📚 Narayaniyam

नारायणीयं दशक 61 - विप्रपत्न्यनुग्रहम्

Dashakam 61

✍️ Author Melpathur Narayana Bhattathiri 🖋️ Devanagari script 🔢 9 verses
📄 Download PDF
View: Text in this script too →
🖋️ Script: हिन्दी ▾
Meaning —
Verse 1
ततश्च वृन्दावनतोऽतिदूरतो
वनं गतस्त्वं खलु गोपगोकुलैः ।
हृदन्तरे भक्ततरद्विजाङ्गना-
कदम्बकानुग्रहणाग्रहं वहन् ॥1॥
tataśca vṛndāvanato'tidūrato
vanaṃ gatastvaṃ khalu gopagokulaiḥ |
hṛdantare bhaktataradvijāṅganā-
kadambakānugrahaṇāgrahaṃ vahan ||1||
Verse 2
ततो निरीक्ष्याशरणे वनान्तरे
किशोरलोकं क्षुधितं तृषाकुलम् ।
अदूरतो यज्ञपरान् द्विजान् प्रति
व्यसर्जयो दीदिवियाचनाय तान् ॥2॥
tato nirīkṣyāśaraṇe vanāntare
kiśoralokaṃ kṣudhitaṃ tṛṣākulam |
adūrato yajñaparān dvijān prati
vyasarjayo dīdiviyācanāya tān ||2||
Verse 3
गतेष्वथो तेष्वभिधाय तेऽभिधां
कुमारकेष्वोदनयाचिषु प्रभो ।
श्रुतिस्थिरा अप्यभिनिन्युरश्रुतिं
न किञ्चिदूचुश्च महीसुरोत्तमाः ॥3॥
gateṣvatho teṣvabhidhāya te'bhidhāṃ
kumārakeṣvodanayāciṣu prabho |
śrutisthirā apyabhininyuraśrutiṃ
na kiñcidūcuśca mahīsurottamāḥ ||3||
Verse 4
अनादरात् खिन्नधियो हि बालकाः ।
समाययुर्युक्तमिदं हि यज्वसु ।
चिरादभक्ताः खलु ते महीसुराः
कथं हि भक्तं त्वयि तैः समर्प्यते ॥4॥
anādarāt khinnadhiyo hi bālakāḥ |
samāyayuryuktamidaṃ hi yajvasu |
cirādabhaktāḥ khalu te mahīsurāḥ
kathaṃ hi bhaktaṃ tvayi taiḥ samarpyate ||4||
निवेदयध्वं गृहिणीजनाय मां
दिशेयुरन्नं करुणाकुला इमाः ।
nivedayadhvaṃ gṛhiṇījanāya māṃ
diśeyurannaṃ karuṇākulā imāḥ |
इति स्मितार्द्रं भवतेरिता गता-
स्ते दारका दारजनं ययाचिरे ॥5॥
Verse 6
गृहीतनाम्नि त्वयि सम्भ्रमाकुला-
श्चतुर्विधं भोज्यरसं प्रगृह्य ताः ।
चिरन्धृतत्वत्प्रविलोकनाग्रहाः
स्वकैर्निरुद्धा अपि तूर्णमाययुः ॥6॥
gṛhītanāmni tvayi sambhramākulā-
ścaturvidhaṃ bhojyarasaṃ pragṛhya tāḥ |
cirandhṛtatvatpravilokanāgrahāḥ
svakairniruddhā api tūrṇamāyayuḥ ||6||
Verse 7
विलोलपिञ्छं चिकुरे कपोलयोः
समुल्लसत्कुण्डलमार्द्रमीक्षिते ।
निधाय बाहुं सुहृदंससीमनि
स्थितं भवन्तं समलोकयन्त ताः ॥7॥
vilolapiñchaṃ cikure kapolayoḥ
samullasatkuṇḍalamārdramīkṣite |
nidhāya bāhuṃ suhṛdaṃsasīmani
sthitaṃ bhavantaṃ samalokayanta tāḥ ||7||
Verse 8
तदा च काचित्त्वदुपागमोद्यता
गृहीतहस्ता दयितेन यज्वना ।
तदैव सञ्चिन्त्य भवन्तमञ्जसा
विवेश कैवल्यमहो कृतिन्यसौ ॥8॥
tadā ca kācittvadupāgamodyatā
