The Sanskrit (simple prose explanation) meaning of each verse is shown below the verse.
ॐ सर्वे देवाः देवीम् उपतस्थुः — का असि त्वं महादेवी इति। AI
मत्तः प्रकृतिपुरुषात्मक-ञ्जगत् ।
शून्य-ञ्चाशून्य-ञ्च ॥ 2 ॥
mattaḥ prakṛtipuruṣātmaka-ñjagat |
śūnya-ñcāśūnya-ñca || 2 ||
सा अब्रवीत् — अहं ब्रह्मस्वरूपिणी अस्मि। मत्तः प्रकृतिपुरुषात्मकं जगत् (भवति)। शून्यं च अशून्यं च (मत्तः भवति)। AI
अहं-विँज्ञानाविज्ञाने ।
अह-म्ब्रह्माब्रह्मणि वेदितव्ये ।
अह-म्पञ्चभूतान्यपञ्चभूतानि ।
अहमखिल-ञ्जगत् ॥ 3 ॥
ahaṃ-vi~jñānāvijñāne |
aha-mbrahmābrahmaṇi veditavye |
aha-mpañcabhūtānyapañcabhūtāni |
ahamakhila-ñjagat || 3 ||
अहम् आनन्दानानन्दौ (अस्मि)। अहं विज्ञानाविज्ञाने (अस्मि)। अहं ब्रह्म अब्रह्मणि वेदितव्ये (अस्मि)। अहं पञ्चभूतानि अपञ्चभूतानि (अस्मि)। अहम् अखिलं जगत् (अस्मि)। AI
विद्या-ऽहमविद्या-ऽहम् ।
अजा-ऽहमनजा-ऽहम् ।
अधश्चोर्ध्व-ञ्च तिर्यक्चाहम् ॥ 4 ॥
vidyā-'hamavidyā-'ham |
ajā-'hamanajā-'ham |
adhaścordhva-ñca tiryakcāham || 4 ||
वेदः अहम्, अवेदः अहम्। विद्या अहम्, अविद्या अहम्। अजा अहम्, अनजा अहम्। अधः च ऊर्ध्वं च तिर्यक् च अहम् (अस्मि)। AI
अहमादित्यैरुत विश्वदेवैः ।
अह-म्मित्रावरुणावुभौ बिभर्मि ।
अहमिन्द्राग्नी अहमश्विनावुभौ ॥ 5 ॥
ahamādityairuta viśvadevaiḥ |
aha-mmitrāvaruṇāvubhau bibharmi |
ahamindrāgnī ahamaśvināvubhau || 5 ||
अहं रुद्रेभिः वसुभिः च सह चरामि। अहम् आदित्यैः विश्वदेवैः च सह (चरामि)। अहं मित्रावरुणौ उभौ बिभर्मि। अहम् इन्द्राग्नी (बिभर्मि), अहम् अश्विनौ उभौ (बिभर्मि)। AI
अहं-विँष्णुमुरुक्रम-म्ब्रह्माणमुत प्रजापति-न्दधामि ॥ 6 ॥
ahaṃ-vi~ṣṇumurukrama-mbrahmāṇamuta prajāpati-ndadhāmi || 6 ||
अहं सोमं त्वष्टारं पूषणं भगं दधामि। अहं विष्णुम् उरुक्रमं ब्रह्माणम् उत प्रजापतिं दधामि। AI
अ॒हं राष्ट्री॑ स॒ङ्गम॑नी॒ वसू॑ना-ञ्चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम् ।
अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्वन्त-स्स॑मु॒द्रे ।
य एवं-वेँद । स देवीं सम्पदमाप्नोति ॥ 7 ॥
a॒haṃ rāṣṭrī̭ sa॒ṅgama̭nī॒ vasṷ̄nā-ñciki॒tuṣī̭ pratha॒mā ya॒jñiyā̭nām |
a॒haṃ sṷve pi॒tara̭masya mū॒rdhanmama॒ yoni̭ra॒psvanta-ssa̭mu॒dre |
ya evaṃ-ve~da | sa devīṃ sampadamāpnoti || 7 ||
अहं हविष्मते सुप्राव्ये यजमानाय सुन्वते द्रविणं दधामि। अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् (अस्मि)। अहं पितरम् अस्य मूर्धन् सुवे। मम योनिः अप्सु अन्तः समुद्रे (अस्ति)। यः एवं वेद, सः देवीं सम्पदम् आप्नोति। AI
नमो देव्यै महादेव्यै शिवायै सतत-न्नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणता-स्स्म ताम् ॥ 8 ॥
namo devyai mahādevyai śivāyai satata-nnamaḥ |
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatā-ssma tām || 8 ||
