Lord Shiva

शिव भुजङ्ग प्रयात स्तोत्रम्

Shiva Bhujanga Prayata Stotram

✍️ Unknown author 📂 Stotram 🖋️ Devanagari script 🔢 12 verses
📄 Download PDF
View: Text in this script too →
🖋️ Script: हिन्दी ▾
Meaning —
Verse 1
कृपासागरायाशुकाव्यप्रदाय
प्रणम्राखिलाभीष्टसन्दायकाय ।
यतीन्द्रैरुपास्याङ्घ्रिपाथोरुहाय
प्रबोधप्रदात्रे नमः शङ्कराय ॥1॥
kṛpāsāgarāyāśukāvyapradāya
praṇamrākhilābhīṣṭasandāyakāya |
yatīndrairupāsyāṅghripāthoruhāya
prabodhapradātre namaḥ śaṅkarāya ||1||
Verse 2
चिदानन्दरूपाय चिन्मुद्रिकोद्य-
त्करायेशपर्यायरूपाय तुभ्यम् ।
मुदा गीयमानाय वेदोत्तमाङ्गैः
श्रितानन्ददात्रे नमः शङ्कराय ॥2॥
cidānandarūpāya cinmudrikodya-
tkarāyeśaparyāyarūpāya tubhyam |
mudā gīyamānāya vedottamāṅgaiḥ
śritānandadātre namaḥ śaṅkarāya ||2||
Verse 3
जटाजूटमध्ये पुरा या सुराणां
धुनी साद्य कर्मन्दिरूपस्य शम्भोः
गले मल्लिकामालिकाव्याजतस्ते
विभातीति मन्ये गुरो किं तथैव ॥3॥
jaṭājūṭamadhye purā yā surāṇāṃ
dhunī sādya karmandirūpasya śambhoḥ
gale mallikāmālikāvyājataste
vibhātīti manye guro kiṃ tathaiva ||3||
Verse 4
नखेन्दुप्रभाधूतनम्रालिहार्दा-
न्धकारव्रजायाब्जमन्दस्मिताय ।
महामोहपाथोनिधेर्बाडबाय
प्रशान्ताय कुर्मो नमः शङ्कराय ॥4॥
nakhenduprabhādhūtanamrālihārdā-
ndhakāravrajāyābjamandasmitāya |
mahāmohapāthonidherbāḍabāya
praśāntāya kurmo namaḥ śaṅkarāya ||4||
Verse 5
प्रणम्रान्तरङ्गाब्जबोधप्रदात्रे
दिवारात्रमव्याहतोस्राय कामम् ।
क्षपेशाय चित्राय लक्ष्म क्षयाभ्यां
विहीनाय कुर्मो नमः शङ्कराय ॥5॥
praṇamrāntaraṅgābjabodhapradātre
divārātramavyāhatosrāya kāmam |
kṣapeśāya citrāya lakṣma kṣayābhyāṃ
vihīnāya kurmo namaḥ śaṅkarāya ||5||
Verse 6
प्रणम्रास्यपाथोजमोदप्रदात्रे
सदान्तस्तमस्तोमसंहारकर्त्रे ।
रजन्या मपीद्धप्रकाशाय कुर्मो
ह्यपूर्वाय पूष्णे नमः शङ्कराय ॥6॥
praṇamrāsyapāthojamodapradātre
sadāntastamastomasaṃhārakartre |
rajanyā mapīddhaprakāśāya kurmo
hyapūrvāya pūṣṇe namaḥ śaṅkarāya ||6||
Verse 7
नतानां हृदब्जानि फुल्लानि शीघ्रं
करोम्याशु योगप्रदानेन नूनम् ।
प्रबोधाय चेत्थं सरोजानि धत्से
प्रफुल्लानि किं भो गुरो ब्रूहि मह्यम् ॥7॥
natānāṃ hṛdabjāni phullāni śīghraṃ
karomyāśu yogapradānena nūnam |
prabodhāya cetthaṃ sarojāni dhatse
praphullāni kiṃ bho guro brūhi mahyam ||7||
Verse 8
प्रभाधूतचन्द्रायुतायाखिलेष्ट-
प्रदायानतानां समूहाय शीघ्रम्।
प्रतीपाय नम्रौघदुःखाघपङ्क्ते-
र्मुदा सर्वदा स्यान्नमः शङ्कराय ॥8॥
prabhādhūtacandrāyutāyākhileṣṭa-
pradāyānatānāṃ samūhāya śīghram|
pratīpāya namraughaduḥkhāghapaṅkte-
rmudā sarvadā syānnamaḥ śaṅkarāya ||8||
Verse 9
विनिष्कासितानीश तत्त्वावबोधा -
न्नतानां मनोभ्यो ह्यनन्याश्रयाणि ।
रजांसि प्रपन्नानि पादाम्बुजातं
गुरो रक्तवस्त्रापदेशाद्बिभर्षि ॥9॥
viniṣkāsitānīśa tattvāvabodhā -
nnatānāṃ manobhyo hyananyāśrayāṇi |
rajāṃsi prapannāni pādāmbujātaṃ
guro raktavastrāpadeśādbibharṣi ||9||
Verse 10
