Meaning —
⏳ The meaning of this text is being prepared (AI translation with an accuracy check). This usually takes a few minutes — this page will refresh when it is ready.
The meaning is ready. Show it.
The meaning could not be prepared right now.
A translation in is not yet available for this text.
The original text and transliteration are shown below.
Verse 01
आयुः कर्म च वित्तं च विद्या निधनमेव च ।
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ 01 ॥

āyuḥ karma ca vittaṃ ca vidyā nidhanameva ca |
pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ || 01 ||

Verse 02
साधुभ्यस्ते निवर्तन्ते पुत्रमित्राणि बान्धवाः ।
ये च तैः सह गन्तारस्तद्धर्मात्सुकृतं कुलम् ॥ 02 ॥

sādhubhyaste nivartante putramitrāṇi bāndhavāḥ |
ye ca taiḥ saha gantārastaddharmātsukṛtaṃ kulam || 02 ||

Verse 03
दर्शनध्यानसंस्पर्शैर्मत्सी कूर्मी च पक्षिणी ।
शिशुं पालयते नित्यं तथा सज्जन-सङ्गतिः ॥ 03 ॥

darśanadhyānasaṃsparśairmatsī kūrmī ca pakṣiṇī |
śiśuṃ pālayate nityaṃ tathā sajjana-saṅgatiḥ || 03 ||

Verse 04
यावत्स्वस्थो ह्ययं देहो यावन्मृत्युश्च दूरतः ।
तावदात्महितं कुर्यात्प्राणान्ते किं करिष्यति ॥ 04 ॥

yāvatsvastho hyayaṃ deho yāvanmṛtyuśca dūrataḥ |
tāvadātmahitaṃ kuryātprāṇānte kiṃ kariṣyati || 04 ||

Verse 05
कामधेनुगुणा विद्या ह्यकाले फलदायिनी ।
प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम् ॥ 05 ॥

kāmadhenuguṇā vidyā hyakāle phaladāyinī |
pravāse mātṛsadṛśī vidyā guptaṃ dhanaṃ smṛtam || 05 ||

Verse 06
एकोऽपि गुणवान्पुत्रो निर्गुणेन शतेन किम् ।
एकश्चन्द्रस्तमो हन्ति न च ताराः सहस्रशः ॥ 06 ॥

eko'pi guṇavānputro nirguṇena śatena kim |
ekaścandrastamo hanti na ca tārāḥ sahasraśaḥ || 06 ||

Verse 07
मूर्खश्चिरायुर्जातोऽपि तस्माज्जातमृतो वरः ।
मृतः स चाल्पदुःखाय यावज्जीवं जडो दहेत् ॥ 07 ॥

mūrkhaścirāyurjāto'pi tasmājjātamṛto varaḥ |
mṛtaḥ sa cālpaduḥkhāya yāvajjīvaṃ jaḍo dahet || 07 ||

Verse 08
कुग्रामवासः कुलहीनसेवा
कुभोजनं क्रोधमुखी च भार्या ।
पुत्रश्च मूर्खो विधवा च कन्या
विनाग्निना षट्प्रदहन्ति कायम् ॥ 08 ॥
कुभोजनं क्रोधमुखी च भार्या ।
पुत्रश्च मूर्खो विधवा च कन्या
विनाग्निना षट्प्रदहन्ति कायम् ॥ 08 ॥
kugrāmavāsaḥ kulahīnasevā
kubhojanaṃ krodhamukhī ca bhāryā |
putraśca mūrkho vidhavā ca kanyā
vināgninā ṣaṭpradahanti kāyam || 08 ||
kubhojanaṃ krodhamukhī ca bhāryā |
putraśca mūrkho vidhavā ca kanyā
vināgninā ṣaṭpradahanti kāyam || 08 ||
Verse 09
किं तया क्रियते धेन्वा या न दोग्ध्री न गर्भिणी ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान् न भक्तिमान् ॥ 09 ॥

kiṃ tayā kriyate dhenvā yā na dogdhrī na garbhiṇī |
ko'rthaḥ putreṇa jātena yo na vidvān na bhaktimān || 09 ||

Verse 10
संसारतापदग्धानां त्रयो विश्रान्तिहेतवः ।
अपत्यं च कलत्रं च सतां सङ्गतिरेव च ॥ 10 ॥

saṃsāratāpadagdhānāṃ trayo viśrāntihetavaḥ |
apatyaṃ ca kalatraṃ ca satāṃ saṅgatireva ca || 10 ||

Verse 11
सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति पण्डिताः ।
सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत् ॥ 11 ॥

sakṛjjalpanti rājānaḥ sakṛjjalpanti paṇḍitāḥ |
sakṛtkanyāḥ pradīyante trīṇyetāni sakṛtsakṛt || 11 ||

Verse 12
एकाकिना तपो द्वाभ्यां पठनं गायनं त्रिभिः ।
चतुर्भिर्गमनं क्षेत्रं पञ्चभिर्बहुभी रणः ॥ 12 ॥

ekākinā tapo dvābhyāṃ paṭhanaṃ gāyanaṃ tribhiḥ |
caturbhirgamanaṃ kṣetraṃ pañcabhirbahubhī raṇaḥ || 12 ||

Verse 13
सा भार्या या शुचिर्दक्षा सा भार्या या पतिव्रता ।
सा भार्या या पतिप्रीता सा भार्या सत्यवादिनी ॥ 13 ॥

sā bhāryā yā śucirdakṣā sā bhāryā yā pativratā |
sā bhāryā yā patiprītā sā bhāryā satyavādinī || 13 ||

