Meaning —
⏳ The meaning of this text is being prepared (AI translation with an accuracy check). This usually takes a few minutes — this page will refresh when it is ready.
The meaning is ready. Show it.
The meaning could not be prepared right now.
A translation in is not yet available for this text.
The original text and transliteration are shown below.
Verse 1
वैकुण्ठ वर्धितबलोऽथ भवत्प्रसादा-
दम्भोजयोनिरसृजत् किल जीवदेहान् ।
स्थास्नूनि भूरुहमयानि तथा तिरश्चां
जातिं मनुष्यनिवहानपि देवभेदान् ॥1॥
दम्भोजयोनिरसृजत् किल जीवदेहान् ।
स्थास्नूनि भूरुहमयानि तथा तिरश्चां
जातिं मनुष्यनिवहानपि देवभेदान् ॥1॥
vaikuṇṭha vardhitabalo'tha bhavatprasādā-
dambhojayonirasṛjat kila jīvadehān |
sthāsnūni bhūruhamayāni tathā tiraścāṃ
jātiṃ manuṣyanivahānapi devabhedān ||1||
dambhojayonirasṛjat kila jīvadehān |
sthāsnūni bhūruhamayāni tathā tiraścāṃ
jātiṃ manuṣyanivahānapi devabhedān ||1||
Verse 2
मिथ्याग्रहास्मिमतिरागविकोपभीति-
रज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्वा ।
उद्दामतामसपदार्थविधानदून -
स्तेने त्वदीयचरणस्मरणं विशुद्ध्यै ॥2॥
रज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्वा ।
उद्दामतामसपदार्थविधानदून -
स्तेने त्वदीयचरणस्मरणं विशुद्ध्यै ॥2॥
mithyāgrahāsmimatirāgavikopabhīti-
rajñānavṛttimiti pañcavidhāṃ sa sṛṣṭvā |
uddāmatāmasapadārthavidhānadūna -
stene tvadīyacaraṇasmaraṇaṃ viśuddhyai ||2||
rajñānavṛttimiti pañcavidhāṃ sa sṛṣṭvā |
uddāmatāmasapadārthavidhānadūna -
stene tvadīyacaraṇasmaraṇaṃ viśuddhyai ||2||
Verse 3
तावत् ससर्ज मनसा सनकं सनन्दं
भूयः सनातनमुनिं च सनत्कुमारम् ।
ते सृष्टिकर्मणि तु तेन नियुज्यमाना-
स्त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् ॥3॥
भूयः सनातनमुनिं च सनत्कुमारम् ।
ते सृष्टिकर्मणि तु तेन नियुज्यमाना-
स्त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् ॥3॥
tāvat sasarja manasā sanakaṃ sanandaṃ
bhūyaḥ sanātanamuniṃ ca sanatkumāram |
te sṛṣṭikarmaṇi tu tena niyujyamānā-
stvatpādabhaktirasikā jagṛhurna vāṇīm ||3||
bhūyaḥ sanātanamuniṃ ca sanatkumāram |
te sṛṣṭikarmaṇi tu tena niyujyamānā-
stvatpādabhaktirasikā jagṛhurna vāṇīm ||3||
Verse 4
तावत् प्रकोपमुदितं प्रतिरुन्धतोऽस्य
भ्रूमध्यतोऽजनि मृडो भवदेकदेशः ।
नामानि मे कुरु पदानि च हा विरिञ्चे-
त्यादौ रुरोद किल तेन स रुद्रनामा ॥4॥
भ्रूमध्यतोऽजनि मृडो भवदेकदेशः ।
नामानि मे कुरु पदानि च हा विरिञ्चे-
त्यादौ रुरोद किल तेन स रुद्रनामा ॥4॥
tāvat prakopamuditaṃ pratirundhato'sya
bhrūmadhyato'jani mṛḍo bhavadekadeśaḥ |
nāmāni me kuru padāni ca hā viriñce-
tyādau ruroda kila tena sa rudranāmā ||4||
bhrūmadhyato'jani mṛḍo bhavadekadeśaḥ |