gṛhītahastā dayitena yajvanā |
tadaiva sañcintya bhavantamañjasā
viveśa kaivalyamaho kṛtinyasau ||8||
Verse 9
आदाय भोज्यान्यनुगृह्य ताः पुन-
स्त्वदङ्गसङ्गस्पृहयोज्झतीर्गृहम् ।
विलोक्य यज्ञाय विसर्जयन्निमा-
श्चकर्थ भर्तृनपि तास्वगर्हणान् ॥9॥
ādāya bhojyānyanugṛhya tāḥ puna-
stvadaṅgasaṅgaspṛhayojjhatīrgṛham |
vilokya yajñāya visarjayannimā-
ścakartha bhartṛnapi tāsvagarhaṇān ||9||
Verse 10
निरूप्य दोषं निजमङ्गनाजने
विलोक्य भक्तिं च पुनर्विचारिभिः
प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजै-
र्मरुत्पुराधीश निरुन्धि मे गदान् ॥10॥
nirūpya doṣaṃ nijamaṅganājane
vilokya bhaktiṃ ca punarvicāribhiḥ
prabuddhatattvaistvamabhiṣṭuto dvijai-
rmarutpurādhīśa nirundhi me gadān ||10||
Sanskrit — Devanagari (original)
ततश्च वृन्दावनतोऽतिदूरतो
वनं गतस्त्वं खलु गोपगोकुलैः ।
हृदन्तरे भक्ततरद्विजाङ्गना-
कदम्बकानुग्रहणाग्रहं वहन् ॥1॥
ततो निरीक्ष्याशरणे वनान्तरे
किशोरलोकं क्षुधितं तृषाकुलम् ।
अदूरतो यज्ञपरान् द्विजान् प्रति
व्यसर्जयो दीदिवियाचनाय तान् ॥2॥
गतेष्वथो तेष्वभिधाय तेऽभिधां
कुमारकेष्वोदनयाचिषु प्रभो ।
श्रुतिस्थिरा अप्यभिनिन्युरश्रुतिं
न किञ्चिदूचुश्च महीसुरोत्तमाः ॥3॥
अनादरात् खिन्नधियो हि बालकाः ।
समाययुर्युक्तमिदं हि यज्वसु ।
चिरादभक्ताः खलु ते महीसुराः
कथं हि भक्तं त्वयि तैः समर्प्यते ॥4॥
निवेदयध्वं गृहिणीजनाय मां
दिशेयुरन्नं करुणाकुला इमाः ।
इति स्मितार्द्रं भवतेरिता गता-
स्ते दारका दारजनं ययाचिरे ॥5॥
गृहीतनाम्नि त्वयि सम्भ्रमाकुला-
श्चतुर्विधं भोज्यरसं प्रगृह्य ताः ।
चिरन्धृतत्वत्प्रविलोकनाग्रहाः
स्वकैर्निरुद्धा अपि तूर्णमाययुः ॥6॥
विलोलपिञ्छं चिकुरे कपोलयोः
समुल्लसत्कुण्डलमार्द्रमीक्षिते ।
निधाय बाहुं सुहृदंससीमनि
स्थितं भवन्तं समलोकयन्त ताः ॥7॥
तदा च काचित्त्वदुपागमोद्यता
गृहीतहस्ता दयितेन यज्वना ।
तदैव सञ्चिन्त्य भवन्तमञ्जसा
विवेश कैवल्यमहो कृतिन्यसौ ॥8॥
आदाय भोज्यान्यनुगृह्य ताः पुन-
स्त्वदङ्गसङ्गस्पृहयोज्झतीर्गृहम् ।
विलोक्य यज्ञाय विसर्जयन्निमा-
श्चकर्थ भर्तृनपि तास्वगर्हणान् ॥9॥
निरूप्य दोषं निजमङ्गनाजने
विलोक्य भक्तिं च पुनर्विचारिभिः
प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजै-
र्मरुत्पुराधीश निरुन्धि मे गदान् ॥10॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version. It is a transliteration, not a translation — see “Meaning” for translations where available.
🕉 InfoLyter.in