Lord Vishnu

ਜਗਨ੍ਨਾਥਾष੍ਟਕਮ੍

Jagannathashtakam

✍️ Unknown author 📂 Ashtakam 🖋️ Gurmukhi script 🔢 8 verses 42 views
📄 Download PDF
View: Text in this script too →
🖋️ Script: ਪੰਜਾਬੀ ▾
⚠️ AI-generated translation — the Sanskrit (simple prose explanation) meaning was produced by AI and automatically cross-checked against the Sanskrit, but it may still contain errors. It has not yet been reviewed by a scholar. Please refer to a traditional commentary for study.

The Sanskrit (simple prose explanation) meaning of each verse is shown below the verse.

Meaning —
Verse 1
ਕਦਾਚਿਤ੍-ਕਾਲਿਨ੍ਦੀ ਤਟਵਿਪਿਨ ਸਙ੍ਗੀਤਕਰਵੋ
ਮੁਦਾਭੀਰੀ ਨਾਰੀਵਦਨ ਕਮਲਾਸ੍ਵਾਦਮਧੁਪਃ ।
ਰਮਾ ਸ਼ਮ੍ਭੁ ਬ੍ਰਹ੍ਮਾਮਰਪਤਿ ਗਣੇਸ਼ਾਰ੍ਚਿਤ ਪਦੋ
ਜਗਨ੍ਨਾਥਃ ਸ੍ਵਾਮੀ ਨਯਨਪਥਗਾਮੀ ਭਵਤੁ ਮੇ ॥ 1 ॥
kadācit-kālindī taṭavipina saṅgītakaravo
mudābhīrī nārīvadana kamalāsvādamadhupaḥ |
ramā śambhu brahmāmarapati gaṇeśārcita pado
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 1 ||

कदाचित् कालिन्दीतीरविपिने सङ्गीतं कुर्वन्, आनन्देन गोपीजनानां मुखकमलमधुं पिबन् मधुपः इव, रमया शम्भुना ब्रह्मणा अमरपतिना गणेशेन च अर्चितपादः, सः जगन्नाथः स्वामी मम नयनमार्गगामी भवतु। AI

Verse 2
ਭੁਜੇ ਸਵ੍ਯੇ ਵੇਣੁਂ ਸ਼ਿਰਸਿ ਸ਼ਿਖਿਪਿਞ੍ਛਂ ਕਟਿਤਟੇ
ਦੁਕੂਲਂ ਨੇਤ੍ਰਾਨ੍ਤੇ ਸਹਚਰਕਟਾਕ੍षਂ ਵਿਦਧਤੇ ।
ਸਦਾ ਸ਼੍ਰੀਮਦ੍ਵृਨ੍ਦਾਵਨਵਸਤਿਲੀਲਾਪਰਿਚਯੋ
ਜਗਨ੍ਨਾਥਃ ਸ੍ਵਾਮੀ ਨਯਨਪਥਗਾਮੀ ਭਵਤੁ ਮੇ ॥ 2 ॥
bhuje savye veṇuṃ śirasi śikhipiñchaṃ kaṭitaṭe
dukūlaṃ netrānte sahacarakaṭākṣaṃ vidadhate |
sadā śrīmadvṛndāvanavasatilīlāparicayo
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 2 ||

यः वामभुजे वेणुं, शिरसि मयूरपिञ्छं, कटितटे दुकूलं, नेत्रान्ते सहचरकटाक्षं च धारयति, सदा श्रीमद्वृन्दावनवासलीलापरिचयः, सः जगन्नाथः स्वामी मम नयनमार्गगामी भवतु। AI

