Meaning —
⏳ The meaning of this text is being prepared (AI translation with an accuracy check). This usually takes a few minutes — this page will refresh when it is ready.
The meaning is ready. Show it.
The meaning could not be prepared right now.
A translation in is not yet available for this text.
The original text and transliteration are shown below.
न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये
स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः ।
Verse 01
नारीपीनपयोधरोरुयुगला स्वप्नेऽपि नालिङ्गितं
मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥ 01 ॥

nārīpīnapayodharoruyugalā svapne'pi nāliṅgitaṃ
mātuḥ kevalameva yauvanavanacchede kuṭhārā vayam || 01 ||

Verse 02
जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः ।
हृदये चिन्तयन्त्यन्यं न स्त्रीणामेकतो रतिः ॥ 02 ॥

jalpanti sārdhamanyena paśyantyanyaṃ savibhramāḥ |
hṛdaye cintayantyanyaṃ na strīṇāmekato ratiḥ || 02 ||

Verse 03
यो मोहान्मन्यते मूढो रक्तेयं मयि कामिनी ।
स तस्या वशगो भूत्वा नृत्येत् क्रीडाशकुन्तवत् ॥ 03 ॥

yo mohānmanyate mūḍho rakteyaṃ mayi kāminī |
sa tasyā vaśago bhūtvā nṛtyet krīḍāśakuntavat || 03 ||

Verse 04
कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राजप्रियः ।
कः कालस्य न गोचरत्वमगमत् कोऽर्थी गतो गौरवं
को वा दुर्जनदुर्गमेषु पतितः क्षेमेण यातः पथि ॥ 04 ॥

ko'rthānprāpya na garvito viṣayiṇaḥ kasyāpado'staṃ gatāḥ
strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājapriyaḥ |
kaḥ kālasya na gocaratvamagamat ko'rthī gato gauravaṃ
ko vā durjanadurgameṣu patitaḥ kṣemeṇa yātaḥ pathi || 04 ||

Verse 05
न निर्मितो न चैव न दृष्टपूर्वो
न श्रूयते हेममयः कुरङ्गः ।
तथाऽपि तृष्णा रघुनन्दनस्य
विनाशकाले विपरीतबुद्धिः ॥ 05 ॥
न श्रूयते हेममयः कुरङ्गः ।
तथाऽपि तृष्णा रघुनन्दनस्य
विनाशकाले विपरीतबुद्धिः ॥ 05 ॥
na nirmito na caiva na dṛṣṭapūrvo
na śrūyate hemamayaḥ kuraṅgaḥ |
tathā'pi tṛṣṇā raghunandanasya
vināśakāle viparītabuddhiḥ || 05 ||
na śrūyate hemamayaḥ kuraṅgaḥ |
tathā'pi tṛṣṇā raghunandanasya
vināśakāle viparītabuddhiḥ || 05 ||
Verse 06
गुणैरुत्तमतां याति नोच्चैरासनसंस्थिताः ।
प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥ 06 ॥

guṇairuttamatāṃ yāti noccairāsanasaṃsthitāḥ |
prāsādaśikharastho'pi kākaḥ kiṃ garuḍāyate || 06 ||

Verse 07
गुणाः सर्वत्र पूज्यन्ते न महत्योऽपि सम्पदः ।
पूर्णेन्दुः किं तथा वन्द्यो निष्कलङ्को यथा कृशः ॥ 07 ॥

guṇāḥ sarvatra pūjyante na mahatyo'pi sampadaḥ |
pūrṇenduḥ kiṃ tathā vandyo niṣkalaṅko yathā kṛśaḥ || 07 ||

Verse 08
परैरुक्तगुणो यस्तु निर्गुणोऽपि गुणी भवेत् ।
इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः ॥ 08 ॥

parairuktaguṇo yastu nirguṇo'pi guṇī bhavet |
indro'pi laghutāṃ yāti svayaṃ prakhyāpitairguṇaiḥ || 08 ||

Verse 09
विवेकिनमनुप्राप्ता गुणा यान्ति मनोज्ञताम् ।
सुतरां रत्नमाभाति चामीकरनियोजितम् ॥ 09 ॥

vivekinamanuprāptā guṇā yānti manojñatām |
sutarāṃ ratnamābhāti cāmīkaraniyojitam || 09 ||

Verse 10
गुणैः सर्वज्ञतुल्योऽपि सीदत्येको निराश्रयः ।
अनर्घ्यमपि माणिक्यं हेमाश्रयमपेक्षते ॥ 10 ॥

guṇaiḥ sarvajñatulyo'pi sīdatyeko nirāśrayaḥ |
anarghyamapi māṇikyaṃ hemāśrayamapekṣate || 10 ||

Verse 11
अतिक्लेशेन यद्द्रव्यमतिलोभेन यत्सुखम् ।
शत्रूणां प्रणिपातेन ते ह्यर्था मा भवन्तु मे ॥ 11 ॥

atikleśena yaddravyamatilobhena yatsukham |
śatrūṇāṃ praṇipātena te hyarthā mā bhavantu me || 11 ||

Verse 12
किं तया क्रियते लक्ष्म्या या वधूरिव केवला ।
या तु वेश्येव सामान्या पथिकैरपि भुज्यते ॥ 12 ॥

kiṃ tayā kriyate lakṣmyā yā vadhūriva kevalā |
yā tu veśyeva sāmānyā pathikairapi bhujyate || 12 ||

Verse 13
धनेषु जीवितव्येषु स्त्रीषु चाहारकर्मसु ।
अतृप्ताः प्राणिनः सर्वे याता यास्यन्ति यान्ति च ॥ 13 ॥

dhaneṣu jīvitavyeṣu strīṣu cāhārakarmasu |
atṛptāḥ prāṇinaḥ sarve yātā yāsyanti yānti ca || 13 ||

