📚 Narayaniyam

नारायणीयं दशक 90 - विष्णुमहत्तत्त्वस्थापनम्

Dashakam 90

✍️ Author Melpathur Narayana Bhattathiri 🖋️ Devanagari script 🔢 11 verses
📄 Download PDF
View: Text in this script too →
🖋️ Script: कोंकणी ▾
Meaning —
Verse 1
वृकभृगुमुनिमोहिन्यम्बरीषादिवृत्ते-
ष्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रम् ।
स्थितमिह परमात्मन् निष्कलार्वागभिन्नं
किमपि यदवभातं तद्धि रूपं तवैव ॥1॥
vṛkabhṛgumunimohinyambarīṣādivṛtte-
ṣvayi tava hi mahattvaṃ sarvaśarvādijaitram |
sthitamiha paramātman niṣkalārvāgabhinnaṃ
kimapi yadavabhātaṃ taddhi rūpaṃ tavaiva ||1||
Verse 2
मूर्तित्रयेश्वरसदाशिवपञ्चकं यत्
प्राहुः परात्मवपुरेव सदाशिवोऽस्मिन् ।
तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेव
त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥2॥
mūrtitrayeśvarasadāśivapañcakaṃ yat
prāhuḥ parātmavapureva sadāśivo'smin |
tatreśvarastu sa vikuṇṭhapadastvameva
tritvaṃ punarbhajasi satyapade tribhāge ||2||
Verse 3
तत्रापि सात्त्विकतनुं तव विष्णुमाहु-
र्धाता तु सत्त्वविरलो रजसैव पूर्णः ।
सत्त्वोत्कटत्वमपि चास्ति तमोविकार-
चेष्टादिकञ्च तव शङ्करनाम्नि मूर्तौ ॥3॥
tatrāpi sāttvikatanuṃ tava viṣṇumāhu-
rdhātā tu sattvaviralo rajasaiva pūrṇaḥ |
sattvotkaṭatvamapi cāsti tamovikāra-
ceṣṭādikañca tava śaṅkaranāmni mūrtau ||3||
Verse 4
तं च त्रिमूर्त्यतिगतं परपूरुषं त्वां
शर्वात्मनापि खलु सर्वमयत्वहेतोः ।
शंसन्त्युपासनविधौ तदपि स्वतस्तु
त्वद्रूपमित्यतिदृढं बहु नः प्रमाणम् ॥4॥
taṃ ca trimūrtyatigataṃ parapūruṣaṃ tvāṃ
śarvātmanāpi khalu sarvamayatvahetoḥ |
śaṃsantyupāsanavidhau tadapi svatastu
tvadrūpamityatidṛḍhaṃ bahu naḥ pramāṇam ||4||
Verse 5
श्रीशङ्करोऽपि भगवान् सकलेषु ताव-
त्त्वामेव मानयति यो न हि पक्षपाती ।
त्वन्निष्ठमेव स हि नामसहस्रकादि
व्याख्यात् भवत्स्तुतिपरश्च गतिं गतोऽन्ते ॥5॥
śrīśaṅkaro'pi bhagavān sakaleṣu tāva-
ttvāmeva mānayati yo na hi pakṣapātī |
tvanniṣṭhameva sa hi nāmasahasrakādi
vyākhyāt bhavatstutiparaśca gatiṃ gato'nte ||5||
Verse 6
मूर्तित्रयातिगमुवाच च मन्त्रशास्त्र-
स्यादौ कलायसुषमं सकलेश्वरं त्वाम् ।
ध्यानं च निष्कलमसौ प्रणवे खलूक्त्वा
त्वामेव तत्र सकलं निजगाद नान्यम् ॥6॥
mūrtitrayātigamuvāca ca mantraśāstra-
syādau kalāyasuṣamaṃ sakaleśvaraṃ tvām |
dhyānaṃ ca niṣkalamasau praṇave khalūktvā
tvāmeva tatra sakalaṃ nijagāda nānyam ||6||
Verse 7
समस्तसारे च पुराणसङ्ग्रहे
विसंशयं त्वन्महिमैव वर्ण्यते ।
त्रिमूर्तियुक्सत्यपदत्रिभागतः
परं पदं ते कथितं न शूलिनः ॥7॥
samastasāre ca purāṇasaṅgrahe
visaṃśayaṃ tvanmahimaiva varṇyate |
trimūrtiyuksatyapadatribhāgataḥ
paraṃ padaṃ te kathitaṃ na śūlinaḥ ||7||
Verse 8
यत् ब्राह्मकल्प इह भागवतद्वितीय-
स्कन्धोदितं वपुरनावृतमीश धात्रे ।
तस्यैव नाम हरिशर्वमुखं जगाद
श्रीमाधवः शिवपरोऽपि पुराणसारे ॥8॥
yat brāhmakalpa iha bhāgavatadvitīya-
skandhoditaṃ vapuranāvṛtamīśa dhātre |
tasyaiva nāma hariśarvamukhaṃ jagāda
śrīmādhavaḥ śivaparo'pi purāṇasāre ||8||
Verse 9
