Meaning —
⏳ The meaning of this text is being prepared (AI translation with an accuracy check). This usually takes a few minutes — this page will refresh when it is ready.
The meaning is ready. Show it.
The meaning could not be prepared right now.
A translation in is not yet available for this text.
The original text and transliteration are shown below.
Verse 01
आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ।
दारिद्र्यदुःखरोगाणि बन्धनव्यसनानि च ॥ 01 ॥

ātmāparādhavṛkṣasya phalānyetāni dehinām |
dāridryaduḥkharogāṇi bandhanavyasanāni ca || 01 ||

Verse 02
पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही ।
एतत्सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥ 02 ॥

punarvittaṃ punarmitraṃ punarbhāryā punarmahī |
etatsarvaṃ punarlabhyaṃ na śarīraṃ punaḥ punaḥ || 02 ||

Verse 03
बहूनां चैव सत्त्वानां समवायो रिपुञ्जयः ।
वर्षाधाराधरो मेघस्तृणैरपि निवार्यते ॥ 03 ॥

bahūnāṃ caiva sattvānāṃ samavāyo ripuñjayaḥ |
varṣādhārādharo meghastṛṇairapi nivāryate || 03 ||

Verse 04
जले तैलं खले गुह्यं पात्रे दानं मनागपि ।
प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः ॥ 04 ॥

jale tailaṃ khale guhyaṃ pātre dānaṃ manāgapi |
prājñe śāstraṃ svayaṃ yāti vistāraṃ vastuśaktitaḥ || 04 ||

Verse 05
धर्माख्याने श्मशाने च रोगिणां या मतिर्भवेत् ।
सा सर्वदैव तिष्ठेच्चेत्को न मुच्येत बन्धनात् ॥ 05 ॥

dharmākhyāne śmaśāne ca rogiṇāṃ yā matirbhavet |
sā sarvadaiva tiṣṭheccetko na mucyeta bandhanāt || 05 ||

Verse 06
उत्पन्नपश्चात्तापस्य बुद्धिर्भवति यादृशी ।
तादृशी यदि पूर्वं स्यात्कस्य न स्यान्महोदयः ॥ 06 ॥

utpannapaścāttāpasya buddhirbhavati yādṛśī |
tādṛśī yadi pūrvaṃ syātkasya na syānmahodayaḥ || 06 ||

Verse 07
दाने तपसि शौर्ये वा विज्ञाने विनये नये ।
विस्मयो नहि कर्तव्यो बहुरत्ना वसुन्धरा ॥ 07 ॥

dāne tapasi śaurye vā vijñāne vinaye naye |
vismayo nahi kartavyo bahuratnā vasundharā || 07 ||

Verse 08
दूरस्थोऽपि न दूरस्थो यो यस्य मनसि स्थितः ।
यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः ॥ 08 ॥

dūrastho'pi na dūrastho yo yasya manasi sthitaḥ |
yo yasya hṛdaye nāsti samīpastho'pi dūrataḥ || 08 ||

Verse 09
यस्माच्च प्रियमिच्छेत्तु तस्य ब्रूयात्सदा प्रियम् ।
व्याधो मृगवधं कर्तुं गीतं गायति सुस्वरम् ॥ 09 ॥

yasmācca priyamicchettu tasya brūyātsadā priyam |
vyādho mṛgavadhaṃ kartuṃ gītaṃ gāyati susvaram || 09 ||

Verse 10
अत्यासन्ना विनाशाय दूरस्था न फलप्रदा ।
सेव्यतां मध्यभावेन राजा वह्निर्गुरुः स्त्रियः ॥ 10 ॥

atyāsannā vināśāya dūrasthā na phalapradā |
sevyatāṃ madhyabhāvena rājā vahnirguruḥ striyaḥ || 10 ||

Verse 11
अग्निरापः स्त्रियो मूर्खाः सर्पा राजकुलानि च ।
नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट् ॥ 11 ॥

agnirāpaḥ striyo mūrkhāḥ sarpā rājakulāni ca |
nityaṃ yatnena sevyāni sadyaḥ prāṇaharāṇi ṣaṭ || 11 ||

Verse 12
स जीवति गुणा यस्य यस्य धर्मः स जीवति ।
गुणधर्मविहीनस्य जीवितं निष्प्रयोजनम् ॥ 12 ॥

sa jīvati guṇā yasya yasya dharmaḥ sa jīvati |
guṇadharmavihīnasya jīvitaṃ niṣprayojanam || 12 ||

Verse 13
यदीच्छसि वशीकर्तुं जगदेकेन कर्मणा ।
पुरा पञ्चदशास्येभ्यो गां चरन्ती निवारय ॥ 13 ॥

yadīcchasi vaśīkartuṃ jagadekena karmaṇā |
purā pañcadaśāsyebhyo gāṃ carantī nivāraya || 13 ||

Verse 14
प्रस्तावसदृशं वाक्यं प्रभावसदृशं प्रियम् ।
आत्मशक्तिसमं कोपं यो जानाति स पण्डितः ॥ 14 ॥

prastāvasadṛśaṃ vākyaṃ prabhāvasadṛśaṃ priyam |
ātmaśaktisamaṃ kopaṃ yo jānāti sa paṇḍitaḥ || 14 ||