nāmāni me kuru padāni ca hā viriñce-
tyādau ruroda kila tena sa rudranāmā ||4||
Verse 5
एकादशाह्वयतया च विभिन्नरूपं
रुद्रं विधाय दयिता वनिताश्च दत्वा ।
तावन्त्यदत्त च पदानि भवत्प्रणुन्नः
प्राह प्रजाविरचनाय च सादरं तम् ॥5॥
रुद्रं विधाय दयिता वनिताश्च दत्वा ।
तावन्त्यदत्त च पदानि भवत्प्रणुन्नः
प्राह प्रजाविरचनाय च सादरं तम् ॥5॥
ekādaśāhvayatayā ca vibhinnarūpaṃ
rudraṃ vidhāya dayitā vanitāśca datvā |
tāvantyadatta ca padāni bhavatpraṇunnaḥ
prāha prajāviracanāya ca sādaraṃ tam ||5||
rudraṃ vidhāya dayitā vanitāśca datvā |
tāvantyadatta ca padāni bhavatpraṇunnaḥ
prāha prajāviracanāya ca sādaraṃ tam ||5||
Verse 6
रुद्राभिसृष्टभयदाकृतिरुद्रसङ्घ-
सम्पूर्यमाणभुवनत्रयभीतचेताः ।
मा मा प्रजाः सृज तपश्चर मङ्गलाये-
त्याचष्ट तं कमलभूर्भवदीरितात्मा ॥6॥
सम्पूर्यमाणभुवनत्रयभीतचेताः ।
मा मा प्रजाः सृज तपश्चर मङ्गलाये-
त्याचष्ट तं कमलभूर्भवदीरितात्मा ॥6॥
rudrābhisṛṣṭabhayadākṛtirudrasaṅgha-
sampūryamāṇabhuvanatrayabhītacetāḥ |
mā mā prajāḥ sṛja tapaścara maṅgalāye-
tyācaṣṭa taṃ kamalabhūrbhavadīritātmā ||6||
sampūryamāṇabhuvanatrayabhītacetāḥ |
mā mā prajāḥ sṛja tapaścara maṅgalāye-
tyācaṣṭa taṃ kamalabhūrbhavadīritātmā ||6||
Verse 7
तस्याथ सर्गरसिकस्य मरीचिरत्रि-
स्तत्राङिगराः क्रतुमुनिः पुलहः पुलस्त्यः ।
अङ्गादजायत भृगुश्च वसिष्ठदक्षौ
श्रीनारदश्च भगवन् भवदङ्घ्रिदासः ॥7॥
स्तत्राङिगराः क्रतुमुनिः पुलहः पुलस्त्यः ।
अङ्गादजायत भृगुश्च वसिष्ठदक्षौ
श्रीनारदश्च भगवन् भवदङ्घ्रिदासः ॥7॥
tasyātha sargarasikasya marīciratri-
statrāṅigarāḥ kratumuniḥ pulahaḥ pulastyaḥ |
aṅgādajāyata bhṛguśca vasiṣṭhadakṣau
śrīnāradaśca bhagavan bhavadaṅghridāsaḥ ||7||
statrāṅigarāḥ kratumuniḥ pulahaḥ pulastyaḥ |
aṅgādajāyata bhṛguśca vasiṣṭhadakṣau
śrīnāradaśca bhagavan bhavadaṅghridāsaḥ ||7||
Verse 8
धर्मादिकानभिसृजन्नथ कर्दमं च
वाणीं विधाय विधिरङ्गजसङ्कुलोऽभूत् ।
त्वद्बोधितैस्सनकदक्षमुखैस्तनूजै-
रुद्बोधितश्च विरराम तमो विमुञ्चन् ॥8॥
वाणीं विधाय विधिरङ्गजसङ्कुलोऽभूत् ।
त्वद्बोधितैस्सनकदक्षमुखैस्तनूजै-
रुद्बोधितश्च विरराम तमो विमुञ्चन् ॥8॥
dharmādikānabhisṛjannatha kardamaṃ ca
vāṇīṃ vidhāya vidhiraṅgajasaṅkulo'bhūt |
tvadbodhitaissanakadakṣamukhaistanūjai-
rudbodhitaśca virarāma tamo vimuñcan ||8||
vāṇīṃ vidhāya vidhiraṅgajasaṅkulo'bhūt |
tvadbodhitaissanakadakṣamukhaistanūjai-
rudbodhitaśca virarāma tamo vimuñcan ||8||
Verse 9
वेदान् पुराणनिवहानपि सर्वविद्याः
कुर्वन् निजाननगणाच्चतुराननोऽसौ ।
पुत्रेषु तेषु विनिधाय स सर्गवृद्धि-
मप्राप्नुवंस्तव पदाम्बुजमाश्रितोभूत् ॥9॥
कुर्वन् निजाननगणाच्चतुराननोऽसौ ।
पुत्रेषु तेषु विनिधाय स सर्गवृद्धि-
मप्राप्नुवंस्तव पदाम्बुजमाश्रितोभूत् ॥9॥
