📚 Narayaniyam

नारायणीयं दशक 34 - श्रीरामावतारम्

Dashakam 34

✍️ Author Melpathur Narayana Bhattathiri 🖋️ Devanagari script 🔢 10 verses
📄 Download PDF
View: Text in this script too →
🖋️ Script: कोंकणी ▾
Meaning —
Verse 1
गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृङ्गे
पुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् ।
तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो
रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना ॥1॥
gīrvāṇairarthyamāno daśamukhanidhanaṃ kosaleṣvṛśyaśṛṅge
putrīyāmiṣṭimiṣṭvā daduṣi daśarathakṣmābhṛte pāyasāgryam |
tadbhuktyā tatpurandhrīṣvapi tisṛṣu samaṃ jātagarbhāsu jāto
rāmastvaṃ lakṣmaṇena svayamatha bharatenāpi śatrughnanāmnā ||1||
Verse 2
कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातो
यातोऽभूस्तातवाचा मुनिकथितमनुद्वन्द्वशान्ताध्वखेदः ।
नृणां त्राणाय बाणैर्मुनिवचनबलात्ताटकां पाटयित्वा
लब्ध्वास्मादस्त्रजालं मुनिवनमगमो देव सिद्धाश्रमाख्यम् ॥2॥
kodaṇḍī kauśikasya kratuvaramavituṃ lakṣmaṇenānuyāto
yāto'bhūstātavācā munikathitamanudvandvaśāntādhvakhedaḥ |
nṛṇāṃ trāṇāya bāṇairmunivacanabalāttāṭakāṃ pāṭayitvā
labdhvāsmādastrajālaṃ munivanamagamo deva siddhāśramākhyam ||2||
Verse 3
मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन्
कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहम् ।
भिन्दानश्चान्द्रचूडं धनुरवनिसुतामिन्दिरामेव लब्ध्वा
राज्यं प्रातिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैस्सदारैः ॥3॥
mārīcaṃ drāvayitvā makhaśirasi śarairanyarakṣāṃsi nighnan
kalyāṃ kurvannahalyāṃ pathi padarajasā prāpya vaidehageham |
bhindānaścāndracūḍaṃ dhanuravanisutāmindirāmeva labdhvā
rājyaṃ prātiṣṭhathāstvaṃ tribhirapi ca samaṃ bhrātṛvīraissadāraiḥ ||3||
Verse 4
आरुन्धाने रुषान्धे भृगुकुल तिलके सङ्क्रमय्य स्वतेजो
याते यातोऽस्ययोध्यां सुखमिह निवसन् कान्तया कान्तमूर्ते ।
शत्रुघ्नेनैकदाथो गतवति भरते मातुलस्याधिवासं
तातारब्धोऽभिषेकस्तव किल विहतः केकयाधीशपुत्र्या ॥4॥
ārundhāne ruṣāndhe bhṛgukula tilake saṅkramayya svatejo
yāte yāto'syayodhyāṃ sukhamiha nivasan kāntayā kāntamūrte |
śatrughnenaikadātho gatavati bharate mātulasyādhivāsaṃ
tātārabdho'bhiṣekastava kila vihataḥ kekayādhīśaputryā ||4||
Verse 5
तातोक्त्या यातुकामो वनमनुजवधूसंयुतश्चापधारः
पौरानारुध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी।
नावा सन्तीर्य गङ्गामधिपदवि पुनस्तं भरद्वाजमारा-
न्नत्वा तद्वाक्यहेतोरतिसुखमवसश्चित्रकूटे गिरीन्द्रे ॥5॥
tātoktyā yātukāmo vanamanujavadhūsaṃyutaścāpadhāraḥ
paurānārudhya mārge guhanilayagatastvaṃ jaṭācīradhārī|