Verse 14
अपुत्रस्य गृहं शून्यं दिशः शून्यास्त्वबान्धवाः ।
मूर्खस्य हृदयं शून्यं सर्वशून्या दरिद्रता ॥ 14 ॥

aputrasya gṛhaṃ śūnyaṃ diśaḥ śūnyāstvabāndhavāḥ |
mūrkhasya hṛdayaṃ śūnyaṃ sarvaśūnyā daridratā || 14 ||

Verse 15
अनभ्यासे विषं शास्त्रमजीर्णे भोजनं विषम् ।
दरिद्रस्य विषं गोष्ठी वृद्धस्य तरुणी विषम् ॥ 15 ॥

anabhyāse viṣaṃ śāstramajīrṇe bhojanaṃ viṣam |
daridrasya viṣaṃ goṣṭhī vṛddhasya taruṇī viṣam || 15 ||

Verse 16
त्यजेद्धर्मं दयाहीनं विद्याहीनं गुरुं त्यजेत् ।
त्यजेत्क्रोधमुखीं भार्यां निःस्नेहान्बान्धवांस्त्यजेत् ॥ 16 ॥

tyajeddharmaṃ dayāhīnaṃ vidyāhīnaṃ guruṃ tyajet |
tyajetkrodhamukhīṃ bhāryāṃ niḥsnehānbāndhavāṃstyajet || 16 ||

Verse 17
अध्वा जरा देहवतां पर्वतानां जलं जरा ।
अमैथुनं जरा स्त्रीणां वस्त्राणामातपो जरा ॥ 17 ॥

adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā |
amaithunaṃ jarā strīṇāṃ vastrāṇāmātapo jarā || 17 ||

Verse 18
कः कालः कानि मित्राणि को देशः कौ व्ययागमौ ।
कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ 18 ॥

kaḥ kālaḥ kāni mitrāṇi ko deśaḥ kau vyayāgamau |
kaścāhaṃ kā ca me śaktiriti cintyaṃ muhurmuhuḥ || 18 ||

Verse 19
अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् ।
प्रतिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनः ॥ 19 ॥

agnirdevo dvijātīnāṃ munīnāṃ hṛdi daivatam |
pratimā svalpabuddhīnāṃ sarvatra samadarśinaḥ || 19 ||

Sanskrit — Devanagari (original)
आयुः कर्म च वित्तं च विद्या निधनमेव च ।
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ 01 ॥
साधुभ्यस्ते निवर्तन्ते पुत्रमित्राणि बान्धवाः ।
ये च तैः सह गन्तारस्तद्धर्मात्सुकृतं कुलम् ॥ 02 ॥
दर्शनध्यानसंस्पर्शैर्मत्सी कूर्मी च पक्षिणी ।
शिशुं पालयते नित्यं तथा सज्जन-सङ्गतिः ॥ 03 ॥
यावत्स्वस्थो ह्ययं देहो यावन्मृत्युश्च दूरतः ।
तावदात्महितं कुर्यात्प्राणान्ते किं करिष्यति ॥ 04 ॥
कामधेनुगुणा विद्या ह्यकाले फलदायिनी ।
प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम् ॥ 05 ॥
एकोऽपि गुणवान्पुत्रो निर्गुणेन शतेन किम् ।
एकश्चन्द्रस्तमो हन्ति न च ताराः सहस्रशः ॥ 06 ॥
मूर्खश्चिरायुर्जातोऽपि तस्माज्जातमृतो वरः ।
मृतः स चाल्पदुःखाय यावज्जीवं जडो दहेत् ॥ 07 ॥
कुग्रामवासः कुलहीनसेवा
कुभोजनं क्रोधमुखी च भार्या ।
पुत्रश्च मूर्खो विधवा च कन्या
विनाग्निना षट्प्रदहन्ति कायम् ॥ 08 ॥
किं तया क्रियते धेन्वा या न दोग्ध्री न गर्भिणी ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान् न भक्तिमान् ॥ 09 ॥
संसारतापदग्धानां त्रयो विश्रान्तिहेतवः ।
अपत्यं च कलत्रं च सतां सङ्गतिरेव च ॥ 10 ॥
सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति पण्डिताः ।
सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत् ॥ 11 ॥
एकाकिना तपो द्वाभ्यां पठनं गायनं त्रिभिः ।
चतुर्भिर्गमनं क्षेत्रं पञ्चभिर्बहुभी रणः ॥ 12 ॥
सा भार्या या शुचिर्दक्षा सा भार्या या पतिव्रता ।
सा भार्या या पतिप्रीता सा भार्या सत्यवादिनी ॥ 13 ॥
अपुत्रस्य गृहं शून्यं दिशः शून्यास्त्वबान्धवाः ।
मूर्खस्य हृदयं शून्यं सर्वशून्या दरिद्रता ॥ 14 ॥
अनभ्यासे विषं शास्त्रमजीर्णे भोजनं विषम् ।
दरिद्रस्य विषं गोष्ठी वृद्धस्य तरुणी विषम् ॥ 15 ॥
त्यजेद्धर्मं दयाहीनं विद्याहीनं गुरुं त्यजेत् ।
त्यजेत्क्रोधमुखीं भार्यां निःस्नेहान्बान्धवांस्त्यजेत् ॥ 16 ॥
अध्वा जरा देहवतां पर्वतानां जलं जरा ।
अमैथुनं जरा स्त्रीणां वस्त्राणामातपो जरा ॥ 17 ॥
कः कालः कानि मित्राणि को देशः कौ व्ययागमौ ।
कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ 18 ॥
अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् ।
प्रतिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनः ॥ 19 ॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
It is a transliteration, not a translation — see “Meaning” for translations where available.