Meaning —
⏳ The meaning of this text is being prepared (AI translation with an accuracy check). This usually takes a few minutes — this page will refresh when it is ready.
The meaning is ready. Show it.
The meaning could not be prepared right now.
A translation in is not yet available for this text.
The original text and transliteration are shown below.
Verse 01
अधमा धनमिच्छन्ति धनमानौ च मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ 01 ॥

adhamā dhanamicchanti dhanamānau ca madhyamāḥ |
uttamā mānamicchanti māno hi mahatāṃ dhanam || 01 ||

Verse 02
इक्षुरापः पयो मूलं ताम्बूलं फलमौषधम् ।
भक्षयित्वापि कर्तव्याः स्नानदानादिकाः क्रियाः ॥ 02 ॥

ikṣurāpaḥ payo mūlaṃ tāmbūlaṃ phalamauṣadham |
bhakṣayitvāpi kartavyāḥ snānadānādikāḥ kriyāḥ || 02 ||

Verse 03
दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते ।
यदन्नं भक्षयते नित्यं जायते तादृशी प्रजा ॥ 03 ॥

dīpo bhakṣayate dhvāntaṃ kajjalaṃ ca prasūyate |
yadannaṃ bhakṣayate nityaṃ jāyate tādṛśī prajā || 03 ||

Verse 04
वित्तं देहि गुणान्वितेषु मतिमन्नान्यत्र देहि क्वचित्
प्राप्तं वारिनिधेर्जलं घनमुखे माधुर्ययुक्तं सदा ।
जीवान्स्थावरजङ्गमांश्च सकलान्सञ्जीव्य भूमण्डलं
भूयः पश्य तदेव कोटिगुणितं गच्छन्तमम्भोनिधिम् ॥ 04 ॥

vittaṃ dehi guṇānviteṣu matimannānyatra dehi kvacit
prāptaṃ vārinidherjalaṃ ghanamukhe mādhuryayuktaṃ sadā |
jīvānsthāvarajaṅgamāṃśca sakalānsañjīvya bhūmaṇḍalaṃ
bhūyaḥ paśya tadeva koṭiguṇitaṃ gacchantamambhonidhim || 04 ||

Verse 05
चाण्डालानां सहस्रैश्च सूरिभिस्तत्त्वदर्शिभिः ।
एको हि यवनः प्रोक्तो न नीचो यवनात्परः ॥ 05 ॥

cāṇḍālānāṃ sahasraiśca sūribhistattvadarśibhiḥ |
eko hi yavanaḥ prokto na nīco yavanātparaḥ || 05 ||

Verse 06
तैलाभ्यङ्गे चिताधूमे मैथुने क्षौरकर्मणि ।
तावद्भवति चाण्डालो यावत्स्नानं न चाचरेत् ॥ 06 ॥

tailābhyaṅge citādhūme maithune kṣaurakarmaṇi |
tāvadbhavati cāṇḍālo yāvatsnānaṃ na cācaret || 06 ||

Verse 07
अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् ।
भोजने चामृतं वारि भोजनान्ते विषापहम् ॥ 07 ॥

ajīrṇe bheṣajaṃ vāri jīrṇe vāri balapradam |
bhojane cāmṛtaṃ vāri bhojanānte viṣāpaham || 07 ||

Verse 08
हतं ज्ञानं क्रियाहीनं हतश्चाज्ञानतो नरः ।
हतं निर्णायकं सैन्यं स्त्रियो नष्टा ह्यभर्तृकाः ॥ 08 ॥

hataṃ jñānaṃ kriyāhīnaṃ hataścājñānato naraḥ |
hataṃ nirṇāyakaṃ sainyaṃ striyo naṣṭā hyabhartṛkāḥ || 08 ||

Verse 09
वृद्धकाले मृता भार्या बन्धुहस्तगतं धनम् ।
भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः ॥ 09 ॥

vṛddhakāle mṛtā bhāryā bandhuhastagataṃ dhanam |
bhojanaṃ ca parādhīnaṃ tisraḥ puṃsāṃ viḍambanāḥ || 09 ||

