Lord Krishna

भीष्म कृत भगवत् स्तुतिः (श्री कृष्ण स्तुतिः)

Bhishma Krita Bhagavat Stutih (shri Krishna Stutih)

✍️ Unknown author 📂 Stotram 🖋️ Devanagari script 🔢 10 verses
📄 Download PDF
View: Text in this script too →
🖋️ Script: हिन्दी ▾
Meaning —
भीष्म उवाच ।
इति मतिरुपकल्पिता वितृष्णा
भगवति सात्वतपुङ्गवे विभूम्नि ।
स्वसुखमुपगते क्वचिद्विहर्तुं
प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥ 1 ॥
Verse 2
त्रिभुवनकमनं तमालवर्णं
रविकरगौरवराम्बरं दधाने ।
वपुरलककुलावृताननाब्जं
विजयसखे रतिरस्तु मेऽनवद्या ॥ 2 ॥
tribhuvanakamanaṃ tamālavarṇaṃ
ravikaragauravarāmbaraṃ dadhāne |
vapuralakakulāvṛtānanābjaṃ
vijayasakhe ratirastu me'navadyā || 2 ||
Verse 3
युधि तुरगरजोविधूम्रविष्वक्
कचलुलितश्रमवार्यलङ्कृतास्ये ।
मम निशितशरैर्विभिद्यमान
त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ 3 ॥
yudhi turagarajovidhūmraviṣvak
kacalulitaśramavāryalaṅkṛtāsye |
mama niśitaśarairvibhidyamāna
tvaci vilasatkavace'stu kṛṣṇa ātmā || 3 ||
Verse 4
सपदि सखिवचो निशम्य मध्ये
निजपरयोर्बलयो रथं निवेश्य ।
स्थितवति परसैनिकायुरक्ष्णा
हृतवति पार्थसखे रतिर्ममास्तु ॥ 4 ॥
sapadi sakhivaco niśamya madhye
nijaparayorbalayo rathaṃ niveśya |
sthitavati parasainikāyurakṣṇā
hṛtavati pārthasakhe ratirmamāstu || 4 ||
Verse 5
व्यवहित पृथनामुखं निरीक्ष्य
स्वजनवधाद्विमुखस्य दोषबुद्ध्या ।
कुमतिमहरदात्मविद्यया य-
-श्चरणरतिः परमस्य तस्य मेऽस्तु ॥ 5 ॥
vyavahita pṛthanāmukhaṃ nirīkṣya
svajanavadhādvimukhasya doṣabuddhyā |
kumatimaharadātmavidyayā ya-
-ścaraṇaratiḥ paramasya tasya me'stu || 5 ||
Verse 6
स्वनिगममपहाय मत्प्रतिज्ञां
ऋतमधिकर्तुमवप्लुतो रथस्थः ।
धृतरथचरणोऽभ्ययाच्चलद्गुः
हरिरिव हन्तुमिभं गतोत्तरीयः ॥ 6 ॥
svanigamamapahāya matpratijñāṃ
ṛtamadhikartumavapluto rathasthaḥ |
dhṛtarathacaraṇo'bhyayāccaladguḥ
haririva hantumibhaṃ gatottarīyaḥ || 6 ||
Verse 7
शितविशिखहतो विशीर्णदंशः
क्षतजपरिप्लुत आततायिनो मे ।
प्रसभमभिससार मद्वधार्थं
स भवतु मे भगवान् गतिर्मुकुन्दः ॥ 7 ॥
śitaviśikhahato viśīrṇadaṃśaḥ
kṣatajaparipluta ātatāyino me |
prasabhamabhisasāra madvadhārthaṃ
sa bhavatu me bhagavān gatirmukundaḥ || 7 ||
Verse 8
विजयरथकुटुम्ब आत्ततोत्रे
धृतहयरश्मिनि तच्छ्रियेक्षणीये ।
भगवति रतिरस्तु मे मुमूर्षोः
यमिह निरीक्ष्य हताः गताः सरूपम् ॥ 8 ॥
vijayarathakuṭumba āttatotre
dhṛtahayaraśmini tacchriyekṣaṇīye |
bhagavati ratirastu me mumūrṣoḥ
yamiha nirīkṣya hatāḥ gatāḥ sarūpam || 8 ||
Verse 9
ललित गति विलास वल्गुहास
प्रणय निरीक्षण कल्पितोरुमानाः ।
कृतमनुकृतवत्य उन्मदान्धाः