Verse 15
एक एव पदार्थस्तु त्रिधा भवति वीक्षितः ।
कुणपं कामिनी मांसं योगिभिः कामिभिः श्वभिः ॥ 15 ॥

eka eva padārthastu tridhā bhavati vīkṣitaḥ |
kuṇapaṃ kāminī māṃsaṃ yogibhiḥ kāmibhiḥ śvabhiḥ || 15 ||

Verse 16
सुसिद्धमौषधं धर्मं गृहच्छिद्रं च मैथुनम् ।
कुभुक्तं कुश्रुतं चैव मतिमान्न प्रकाशयेत् ॥ 16 ॥

susiddhamauṣadhaṃ dharmaṃ gṛhacchidraṃ ca maithunam |
kubhuktaṃ kuśrutaṃ caiva matimānna prakāśayet || 16 ||

Verse 17
तावन्मौनेन नीयन्ते कोकिलैश्चैव वासराः ।
यावत्सर्वजनानन्ददायिनी वाक्प्रवर्तते ॥ 17 ॥

tāvanmaunena nīyante kokilaiścaiva vāsarāḥ |
yāvatsarvajanānandadāyinī vākpravartate || 17 ||

Verse 18
धर्मं धनं च धान्यं च गुरोर्वचनमौषधम् ।
सुगृहीतं च कर्तव्यमन्यथा तु न जीवति ॥ 18 ॥

dharmaṃ dhanaṃ ca dhānyaṃ ca gurorvacanamauṣadham |
sugṛhītaṃ ca kartavyamanyathā tu na jīvati || 18 ||

Verse 19
त्यज दुर्जनसंसर्गं भज साधुसमागमम् ।
कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यतः ॥ 19 ॥

tyaja durjanasaṃsargaṃ bhaja sādhusamāgamam |
kuru puṇyamahorātraṃ smara nityamanityataḥ || 19 ||

Sanskrit — Devanagari (original)
आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ।
दारिद्र्यदुःखरोगाणि बन्धनव्यसनानि च ॥ 01 ॥
पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही ।
एतत्सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥ 02 ॥
बहूनां चैव सत्त्वानां समवायो रिपुञ्जयः ।
वर्षाधाराधरो मेघस्तृणैरपि निवार्यते ॥ 03 ॥
जले तैलं खले गुह्यं पात्रे दानं मनागपि ।
प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः ॥ 04 ॥
धर्माख्याने श्मशाने च रोगिणां या मतिर्भवेत् ।
सा सर्वदैव तिष्ठेच्चेत्को न मुच्येत बन्धनात् ॥ 05 ॥
उत्पन्नपश्चात्तापस्य बुद्धिर्भवति यादृशी ।
तादृशी यदि पूर्वं स्यात्कस्य न स्यान्महोदयः ॥ 06 ॥
दाने तपसि शौर्ये वा विज्ञाने विनये नये ।
विस्मयो नहि कर्तव्यो बहुरत्ना वसुन्धरा ॥ 07 ॥
दूरस्थोऽपि न दूरस्थो यो यस्य मनसि स्थितः ।
यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः ॥ 08 ॥
यस्माच्च प्रियमिच्छेत्तु तस्य ब्रूयात्सदा प्रियम् ।
व्याधो मृगवधं कर्तुं गीतं गायति सुस्वरम् ॥ 09 ॥
अत्यासन्ना विनाशाय दूरस्था न फलप्रदा ।
सेव्यतां मध्यभावेन राजा वह्निर्गुरुः स्त्रियः ॥ 10 ॥
अग्निरापः स्त्रियो मूर्खाः सर्पा राजकुलानि च ।
नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट् ॥ 11 ॥
स जीवति गुणा यस्य यस्य धर्मः स जीवति ।
गुणधर्मविहीनस्य जीवितं निष्प्रयोजनम् ॥ 12 ॥
यदीच्छसि वशीकर्तुं जगदेकेन कर्मणा ।
पुरा पञ्चदशास्येभ्यो गां चरन्ती निवारय ॥ 13 ॥
प्रस्तावसदृशं वाक्यं प्रभावसदृशं प्रियम् ।
आत्मशक्तिसमं कोपं यो जानाति स पण्डितः ॥ 14 ॥
एक एव पदार्थस्तु त्रिधा भवति वीक्षितः ।
कुणपं कामिनी मांसं योगिभिः कामिभिः श्वभिः ॥ 15 ॥
सुसिद्धमौषधं धर्मं गृहच्छिद्रं च मैथुनम् ।
कुभुक्तं कुश्रुतं चैव मतिमान्न प्रकाशयेत् ॥ 16 ॥
तावन्मौनेन नीयन्ते कोकिलैश्चैव वासराः ।
यावत्सर्वजनानन्ददायिनी वाक्प्रवर्तते ॥ 17 ॥
धर्मं धनं च धान्यं च गुरोर्वचनमौषधम् ।
सुगृहीतं च कर्तव्यमन्यथा तु न जीवति ॥ 18 ॥
त्यज दुर्जनसंसर्गं भज साधुसमागमम् ।
कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यतः ॥ 19 ॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
It is a transliteration, not a translation — see “Meaning” for translations where available.