Verse 3
ਮਹਾਮ੍ਭੋਧੇਸ੍ਤੀਰੇ ਕਨਕਰੁਚਿਰੇ ਨੀਲਸ਼ਿਖਰੇ
ਵਸਨ੍ ਪ੍ਰਾਸਾਦਾਨ੍ਤਸ੍ਸਹਜ ਬਲਭਦ੍ਰੇਣ ਬਲਿਨਾ ।
ਸੁਭਦ੍ਰਾ ਮਧ੍ਯਸ੍ਥਸ੍ਸਕਲਸੁਰ ਸੇਵਾਵਸਰਦੋ
ਜਗਨ੍ਨਾਥਃ ਸ੍ਵਾਮੀ ਨਯਨਪਥਗਾਮੀ ਭਵਤੁ ਮੇ ॥ 3 ॥
mahāmbhodhestīre kanakarucire nīlaśikhare
vasan prāsādāntassahaja balabhadreṇa balinā |
subhadrā madhyasthassakalasura sevāvasarado
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 3 ||

महासमुद्रतीरे कनकवर्णे नीलशिखरे प्रासादे बलिना सहजबलभद्रेण सह वसन्, सुभद्रायाः मध्ये स्थितः, सकलदेवानां सेवावसरं ददत्, सः जगन्नाथः स्वामी मम नयनमार्गगामी भवतु। AI

Verse 4
ਕृਪਾ ਪਾਰਾਵਾਰਾਸ੍ਸਜਲ ਜਲਦ ਸ਼੍ਰੇਣਿਰੁਚਿਰੋ
ਰਮਾਵਾਣੀ ਰਾਮਸ੍ਫੁਰਦਮਲ ਪਙ੍ਕॆਰੁਹਮੁਖਃ ।
ਸੁਰੇਨ੍ਦ੍ਰੈਰਾਰਾਧ੍ਯਃ ਸ਼੍ਰੁਤਿਗਣਸ਼ਿਖਾ ਗੀਤ ਚਰਿਤੋ
ਜਗਨ੍ਨਾਥਃ ਸ੍ਵਾਮੀ ਨਯਨਪਥਗਾਮੀ ਭਵਤੁ ਮੇ ॥ 4 ॥
kṛpā pārāvārāssajala jalada śreṇiruciro
ramāvāṇī rāmasphuradamala paṅkèruhamukhaḥ |
surendrairārādhyaḥ śrutigaṇaśikhā gīta carito
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 4 ||

कृपासमुद्रः, जलधरश्रेणीवत् शोभमानः, रमायाः वाण्याः च स्फुरदमलपङ्केरुहवत् मुखः, सुरेन्द्रैः आराध्यः, श्रुतिगणशिखासु गीतचरितः, सः जगन्नाथः स्वामी मम नयनमार्गगामी भवतु। AI

Verse 5
ਰਥਾਰੂਢੋ ਗਚ੍ਛਨ੍ ਪਥਿ ਮਿਲਿਤ ਭੂਦੇਵਪਟਲੈਃ
ਸ੍ਤੁਤਿ ਪ੍ਰਾਦੁਰ੍ਭਾਵਂ ਪ੍ਰਤਿਪਦਮੁਪਾਕਰ੍ਣ੍ਯ ਸਦਯਃ ।
ਦਯਾਸਿਨ੍ਧੁਰ੍ਬਨ੍ਧੁਸ੍ਸਕਲ ਜਗਤਾ ਸਿਨ੍ਧੁਸੁਤਯਾ
ਜਗਨ੍ਨਾਥਃ ਸ੍ਵਾਮੀ ਨਯਨਪਥਗਾਮੀ ਭਵਤੁ ਮੇ ॥ 5 ॥
rathārūḍho gacchan pathi milita bhūdevapaṭalaiḥ
stuti prādurbhāvaṃ pratipadamupākarṇya sadayaḥ |
dayāsindhurbandhussakala jagatā sindhusutayā
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 5 ||

रथमारूढः सन् मार्गे गच्छन्, मिलितैः भूदेवसमूहैः कृतां स्तुतिं प्रतिपदं शृण्वन्, सदयः, दयासिन्धुः, सकलजगतः बन्धुः, सिन्धुसुतया सह, सः जगन्नाथः स्वामी मम नयनमार्गगामी भवतु। AI