vedān purāṇanivahānapi sarvavidyāḥ
kurvan nijānanagaṇāccaturānano'sau |
putreṣu teṣu vinidhāya sa sargavṛddhi-
maprāpnuvaṃstava padāmbujamāśritobhūt ||9||
kurvan nijānanagaṇāccaturānano'sau |
putreṣu teṣu vinidhāya sa sargavṛddhi-
maprāpnuvaṃstava padāmbujamāśritobhūt ||9||
Verse 10
जानन्नुपायमथ देहमजो विभज्य
स्रीपुंसभावमभजन्मनुतद्वधूभ्याम् ।
ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं
गोविन्द मारुतपुरेश निरुन्धि रोगान् ॥10॥
स्रीपुंसभावमभजन्मनुतद्वधूभ्याम् ।
ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं
गोविन्द मारुतपुरेश निरुन्धि रोगान् ॥10॥
jānannupāyamatha dehamajo vibhajya
srīpuṃsabhāvamabhajanmanutadvadhūbhyām |
tābhyāṃ ca mānuṣakulāni vivardhayaṃstvaṃ
govinda mārutapureśa nirundhi rogān ||10||
srīpuṃsabhāvamabhajanmanutadvadhūbhyām |
tābhyāṃ ca mānuṣakulāni vivardhayaṃstvaṃ
govinda mārutapureśa nirundhi rogān ||10||
Sanskrit — Devanagari (original)
वैकुण्ठ वर्धितबलोऽथ भवत्प्रसादा-
दम्भोजयोनिरसृजत् किल जीवदेहान् ।
स्थास्नूनि भूरुहमयानि तथा तिरश्चां
जातिं मनुष्यनिवहानपि देवभेदान् ॥1॥
मिथ्याग्रहास्मिमतिरागविकोपभीति-
रज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्वा ।
उद्दामतामसपदार्थविधानदून -
स्तेने त्वदीयचरणस्मरणं विशुद्ध्यै ॥2॥
तावत् ससर्ज मनसा सनकं सनन्दं
भूयः सनातनमुनिं च सनत्कुमारम् ।
ते सृष्टिकर्मणि तु तेन नियुज्यमाना-
स्त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् ॥3॥
तावत् प्रकोपमुदितं प्रतिरुन्धतोऽस्य
भ्रूमध्यतोऽजनि मृडो भवदेकदेशः ।
नामानि मे कुरु पदानि च हा विरिञ्चे-
त्यादौ रुरोद किल तेन स रुद्रनामा ॥4॥
एकादशाह्वयतया च विभिन्नरूपं
रुद्रं विधाय दयिता वनिताश्च दत्वा ।
तावन्त्यदत्त च पदानि भवत्प्रणुन्नः
प्राह प्रजाविरचनाय च सादरं तम् ॥5॥
रुद्राभिसृष्टभयदाकृतिरुद्रसङ्घ-
सम्पूर्यमाणभुवनत्रयभीतचेताः ।
मा मा प्रजाः सृज तपश्चर मङ्गलाये-
त्याचष्ट तं कमलभूर्भवदीरितात्मा ॥6॥
तस्याथ सर्गरसिकस्य मरीचिरत्रि-
स्तत्राङिगराः क्रतुमुनिः पुलहः पुलस्त्यः ।
अङ्गादजायत भृगुश्च वसिष्ठदक्षौ
श्रीनारदश्च भगवन् भवदङ्घ्रिदासः ॥7॥
धर्मादिकानभिसृजन्नथ कर्दमं च
वाणीं विधाय विधिरङ्गजसङ्कुलोऽभूत् ।
त्वद्बोधितैस्सनकदक्षमुखैस्तनूजै-
रुद्बोधितश्च विरराम तमो विमुञ्चन् ॥8॥
वेदान् पुराणनिवहानपि सर्वविद्याः
कुर्वन् निजाननगणाच्चतुराननोऽसौ ।
पुत्रेषु तेषु विनिधाय स सर्गवृद्धि-
मप्राप्नुवंस्तव पदाम्बुजमाश्रितोभूत् ॥9॥
जानन्नुपायमथ देहमजो विभज्य
स्रीपुंसभावमभजन्मनुतद्वधूभ्याम् ।
ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं
गोविन्द मारुतपुरेश निरुन्धि रोगान् ॥10॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
It is a transliteration, not a translation — see “Meaning” for translations where available.