nāvā santīrya gaṅgāmadhipadavi punastaṃ bharadvājamārā-
nnatvā tadvākyahetoratisukhamavasaścitrakūṭe girīndre ||5||
Verse 6
श्रुत्वा पुत्रार्तिखिन्नं खलु भरतमुखात् स्वर्गयातं स्वतातं
तप्तो दत्वाऽम्बु तस्मै निदधिथ भरते पादुकां मेदिनीं च
अत्रिं नत्वाऽथ गत्वा वनमतिविपुलं दण्डकं चण्डकायं
हत्वा दैत्यं विराधं सुगतिमकलयश्चारु भोः शारभङ्गीम् ॥6॥
śrutvā putrārtikhinnaṃ khalu bharatamukhāt svargayātaṃ svatātaṃ
tapto datvā'mbu tasmai nidadhitha bharate pādukāṃ medinīṃ ca
atriṃ natvā'tha gatvā vanamativipulaṃ daṇḍakaṃ caṇḍakāyaṃ
hatvā daityaṃ virādhaṃ sugatimakalayaścāru bhoḥ śārabhaṅgīm ||6||
Verse 7
नत्वाऽगस्त्यं समस्ताशरनिकरसपत्राकृतिं तापसेभ्यः
प्रत्यश्रौषीः प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे ।
ब्रह्मास्त्रे चापि दत्ते पथि पितृसुहृदं वीक्ष्य भूयो जटायुं
मोदात् गोदातटान्ते परिरमसि पुरा पञ्चवट्यां वधूट्या ॥7॥
natvā'gastyaṃ samastāśaranikarasapatrākṛtiṃ tāpasebhyaḥ
pratyaśrauṣīḥ priyaiṣī tadanu ca muninā vaiṣṇave divyacāpe |
brahmāstre cāpi datte pathi pitṛsuhṛdaṃ vīkṣya bhūyo jaṭāyuṃ
modāt godātaṭānte pariramasi purā pañcavaṭyāṃ vadhūṭyā ||7||
Verse 8
प्राप्तायाः शूर्पणख्या मदनचलधृतेरर्थनैर्निस्सहात्मा
तां सौमित्रौ विसृज्य प्रबलतमरुषा तेन निर्लूननासाम् ।
दृष्ट्वैनां रुष्टचित्तं खरमभिपतितं दूषणं च त्रिमूर्धं
व्याहिंसीराशरानप्ययुतसमधिकांस्तत्क्षणादक्षतोष्मा ॥8॥
prāptāyāḥ śūrpaṇakhyā madanacaladhṛterarthanairnissahātmā
tāṃ saumitrau visṛjya prabalatamaruṣā tena nirlūnanāsām |
dṛṣṭvaināṃ ruṣṭacittaṃ kharamabhipatitaṃ dūṣaṇaṃ ca trimūrdhaṃ
vyāhiṃsīrāśarānapyayutasamadhikāṃstatkṣaṇādakṣatoṣmā ||8||
Verse 9
सोदर्याप्रोक्तवार्ताविवशदशमुखादिष्टमारीचमाया-
सारङ्ग सारसाक्ष्या स्पृहितमनुगतः प्रावधीर्बाणघातम् ।
तन्मायाक्रन्दनिर्यापितभवदनुजां रावणस्तामहार्षी-
त्तेनार्तोऽपि त्वमन्तः किमपि मुदमधास्तद्वधोपायलाभात् ॥9॥
sodaryāproktavārtāvivaśadaśamukhādiṣṭamārīcamāyā-
sāraṅga sārasākṣyā spṛhitamanugataḥ prāvadhīrbāṇaghātam |
tanmāyākrandaniryāpitabhavadanujāṃ rāvaṇastāmahārṣī-
ttenārto'pi tvamantaḥ kimapi mudamadhāstadvadhopāyalābhāt ||9||
Verse 10
भूयस्तन्वीं विचिन्वन्नहृत दशमुखस्त्वद्वधूं मद्वधेने-
त्युक्त्वा याते जटायौ दिवमथ सुहृदः प्रातनोः प्रेतकार्यम् ।
गृह्णानं तं कबन्धं जघनिथ शबरीं प्रेक्ष्य पम्पातटे त्वं
सम्प्राप्तो वातसूनुं भृशमुदितमनाः पाहि वातालयेश ॥10॥
bhūyastanvīṃ vicinvannahṛta daśamukhastvadvadhūṃ madvadhene-
tyuktvā yāte jaṭāyau divamatha suhṛdaḥ prātanoḥ pretakāryam |
gṛhṇānaṃ taṃ kabandhaṃ jaghanitha śabarīṃ prekṣya pampātaṭe tvaṃ
samprāpto vātasūnuṃ bhṛśamuditamanāḥ pāhi vātālayeśa ||10||