Verse 6
ਪਰਬ੍ਰਹ੍ਮਾਪੀਡਃ ਕੁਵਲਯ-ਦਲੋਤ੍ਫੁਲ੍ਲਨਯਨੋ
ਨਿਵਾਸੀ ਨੀਲਾਦ੍ਰੌ ਨਿਹਿਤ-ਚਰਣੋऽਨਨ੍ਤ-ਸ਼ਿਰਸਿ ।
ਰਸਾਨਨ੍ਦੋ ਰਾਧਾ-ਸਰਸ-ਵਪੁਰਾਲਿਙ੍ਗਨ-ਸਖੋ
ਜਗਨ੍ਨਾਥਃ ਸ੍ਵਾਮੀ ਨਯਨਪਥਗਾਮੀ ਭਵਤੁ ਮੇ ॥ 6 ॥
parabrahmāpīḍaḥ kuvalaya-dalotphullanayano
nivāsī nīlādrau nihita-caraṇo'nanta-śirasi |
rasānando rādhā-sarasa-vapurāliṅgana-sakho
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 6 ||

परब्रह्मैव आपीडः (शिखास्थानीयः), कुवलयदलवत् विकसितनयनः, नीलाद्रौ निवासी, अनन्तशिरसि निहितचरणः, रसानन्दः, राधायाः सरसवपुषा आलिङ्गनसखः, सः जगन्नाथः स्वामी मम नयनमार्गगामी भवतु। AI

Verse 7
ਨ ਵੈ ਯਾਚੇ ਰਾਜ੍ਯਂ ਨ ਚ ਕਨਕ ਮਾਣਿਕ੍ਯ ਵਿਭਵਂ
ਨ ਯਾਚੇऽਹਂ ਰਮ੍ਯਾਂ ਨਿਖਿਲਜਨ-ਕਾਮ੍ਯਾਂ ਵਰਵਧੂਮ੍ ।
ਸਦਾ ਕਾਲੇ ਕਾਲੇ ਪ੍ਰਮਥ-ਪਤਿਨਾ ਗੀਤਚਰਿਤੋ
ਜਗਨ੍ਨਾਥਃ ਸ੍ਵਾਮੀ ਨਯਨਪਥਗਾਮੀ ਭਵਤੁ ਮੇ ॥ 7 ॥
na vai yāce rājyaṃ na ca kanaka māṇikya vibhavaṃ
na yāce'haṃ ramyāṃ nikhilajana-kāmyāṃ varavadhūm |
sadā kāle kāle pramatha-patinā gītacarito
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 7 ||

अहं राज्यं न याचे, न च कनकमाणिक्यविभवं याचे, न च रम्यां निखिलजनकाम्यां वरवधूं याचे। सदा काले काले प्रमथपतिना गीतचरितः, सः जगन्नाथः स्वामी मम नयनमार्गगामी भवतु। AI

Verse 8
ਹਰ ਤ੍ਵਂ ਸਂਸਾਰਂ ਦ੍ਰੁਤਤਰਮਸਾਰਂ ਸੁਰਪਤੇ
ਹਰ ਤ੍ਵਂ ਪਾਪਾਨਾਂ ਵਿਤਤਿਮਪਰਾਂ ਯਾਦਵਪਤੇ ।
ਅਹੋ ਦੀਨੋऽਨਾਥੇ ਨਿਹਿਤਚਰਣੋ ਨਿਸ਼੍ਚਿਤਮਿਦਂ
ਜਗਨ੍ਨਾਥਃ ਸ੍ਵਾਮੀ ਨਯਨਪਥਗਾਮੀ ਭਵਤੁ ਮੇ ॥ 8 ॥
hara tvaṃ saṃsāraṃ drutataramasāraṃ surapate
hara tvaṃ pāpānāṃ vitatimaparāṃ yādavapate |
aho dīno'nāthe nihitacaraṇo niścitamidaṃ
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 8 ||

