाज्ञापयितुमर्हसि ॥ 19 ॥
न हि तावद्भवेत्कालो व्यतीतश्चोदनादृते ।
चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः ॥ 20 ॥
अकर्तुरपि कार्यस्य भवान्कर्ता हरीश्वर किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च ॥ 21 ॥
शक्तिमानपिविक्रान्तो वानरर्क्षगणेश्वर ।
कर्तुं दाशरथेः प्रीतिमाज्ञायां किन्न सज्जसे ॥ 22 ॥
कामं खलु शरैश्शक्तस्सुरासुरमहोरगान् ।
वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां हि काङ्क्षते ॥ 23 ॥
प्राणत्यागाविशङ्केन कृतं तेन तवप्रियम् ।
तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे ॥ 24 ॥
देवदानव गन्धर्वा नसुरास्समरुद्गणाः ।
न च यक्षा भयं तस्य कुर्युः किमुत राक्षसाः ॥ 25 ॥
तदेवं शक्तियुक्तस्य पूर्वं प्रियकृतस्तव ।
रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम् ॥ 26 ॥
नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे ।
कस्यचित्सज्जतेऽस्माकं कपीश्वर तवाज्ञया ॥ 27 ॥
तदाज्ञापय कः किं ते कुतो वापि व्यवस्यतु ।
हरयोऽह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघ ॥ 28 ॥
तस्य तद्वचनं श्रुत्वा काले साधु निवेदनम् ।
सुग्रीवस्सत्त्वसम्पन्नश्चकार मतिमुत्तमाम् ॥ 29 ॥
स सन्दिदेशाभिमतं नीलं नित्यकृतोद्यमम् ।
दिक्षु सर्वासु सर्वेषां सैन्यानामुपसङ्ग्रहे ॥ 30 ॥
यथा सेना समग्रा मे यूथपालाश्च सर्वशः ।
समागच्छन्त्यसङ्गेन सेनाग्राणि तथा कुरु ॥ 31 ॥
ये त्वन्तपालाः प्लवगाश्शीघ्रगा व्यवसायिनः ।
समानयन्तु ते सैन्यं त्वरिताश्शासनान्मम ॥ 32 ॥
स्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु ।
त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयान्नेह वानरः ।
तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा ॥ 33 ॥
हरींश्च वृद्धानुपयातु साङ्गदो भवान्ममाज्ञामधिकृत्य निश्चिताम् ।
इति व्यवस्थां हरिपुङ्गवेश्वरो विधाय वेश्म प्रविवेश वीर्यवान् ॥ 34 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे एकोनत्रिंशस्सर्गः ॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
It is a transliteration, not a translation — see “Meaning” for translations where available.