Verse 10
नाग्निहोत्रं विना वेदा न च दानं विना क्रिया ।
न भावेन विना सिद्धिस्तस्माद्भावो हि कारणम् ॥ 10 ॥

nāgnihotraṃ vinā vedā na ca dānaṃ vinā kriyā |
na bhāvena vinā siddhistasmādbhāvo hi kāraṇam || 10 ||

Verse 11
न देवो विद्यते काष्ठे न पाषाणे न मृण्मये ।
न भावेन विना सिद्धिस्तस्माद्भावो हि कारणम् ॥ 11 ॥

na devo vidyate kāṣṭhe na pāṣāṇe na mṛṇmaye |
na bhāvena vinā siddhistasmādbhāvo hi kāraṇam || 11 ||

Verse 12
काष्ठपाषाणधातूनां कृत्वा भावेन सेवनम् ।
श्रद्धया च तथा सिद्धिस्तस्य विष्णुप्रसादतः ॥ 12 ॥

kāṣṭhapāṣāṇadhātūnāṃ kṛtvā bhāvena sevanam |
śraddhayā ca tathā siddhistasya viṣṇuprasādataḥ || 12 ||

Verse 13
न देवो विद्यते काष्ठे न पाषाणे न मृन्मये ।
भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥ 13 ॥

na devo vidyate kāṣṭhe na pāṣāṇe na mṛnmaye |
bhāve hi vidyate devastasmādbhāvo hi kāraṇam || 13 ||

Verse 14
शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम् ।
अपत्यं च कलत्रं च सतां सङ्गतिरेव च ॥ 14 ॥

śāntitulyaṃ tapo nāsti na santoṣātparaṃ sukham |
apatyaṃ ca kalatraṃ ca satāṃ saṅgatireva ca || 14 ||

Verse 15
गुणो भूषयते रूपं शीलं भूषयते कुलम् ।
प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥ 15 ॥

guṇo bhūṣayate rūpaṃ śīlaṃ bhūṣayate kulam |
prāsādaśikharastho'pi kākaḥ kiṃ garuḍāyate || 15 ||

Verse 16
निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम् ।
असिद्धस्य हता विद्या ह्यभोगेन हतं धनम् ॥ 16 ॥

nirguṇasya hataṃ rūpaṃ duḥśīlasya hataṃ kulam |
asiddhasya hatā vidyā hyabhogena hataṃ dhanam || 16 ||

Verse 17
शुद्धं भूमिगतं तोयं शुद्धा नारी पतिव्रता ।
शुचिः क्षेमकरो राजा सन्तोषो ब्राह्मणः शुचिः ॥ 17 ॥

śuddhaṃ bhūmigataṃ toyaṃ śuddhā nārī pativratā |
śuciḥ kṣemakaro rājā santoṣo brāhmaṇaḥ śuciḥ || 17 ||

Verse 18
असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभृतः ।
सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गना ॥ 18 ॥

asantuṣṭā dvijā naṣṭāḥ santuṣṭāśca mahībhṛtaḥ |
salajjā gaṇikā naṣṭā nirlajjāśca kulāṅganā || 18 ||

Verse 19
किं कुलेन विशालेन विद्याहीनेन देहिनाम् ।
दुष्कुलं चापि विदुषो देवैरपि स पूज्यते ॥ 19 ॥

kiṃ kulena viśālena vidyāhīnena dehinām |
duṣkulaṃ cāpi viduṣo devairapi sa pūjyate || 19 ||

Verse 20
विद्वान्प्रशस्यते लोके विद्वान् सर्वत्र पूज्यते ।
विद्यया लभते सर्वं विद्या सर्वत्र पूज्यते ॥ 20 ॥

vidvānpraśasyate loke vidvān sarvatra pūjyate |
vidyayā labhate sarvaṃ vidyā sarvatra pūjyate || 20 ||

Verse 21
मांसभक्ष्यैः सुरापानैर्मुखैश्चाक्षरवर्जितैः ।
पशुभिः पुरुषाकारैर्भाराक्रान्ता हि मेदिनी ॥ 21 ॥

māṃsabhakṣyaiḥ surāpānairmukhaiścākṣaravarjitaiḥ |
paśubhiḥ puruṣākārairbhārākrāntā hi medinī || 21 ||