ये स्वप्रकृत्यनुगुणा गिरिशं भजन्ते
तेषां फलं हि दृढयैव तदीयभक्त्या।
व्यासो हि तेन कृतवानधिकारिहेतोः
स्कन्दादिकेषु तव हानिवचोऽर्थवादैः ॥9॥
ye svaprakṛtyanuguṇā giriśaṃ bhajante
teṣāṃ phalaṃ hi dṛḍhayaiva tadīyabhaktyā|
vyāso hi tena kṛtavānadhikārihetoḥ
skandādikeṣu tava hānivaco'rthavādaiḥ ||9||
Verse 10
भूतार्थकीर्तिरनुवादविरुद्धवादौ
त्रेधार्थवादगतयः खलु रोचनार्थाः ।
स्कान्दादिकेषु बहवोऽत्र विरुद्धवादा-
स्त्वत्तामसत्वपरिभूत्युपशिक्षणाद्याः ॥10॥
bhūtārthakīrtiranuvādaviruddhavādau
tredhārthavādagatayaḥ khalu rocanārthāḥ |
skāndādikeṣu bahavo'tra viruddhavādā-
stvattāmasatvaparibhūtyupaśikṣaṇādyāḥ ||10||
Verse 11
यत् किञ्चिदप्यविदुषाऽपि विभो मयोक्तं
तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव ।
व्यासोक्तिसारमयभागवतोपगीत
क्लेशान् विधूय कुरु भक्तिभरं परात्मन् ॥11॥
yat kiñcidapyaviduṣā'pi vibho mayoktaṃ
tanmantraśāstravacanādyabhidṛṣṭameva |
vyāsoktisāramayabhāgavatopagīta
kleśān vidhūya kuru bhaktibharaṃ parātman ||11||
Sanskrit — Devanagari (original)
वृकभृगुमुनिमोहिन्यम्बरीषादिवृत्ते-
ष्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रम् ।
स्थितमिह परमात्मन् निष्कलार्वागभिन्नं
किमपि यदवभातं तद्धि रूपं तवैव ॥1॥
मूर्तित्रयेश्वरसदाशिवपञ्चकं यत्
प्राहुः परात्मवपुरेव सदाशिवोऽस्मिन् ।
तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेव
त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥2॥
तत्रापि सात्त्विकतनुं तव विष्णुमाहु-
र्धाता तु सत्त्वविरलो रजसैव पूर्णः ।
सत्त्वोत्कटत्वमपि चास्ति तमोविकार-
चेष्टादिकञ्च तव शङ्करनाम्नि मूर्तौ ॥3॥
तं च त्रिमूर्त्यतिगतं परपूरुषं त्वां
शर्वात्मनापि खलु सर्वमयत्वहेतोः ।
शंसन्त्युपासनविधौ तदपि स्वतस्तु
त्वद्रूपमित्यतिदृढं बहु नः प्रमाणम् ॥4॥
श्रीशङ्करोऽपि भगवान् सकलेषु ताव-
त्त्वामेव मानयति यो न हि पक्षपाती ।
त्वन्निष्ठमेव स हि नामसहस्रकादि
व्याख्यात् भवत्स्तुतिपरश्च गतिं गतोऽन्ते ॥5॥
मूर्तित्रयातिगमुवाच च मन्त्रशास्त्र-
स्यादौ कलायसुषमं सकलेश्वरं त्वाम् ।
ध्यानं च निष्कलमसौ प्रणवे खलूक्त्वा
त्वामेव तत्र सकलं निजगाद नान्यम् ॥6॥
समस्तसारे च पुराणसङ्ग्रहे
विसंशयं त्वन्महिमैव वर्ण्यते ।
त्रिमूर्तियुक्सत्यपदत्रिभागतः
परं पदं ते कथितं न शूलिनः ॥7॥
यत् ब्राह्मकल्प इह भागवतद्वितीय-
स्कन्धोदितं वपुरनावृतमीश धात्रे ।
तस्यैव नाम हरिशर्वमुखं जगाद
श्रीमाधवः शिवपरोऽपि पुराणसारे ॥8॥
ये स्वप्रकृत्यनुगुणा गिरिशं भजन्ते
तेषां फलं हि दृढयैव तदीयभक्त्या।
व्यासो हि तेन कृतवानधिकारिहेतोः
स्कन्दादिकेषु तव हानिवचोऽर्थवादैः ॥9॥
भूतार्थकीर्तिरनुवादविरुद्धवादौ
त्रेधार्थवादगतयः खलु रोचनार्थाः ।
स्कान्दादिकेषु बहवोऽत्र विरुद्धवादा-
स्त्वत्तामसत्वपरिभूत्युपशिक्षणाद्याः ॥10॥
यत् किञ्चिदप्यविदुषाऽपि विभो मयोक्तं
तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव ।
व्यासोक्तिसारमयभागवतोपगीत
क्लेशान् विधूय कुरु भक्तिभरं परात्मन् ॥11॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version. It is a transliteration, not a translation — see “Meaning” for translations where available.
🕉 InfoLyter.in