प्रकृतिमगन् किल यस्य गोपवध्वः ॥ 9 ॥
lalita gati vilāsa valguhāsa
praṇaya nirīkṣaṇa kalpitorumānāḥ |
kṛtamanukṛtavatya unmadāndhāḥ
prakṛtimagan kila yasya gopavadhvaḥ || 9 ||
Verse 10
मुनिगणनृपवर्यसङ्कुलेऽन्तः
सदसि युधिष्ठिरराजसूय एषाम् ।
अर्हणमुपपेद ईक्षणीयो
मम दृशिगोचर एष आविरात्मा ॥ 10 ॥
munigaṇanṛpavaryasaṅkule'ntaḥ
sadasi yudhiṣṭhirarājasūya eṣām |
arhaṇamupapeda īkṣaṇīyo
mama dṛśigocara eṣa āvirātmā || 10 ||
Verse 11
तमिममहमजं शरीरभाजां
हृदि हृदि धिष्टितमात्मकल्पितानाम् ।
प्रतिदृशमिव नैकधाऽर्कमेकं
समधिगतोऽस्मि विधूतभेदमोहः ॥ 11 ॥
tamimamahamajaṃ śarīrabhājāṃ
hṛdi hṛdi dhiṣṭitamātmakalpitānām |
pratidṛśamiva naikadhā'rkamekaṃ
samadhigato'smi vidhūtabhedamohaḥ || 11 ||
इति श्रीमद्भागवते महापुराणे प्रथमस्कन्धे नवमोऽध्याये भीष्मकृत भगवत् स्तुतिः ।
Sanskrit — Devanagari (original)
भीष्म उवाच ।
इति मतिरुपकल्पिता वितृष्णा
भगवति सात्वतपुङ्गवे विभूम्नि ।
स्वसुखमुपगते क्वचिद्विहर्तुं
प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥ 1 ॥
त्रिभुवनकमनं तमालवर्णं
रविकरगौरवराम्बरं दधाने ।
वपुरलककुलावृताननाब्जं
विजयसखे रतिरस्तु मेऽनवद्या ॥ 2 ॥
युधि तुरगरजोविधूम्रविष्वक्
कचलुलितश्रमवार्यलङ्कृतास्ये ।
मम निशितशरैर्विभिद्यमान
त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ 3 ॥
सपदि सखिवचो निशम्य मध्ये
निजपरयोर्बलयो रथं निवेश्य ।
स्थितवति परसैनिकायुरक्ष्णा
हृतवति पार्थसखे रतिर्ममास्तु ॥ 4 ॥
व्यवहित पृथनामुखं निरीक्ष्य
स्वजनवधाद्विमुखस्य दोषबुद्ध्या ।
कुमतिमहरदात्मविद्यया य-
-श्चरणरतिः परमस्य तस्य मेऽस्तु ॥ 5 ॥
स्वनिगममपहाय मत्प्रतिज्ञां
ऋतमधिकर्तुमवप्लुतो रथस्थः ।
धृतरथचरणोऽभ्ययाच्चलद्गुः
हरिरिव हन्तुमिभं गतोत्तरीयः ॥ 6 ॥
शितविशिखहतो विशीर्णदंशः
क्षतजपरिप्लुत आततायिनो मे ।
प्रसभमभिससार मद्वधार्थं
स भवतु मे भगवान् गतिर्मुकुन्दः ॥ 7 ॥
विजयरथकुटुम्ब आत्ततोत्रे
धृतहयरश्मिनि तच्छ्रियेक्षणीये ।
भगवति रतिरस्तु मे मुमूर्षोः
यमिह निरीक्ष्य हताः गताः सरूपम् ॥ 8 ॥
ललित गति विलास वल्गुहास
प्रणय निरीक्षण कल्पितोरुमानाः ।
कृतमनुकृतवत्य उन्मदान्धाः
प्रकृतिमगन् किल यस्य गोपवध्वः ॥ 9 ॥
मुनिगणनृपवर्यसङ्कुलेऽन्तः
सदसि युधिष्ठिरराजसूय एषाम् ।
अर्हणमुपपेद ईक्षणीयो
मम दृशिगोचर एष आविरात्मा ॥ 10 ॥
तमिममहमजं शरीरभाजां
हृदि हृदि धिष्टितमात्मकल्पितानाम् ।
प्रतिदृशमिव नैकधाऽर्कमेकं
समधिगतोऽस्मि विधूतभेदमोहः ॥ 11 ॥
इति श्रीमद्भागवते महापुराणे प्रथमस्कन्धे नवमोऽध्याये भीष्मकृत भगवत् स्तुतिः ।
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version. It is a transliteration, not a translation — see “Meaning” for translations where available.
🕉 InfoLyter.in