Verse 22
अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनश्च ऋत्विजः ।
यजमानं दानहीनो नास्ति यज्ञसमो रिपुः ॥ 22 ॥

annahīno dahedrāṣṭraṃ mantrahīnaśca ṛtvijaḥ |
yajamānaṃ dānahīno nāsti yajñasamo ripuḥ || 22 ||

Sanskrit — Devanagari (original)
अधमा धनमिच्छन्ति धनमानौ च मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ 01 ॥
इक्षुरापः पयो मूलं ताम्बूलं फलमौषधम् ।
भक्षयित्वापि कर्तव्याः स्नानदानादिकाः क्रियाः ॥ 02 ॥
दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते ।
यदन्नं भक्षयते नित्यं जायते तादृशी प्रजा ॥ 03 ॥
वित्तं देहि गुणान्वितेषु मतिमन्नान्यत्र देहि क्वचित्
प्राप्तं वारिनिधेर्जलं घनमुखे माधुर्ययुक्तं सदा ।
जीवान्स्थावरजङ्गमांश्च सकलान्सञ्जीव्य भूमण्डलं
भूयः पश्य तदेव कोटिगुणितं गच्छन्तमम्भोनिधिम् ॥ 04 ॥
चाण्डालानां सहस्रैश्च सूरिभिस्तत्त्वदर्शिभिः ।
एको हि यवनः प्रोक्तो न नीचो यवनात्परः ॥ 05 ॥
तैलाभ्यङ्गे चिताधूमे मैथुने क्षौरकर्मणि ।
तावद्भवति चाण्डालो यावत्स्नानं न चाचरेत् ॥ 06 ॥
अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् ।
भोजने चामृतं वारि भोजनान्ते विषापहम् ॥ 07 ॥
हतं ज्ञानं क्रियाहीनं हतश्चाज्ञानतो नरः ।
हतं निर्णायकं सैन्यं स्त्रियो नष्टा ह्यभर्तृकाः ॥ 08 ॥
वृद्धकाले मृता भार्या बन्धुहस्तगतं धनम् ।
भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः ॥ 09 ॥
नाग्निहोत्रं विना वेदा न च दानं विना क्रिया ।
न भावेन विना सिद्धिस्तस्माद्भावो हि कारणम् ॥ 10 ॥
न देवो विद्यते काष्ठे न पाषाणे न मृण्मये ।
न भावेन विना सिद्धिस्तस्माद्भावो हि कारणम् ॥ 11 ॥
काष्ठपाषाणधातूनां कृत्वा भावेन सेवनम् ।
श्रद्धया च तथा सिद्धिस्तस्य विष्णुप्रसादतः ॥ 12 ॥
न देवो विद्यते काष्ठे न पाषाणे न मृन्मये ।
भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥ 13 ॥
शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम् ।
अपत्यं च कलत्रं च सतां सङ्गतिरेव च ॥ 14 ॥
गुणो भूषयते रूपं शीलं भूषयते कुलम् ।
प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥ 15 ॥
निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम् ।
असिद्धस्य हता विद्या ह्यभोगेन हतं धनम् ॥ 16 ॥
शुद्धं भूमिगतं तोयं शुद्धा नारी पतिव्रता ।
शुचिः क्षेमकरो राजा सन्तोषो ब्राह्मणः शुचिः ॥ 17 ॥
असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभृतः ।
सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गना ॥ 18 ॥
किं कुलेन विशालेन विद्याहीनेन देहिनाम् ।
दुष्कुलं चापि विदुषो देवैरपि स पूज्यते ॥ 19 ॥
विद्वान्प्रशस्यते लोके विद्वान् सर्वत्र पूज्यते ।
विद्यया लभते सर्वं विद्या सर्वत्र पूज्यते ॥ 20 ॥
मांसभक्ष्यैः सुरापानैर्मुखैश्चाक्षरवर्जितैः ।
पशुभिः पुरुषाकारैर्भाराक्रान्ता हि मेदिनी ॥ 21 ॥
अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनश्च ऋत्विजः ।
यजमानं दानहीनो नास्ति यज्ञसमो रिपुः ॥ 22 ॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
It is a transliteration, not a translation — see “Meaning” for translations where available.