Verse 14
क्षीयन्ते सर्वदानानि यज्ञहोमबलिक्रियाः ।
न क्षीयते पात्रदानमभयं सर्वदेहिनाम् ॥ 14 ॥

kṣīyante sarvadānāni yajñahomabalikriyāḥ |
na kṣīyate pātradānamabhayaṃ sarvadehinām || 14 ||

Verse 15
तृणं लघु तृणात्तूलं तूलादपि च याचकः ।
वायुना किं न नीतोऽसौ मामयं याचयिष्यति ॥ 15 ॥

tṛṇaṃ laghu tṛṇāttūlaṃ tūlādapi ca yācakaḥ |
vāyunā kiṃ na nīto'sau māmayaṃ yācayiṣyati || 15 ||

Verse 16
वरं प्राणपरित्यागो मानभङ्गेन जीवनात् ।
प्राणत्यागे क्षणं दुःखं मानभङ्गे दिने दिने ॥ 16 ॥

varaṃ prāṇaparityāgo mānabhaṅgena jīvanāt |
prāṇatyāge kṣaṇaṃ duḥkhaṃ mānabhaṅge dine dine || 16 ||

Verse 17
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ॥ 17 ॥

priyavākyapradānena sarve tuṣyanti jantavaḥ |
tasmāttadeva vaktavyaṃ vacane kā daridratā || 17 ||

Verse 18
संसारकटुवृक्षस्य द्वे फलेऽमृतोपमे ।
सुभाषितं च सुस्वादु सङ्गतिः सज्जने जने ॥ 18 ॥

saṃsārakaṭuvṛkṣasya dve phale'mṛtopame |
subhāṣitaṃ ca susvādu saṅgatiḥ sajjane jane || 18 ||

Verse 19
जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः ।
तेनैवाऽभ्यासयोगेन देही चाभ्यस्यते पुनः ॥ 19 ॥

janma janma yadabhyastaṃ dānamadhyayanaṃ tapaḥ |
tenaivā'bhyāsayogena dehī cābhyasyate punaḥ || 19 ||

Verse 20
पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥ 20 ॥

pustakasthā tu yā vidyā parahastagataṃ dhanam |
kāryakāle samutpanne na sā vidyā na taddhanam || 20 ||

Sanskrit — Devanagari (original)
न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये
स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः ।
नारीपीनपयोधरोरुयुगला स्वप्नेऽपि नालिङ्गितं
मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥ 01 ॥
जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः ।
हृदये चिन्तयन्त्यन्यं न स्त्रीणामेकतो रतिः ॥ 02 ॥
यो मोहान्मन्यते मूढो रक्तेयं मयि कामिनी ।
स तस्या वशगो भूत्वा नृत्येत् क्रीडाशकुन्तवत् ॥ 03 ॥
कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राजप्रियः ।
कः कालस्य न गोचरत्वमगमत् कोऽर्थी गतो गौरवं
को वा दुर्जनदुर्गमेषु पतितः क्षेमेण यातः पथि ॥ 04 ॥
न निर्मितो न चैव न दृष्टपूर्वो
न श्रूयते हेममयः कुरङ्गः ।
तथाऽपि तृष्णा रघुनन्दनस्य
विनाशकाले विपरीतबुद्धिः ॥ 05 ॥
गुणैरुत्तमतां याति नोच्चैरासनसंस्थिताः ।
प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥ 06 ॥
गुणाः सर्वत्र पूज्यन्ते न महत्योऽपि सम्पदः ।
पूर्णेन्दुः किं तथा वन्द्यो निष्कलङ्को यथा कृशः ॥ 07 ॥
परैरुक्तगुणो यस्तु निर्गुणोऽपि गुणी भवेत् ।
इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः ॥ 08 ॥
विवेकिनमनुप्राप्ता गुणा यान्ति मनोज्ञताम् ।
सुतरां रत्नमाभाति चामीकरनियोजितम् ॥ 09 ॥
गुणैः सर्वज्ञतुल्योऽपि सीदत्येको निराश्रयः ।
अनर्घ्यमपि माणिक्यं हेमाश्रयमपेक्षते ॥ 10 ॥
अतिक्लेशेन यद्द्रव्यमतिलोभेन यत्सुखम् ।
शत्रूणां प्रणिपातेन ते ह्यर्था मा भवन्तु मे ॥ 11 ॥
किं तया क्रियते लक्ष्म्या या वधूरिव केवला ।
या तु वेश्येव सामान्या पथिकैरपि भुज्यते ॥ 12 ॥
धनेषु जीवितव्येषु स्त्रीषु चाहारकर्मसु ।
अतृप्ताः प्राणिनः सर्वे याता यास्यन्ति यान्ति च ॥ 13 ॥
क्षीयन्ते सर्वदानानि यज्ञहोमबलिक्रियाः ।
न क्षीयते पात्रदानमभयं सर्वदेहिनाम् ॥ 14 ॥
तृणं लघु तृणात्तूलं तूलादपि च याचकः ।
वायुना किं न नीतोऽसौ मामयं याचयिष्यति ॥ 15 ॥
वरं प्राणपरित्यागो मानभङ्गेन जीवनात् ।
प्राणत्यागे क्षणं दुःखं मानभङ्गे दिने दिने ॥ 16 ॥
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ॥ 17 ॥
संसारकटुवृक्षस्य द्वे फलेऽमृतोपमे ।
सुभाषितं च सुस्वादु सङ्गतिः सज्जने जने ॥ 18 ॥
जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः ।
तेनैवाऽभ्यासयोगेन देही चाभ्यस्यते पुनः ॥ 19 ॥
पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥ 20 ॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
It is a transliteration, not a translation — see “Meaning” for translations where available.