Sanskrit — Devanagari (original)
गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृङ्गे
पुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् ।
तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो
रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना ॥1॥
कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातो
यातोऽभूस्तातवाचा मुनिकथितमनुद्वन्द्वशान्ताध्वखेदः ।
नृणां त्राणाय बाणैर्मुनिवचनबलात्ताटकां पाटयित्वा
लब्ध्वास्मादस्त्रजालं मुनिवनमगमो देव सिद्धाश्रमाख्यम् ॥2॥
मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन्
कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहम् ।
भिन्दानश्चान्द्रचूडं धनुरवनिसुतामिन्दिरामेव लब्ध्वा
राज्यं प्रातिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैस्सदारैः ॥3॥
आरुन्धाने रुषान्धे भृगुकुल तिलके सङ्क्रमय्य स्वतेजो
याते यातोऽस्ययोध्यां सुखमिह निवसन् कान्तया कान्तमूर्ते ।
शत्रुघ्नेनैकदाथो गतवति भरते मातुलस्याधिवासं
तातारब्धोऽभिषेकस्तव किल विहतः केकयाधीशपुत्र्या ॥4॥
तातोक्त्या यातुकामो वनमनुजवधूसंयुतश्चापधारः
पौरानारुध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी।
नावा सन्तीर्य गङ्गामधिपदवि पुनस्तं भरद्वाजमारा-
न्नत्वा तद्वाक्यहेतोरतिसुखमवसश्चित्रकूटे गिरीन्द्रे ॥5॥
श्रुत्वा पुत्रार्तिखिन्नं खलु भरतमुखात् स्वर्गयातं स्वतातं
तप्तो दत्वाऽम्बु तस्मै निदधिथ भरते पादुकां मेदिनीं च
अत्रिं नत्वाऽथ गत्वा वनमतिविपुलं दण्डकं चण्डकायं
हत्वा दैत्यं विराधं सुगतिमकलयश्चारु भोः शारभङ्गीम् ॥6॥
नत्वाऽगस्त्यं समस्ताशरनिकरसपत्राकृतिं तापसेभ्यः
प्रत्यश्रौषीः प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे ।
ब्रह्मास्त्रे चापि दत्ते पथि पितृसुहृदं वीक्ष्य भूयो जटायुं
मोदात् गोदातटान्ते परिरमसि पुरा पञ्चवट्यां वधूट्या ॥7॥
प्राप्तायाः शूर्पणख्या मदनचलधृतेरर्थनैर्निस्सहात्मा
तां सौमित्रौ विसृज्य प्रबलतमरुषा तेन निर्लूननासाम् ।
दृष्ट्वैनां रुष्टचित्तं खरमभिपतितं दूषणं च त्रिमूर्धं
व्याहिंसीराशरानप्ययुतसमधिकांस्तत्क्षणादक्षतोष्मा ॥8॥
सोदर्याप्रोक्तवार्ताविवशदशमुखादिष्टमारीचमाया-
सारङ्ग सारसाक्ष्या स्पृहितमनुगतः प्रावधीर्बाणघातम् ।
तन्मायाक्रन्दनिर्यापितभवदनुजां रावणस्तामहार्षी-
त्तेनार्तोऽपि त्वमन्तः किमपि मुदमधास्तद्वधोपायलाभात् ॥9॥
भूयस्तन्वीं विचिन्वन्नहृत दशमुखस्त्वद्वधूं मद्वधेने-
त्युक्त्वा याते जटायौ दिवमथ सुहृदः प्रातनोः प्रेतकार्यम् ।
गृह्णानं तं कबन्धं जघनिथ शबरीं प्रेक्ष्य पम्पातटे त्वं
सम्प्राप्तो वातसूनुं भृशमुदितमनाः पाहि वातालयेश ॥10॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version. It is a transliteration, not a translation — see “Meaning” for translations where available.
🕉 InfoLyter.in