हे सुरपते, त्वं संसारं द्रुततरम् असारं हर। हे यादवपते, त्वं पापानाम् अपरां विततिं हर। अहो, दीनः अनाथः (अहं) निश्चितम् इदं (जगन्नाथं) निहितचरणः (शरणागतः) अस्मि। सः जगन्नाथः स्वामी मम नयनमार्गगामी भवतु। AI

ਜਗਨ੍ਨਾਥਾष੍ਟਕਂ ਪੁਣ੍ਯਂ ਯਃ ਪਠੇਤ੍ ਪ੍ਰਯਤਃ ਸ਼ੁਚਿਃ ।
ਸਰ੍ਵਪਾਪ ਵਿਸ਼ੁਦ੍ਧਾਤ੍ਮਾ ਵਿष੍ਣੁਲੋਕਂ ਸ ਗਚ੍ਛਤਿ ॥
jagannāthāṣṭakaṃ puṇyaṃ yaḥ paṭhet prayataḥ śuciḥ |
sarvapāpa viśuddhātmā viṣṇulokaṃ sa gacchati ||
ਇਤਿ ਸ਼੍ਰੀਮਦ੍ ਸ਼ਙ੍ਕਰਾਚਾਰ੍ਯਵਿਰਚਿਤਂ ਜਗਨ੍ਨਾਥਾष੍ਟਕਂ ਸਮ੍ਪੂਰ੍ਣਂ॥
Sanskrit — Devanagari (original)
कदाचित्-कालिन्दी तटविपिन सङ्गीतकरवो
मुदाभीरी नारीवदन कमलास्वादमधुपः ।
रमा शम्भु ब्रह्मामरपति गणेशार्चित पदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 1 ॥
भुजे सव्ये वेणुं शिरसि शिखिपिञ्छं कटितटे
दुकूलं नेत्रान्ते सहचरकटाक्षं विदधते ।
सदा श्रीमद्वृन्दावनवसतिलीलापरिचयो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 2 ॥
महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे
वसन् प्रासादान्तस्सहज बलभद्रेण बलिना ।
सुभद्रा मध्यस्थस्सकलसुर सेवावसरदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 3 ॥
कृपा पारावारास्सजल जलद श्रेणिरुचिरो
रमावाणी रामस्फुरदमल पङ्कॆरुहमुखः ।
सुरेन्द्रैराराध्यः श्रुतिगणशिखा गीत चरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 4 ॥
रथारूढो गच्छन् पथि मिलित भूदेवपटलैः
स्तुति प्रादुर्भावं प्रतिपदमुपाकर्ण्य सदयः ।
दयासिन्धुर्बन्धुस्सकल जगता सिन्धुसुतया
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 5 ॥
परब्रह्मापीडः कुवलय-दलोत्फुल्लनयनो
निवासी नीलाद्रौ निहित-चरणोऽनन्त-शिरसि ।
रसानन्दो राधा-सरस-वपुरालिङ्गन-सखो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 6 ॥
न वै याचे राज्यं न च कनक माणिक्य विभवं
न याचेऽहं रम्यां निखिलजन-काम्यां वरवधूम् ।
सदा काले काले प्रमथ-पतिना गीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 7 ॥
हर त्वं संसारं द्रुततरमसारं सुरपते
हर त्वं पापानां विततिमपरां यादवपते ।
अहो दीनोऽनाथे निहितचरणो निश्चितमिदं
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 8 ॥
जगन्नाथाष्टकं पुण्यं यः पठेत् प्रयतः शुचिः ।
सर्वपाप विशुद्धात्मा विष्णुलोकं स गच्छति ॥
इति श्रीमद् शङ्कराचार्यविरचितं जगन्नाथाष्टकं सम्पूर्णं॥
🕉️ This is the original Sanskrit rendered in Gurmukhi script. Pronunciation is identical to the Sanskrit Devanagari version. It is a transliteration, not a translation — see “Meaning” for translations where available.
🕉 InfoLyter.in