सुरस सुबोधा (नैव क्लिष्टा न च कठिना)

Surasa Subodha (naiva Klishta Na Cha Kathina)

✍️ Author Vasant Gadgil 🖋️ Devanagari script
📄 Download PDF
View: Text in this script too →
🖋️ Script: हिन्दी ▾
Meaning —
सुरस सुबोधा विश्वमनोज्ञा
surasa subodhā viśvamanojñā
ललिता हृद्या रमणीया ।
lalitā hṛdyā ramaṇīyā |
अमृतवाणी संस्कृतभाषा
amṛtavāṇī saṃskṛtabhāṣā
नैव क्लिष्टा न च कठिना ॥
naiva kliṣṭā na ca kaṭhinā ||
कविकुलगुरु वाल्मीकि विरचिता
kavikulaguru vālmīki viracitā
रामायण रमणीय कथा ।
rāmāyaṇa ramaṇīya kathā |
अतीव सरला मधुर मञ्जुला
atīva saralā madhura mañjulā
नैव क्लिष्टा न च कठिना ॥
naiva kliṣṭā na ca kaṭhinā ||
व्यास विरचिता गणेश लिखिता
vyāsa viracitā gaṇeśa likhitā
महाभारते पुण्य कथा ।
mahābhārate puṇya kathā |
कौरव पाण्डव सङ्गर मथिता
kaurava pāṇḍava saṅgara mathitā
नैव क्लिष्टा न च कठिना ॥
naiva kliṣṭā na ca kaṭhinā ||
कुरुक्षेत्र समराङ्गण गीता
kurukṣetra samarāṅgaṇa gītā
विश्ववन्दिता भगवद्गीता ।
viśvavanditā bhagavadgītā |
अतीव मधुरा कर्मदीपिका
atīva madhurā karmadīpikā
नैव क्लिष्टा न च कठिना ॥
naiva kliṣṭā na ca kaṭhinā ||
कवि कुलगुरु नव रसोन्मेषजा
kavi kulaguru nava rasonmeṣajā
ऋतु रघु कुमार कविता ।
ṛtu raghu kumāra kavitā |
विक्रम-शाकुन्तल-मालविका
vikrama-śākuntala-mālavikā
नैव क्लिष्टा न च कठिना ॥
naiva kliṣṭā na ca kaṭhinā ||
रचन: वसन्त गाडगीलः
racana: vasanta gāḍagīlaḥ
Sanskrit — Devanagari (original)
सुरस सुबोधा विश्वमनोज्ञा
ललिता हृद्या रमणीया ।
अमृतवाणी संस्कृतभाषा
नैव क्लिष्टा न च कठिना ॥
कविकुलगुरु वाल्मीकि विरचिता
रामायण रमणीय कथा ।
अतीव सरला मधुर मञ्जुला
नैव क्लिष्टा न च कठिना ॥
व्यास विरचिता गणेश लिखिता
महाभारते पुण्य कथा ।
कौरव पाण्डव सङ्गर मथिता
नैव क्लिष्टा न च कठिना ॥
कुरुक्षेत्र समराङ्गण गीता
विश्ववन्दिता भगवद्गीता ।
अतीव मधुरा कर्मदीपिका
नैव क्लिष्टा न च कठिना ॥
कवि कुलगुरु नव रसोन्मेषजा
ऋतु रघु कुमार कविता ।
विक्रम-शाकुन्तल-मालविका
नैव क्लिष्टा न च कठिना ॥
रचन: वसन्त गाडगीलः
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version. It is a transliteration, not a translation — see “Meaning” for translations where available.
🕉 InfoLyter.in