मतेर्वेदशीर्षाध्वसम्प्रापकाया-
नतानां जनानां कृपार्द्रैः कटाक्षैः ।
ततेः पापबृन्दस्य शीघ्रं निहन्त्रे
स्मितास्याय कुर्मो नमः शङ्कराय ॥10॥
matervedaśīrṣādhvasamprāpakāyā-
natānāṃ janānāṃ kṛpārdraiḥ kaṭākṣaiḥ |
tateḥ pāpabṛndasya śīghraṃ nihantre
smitāsyāya kurmo namaḥ śaṅkarāya ||10||
Verse 11
सुपर्वोक्तिगन्धेन हीनाय तूर्णं
पुरा तोटकायाखिलज्ञानदात्रे।
प्रवालीयगर्वापहारस्य कर्त्रे
पदाब्जम्रदिम्ना नमः शङ्कराय ॥11॥
suparvoktigandhena hīnāya tūrṇaṃ
purā toṭakāyākhilajñānadātre|
pravālīyagarvāpahārasya kartre
padābjamradimnā namaḥ śaṅkarāya ||11||
Verse 12
भवाम्भोधिमग्नान्जनान्दुःखयुक्तान्
जवादुद्दिधीर्षुर्भवानित्यहोऽहम् ।
विदित्वा हि ते कीर्तिमन्यादृशाम्भो
सुखं निर्विशङ्कः स्वपिम्यस्तयत्नः ॥12॥
bhavāmbhodhimagnānjanānduḥkhayuktān
javāduddidhīrṣurbhavānityaho'ham |
viditvā hi te kīrtimanyādṛśāmbho
sukhaṃ nirviśaṅkaḥ svapimyastayatnaḥ ||12||
॥इति श्रीशङ्कराचार्य भुजङ्गप्रयातस्तोत्रम्॥
Sanskrit — Devanagari (original)
कृपासागरायाशुकाव्यप्रदाय
प्रणम्राखिलाभीष्टसन्दायकाय ।
यतीन्द्रैरुपास्याङ्घ्रिपाथोरुहाय
प्रबोधप्रदात्रे नमः शङ्कराय ॥1॥
चिदानन्दरूपाय चिन्मुद्रिकोद्य-
त्करायेशपर्यायरूपाय तुभ्यम् ।
मुदा गीयमानाय वेदोत्तमाङ्गैः
श्रितानन्ददात्रे नमः शङ्कराय ॥2॥
जटाजूटमध्ये पुरा या सुराणां
धुनी साद्य कर्मन्दिरूपस्य शम्भोः
गले मल्लिकामालिकाव्याजतस्ते
विभातीति मन्ये गुरो किं तथैव ॥3॥
नखेन्दुप्रभाधूतनम्रालिहार्दा-
न्धकारव्रजायाब्जमन्दस्मिताय ।
महामोहपाथोनिधेर्बाडबाय
प्रशान्ताय कुर्मो नमः शङ्कराय ॥4॥
प्रणम्रान्तरङ्गाब्जबोधप्रदात्रे
दिवारात्रमव्याहतोस्राय कामम् ।
क्षपेशाय चित्राय लक्ष्म क्षयाभ्यां
विहीनाय कुर्मो नमः शङ्कराय ॥5॥
प्रणम्रास्यपाथोजमोदप्रदात्रे
सदान्तस्तमस्तोमसंहारकर्त्रे ।
रजन्या मपीद्धप्रकाशाय कुर्मो
ह्यपूर्वाय पूष्णे नमः शङ्कराय ॥6॥
नतानां हृदब्जानि फुल्लानि शीघ्रं
करोम्याशु योगप्रदानेन नूनम् ।
प्रबोधाय चेत्थं सरोजानि धत्से
प्रफुल्लानि किं भो गुरो ब्रूहि मह्यम् ॥7॥
प्रभाधूतचन्द्रायुतायाखिलेष्ट-
प्रदायानतानां समूहाय शीघ्रम्।
प्रतीपाय नम्रौघदुःखाघपङ्क्ते-
र्मुदा सर्वदा स्यान्नमः शङ्कराय ॥8॥
विनिष्कासितानीश तत्त्वावबोधा -
न्नतानां मनोभ्यो ह्यनन्याश्रयाणि ।
रजांसि प्रपन्नानि पादाम्बुजातं
गुरो रक्तवस्त्रापदेशाद्बिभर्षि ॥9॥
मतेर्वेदशीर्षाध्वसम्प्रापकाया-
नतानां जनानां कृपार्द्रैः कटाक्षैः ।
ततेः पापबृन्दस्य शीघ्रं निहन्त्रे
स्मितास्याय कुर्मो नमः शङ्कराय ॥10॥
सुपर्वोक्तिगन्धेन हीनाय तूर्णं
पुरा तोटकायाखिलज्ञानदात्रे।
प्रवालीयगर्वापहारस्य कर्त्रे
पदाब्जम्रदिम्ना नमः शङ्कराय ॥11॥
भवाम्भोधिमग्नान्जनान्दुःखयुक्तान्
जवादुद्दिधीर्षुर्भवानित्यहोऽहम् ।
विदित्वा हि ते कीर्तिमन्यादृशाम्भो
सुखं निर्विशङ्कः स्वपिम्यस्तयत्नः ॥12॥
॥इति श्रीशङ्कराचार्य भुजङ्गप्रयातस्तोत्रम्॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version. It is a transliteration, not a translation — see “Meaning” for translations where available.
🕉 InfoLyter.in