ते देवाः अब्रुवन् — देव्यै महादेव्यै शिवायै सततं नमः। प्रकृत्यै भद्रायै नमः। नियताः तां प्रणताः स्मः। AI
दु॒र्गा-न्दे॒वीं शर॑ण-म्प्रप॑द्यामहे-ऽसुरान्नाशयित्र्यै ते नमः ॥ 9 ॥
du॒rgā-nde॒vīṃ śara̭ṇa-mprapa̭dyāmahe-'surānnāśayitryai te namaḥ || 9 ||
सा नो॑ म॒न्द्रेष॒मूर्ज॒-न्दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥ 10 ॥
sā no̭ ma॒ndreṣa॒mūrja॒-nduhā̭nā dhe॒nurvāga॒smānupa॒ suṣṭu॒taitṷ || 10 ||
सरस्वतीमदिति-न्दक्षदुहितर-न्नमामः पावनां शिवाम् ॥ 11 ॥
sarasvatīmaditi-ndakṣaduhitara-nnamāmaḥ pāvanāṃ śivām || 11 ||
तन्नो देवी प्रचोदयात् ॥ 12 ॥
tanno devī pracodayāt || 12 ||
ता-न्देवा अन्वजायन्त भद्रा अमृतबन्धवः ॥ 13 ॥
tā-ndevā anvajāyanta bhadrā amṛtabandhavaḥ || 13 ||
र्गुहा हसा मातरिश्वाभ्रमिन्द्रः ।
पुनर्गुहा सकला मायया च
पुरूच्यैषा विश्वमातादिविद्योम् ॥ 14 ॥
rguhā hasā mātariśvābhramindraḥ |
punarguhā sakalā māyayā ca
purūcyaiṣā viśvamātādividyom || 14 ||
एषा विश्वमोहिनी ।
पाशाङ्कुशधनुर्बाणधरा ।
एषा श्रीमहाविद्या ।
य एवं-वेँद स शोक-न्तरति ॥ 15 ॥
eṣā viśvamohinī |
pāśāṅkuśadhanurbāṇadharā |
eṣā śrīmahāvidyā |
ya evaṃ-ve~da sa śoka-ntarati || 15 ||
सैषैकादश रुद्राः ।
सैषा द्वादशादित्याः ।
सैषा विश्वेदेवा-स्सोमपा असोमपाश्च ।
सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षा सिद्धाः ।
सैषा सत्त्वरजस्तमांसि ।
सैषा ब्रह्मविष्णुरुद्ररूपिणी ।
सैषा प्रजापतीन्द्रमनवः ।
सैषा ग्रहनक्षत्रज्योतींषि । कलाकाष्ठादिकालरूपिणी ।
तामह-म्प्रणौमि नित्यम् ।
पापापहारिणी-न्देवी-म्भुक्तिमुक्तिप्रदायिनीम् ।
अनन्तां-विँजयां शुद्धां शरण्यां शिवदां शिवाम् ॥ 17 ॥
saiṣaikādaśa rudrāḥ |
saiṣā dvādaśādityāḥ |
saiṣā viśvedevā-ssomapā asomapāśca |
saiṣā yātudhānā asurā rakṣāṃsi piśācā yakṣā siddhāḥ |
saiṣā sattvarajastamāṃsi |
saiṣā brahmaviṣṇurudrarūpiṇī |
saiṣā prajāpatīndramanavaḥ |
saiṣā grahanakṣatrajyotīṃṣi | kalākāṣṭhādikālarūpiṇī |
tāmaha-mpraṇaumi nityam |
pāpāpahāriṇī-ndevī-mbhuktimuktipradāyinīm |
anantāṃ-vi~jayāṃ śuddhāṃ śaraṇyāṃ śivadāṃ śivām || 17 ||
अर्धेन्दुलसित-न्देव्या बीजं सर्वार्थसाधकम् ॥ 18 ॥
ardhendulasita-ndevyā bījaṃ sarvārthasādhakam || 18 ||
ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥ 19 ॥
dhyāyanti paramānandamayā jñānāmburāśayaḥ || 19 ||
सूर्यो-ऽवामश्रोत्रबिन्दुसंयुँक्तष्टात्तृतीयकः ।
नारायणेन सम्मिश्रो वायुश्चाधरयुक्ततः ।
विच्चे नवार्णको-ऽर्ण-स्स्यान्महदानन्ददायकः ॥ 20 ॥
sūryo-'vāmaśrotrabindusaṃyu~ktaṣṭāttṛtīyakaḥ |
nārāyaṇena sammiśro vāyuścādharayuktataḥ |
vicce navārṇako-'rṇa-ssyānmahadānandadāyakaḥ || 20 ||
पाशाङ्कुशधरां सौम्यां-वँरदाभयहस्तकाम् ।
त्रिनेत्रां रक्तवसना-म्भक्तकामदुघा-म्भजे ॥ 21 ॥
pāśāṅkuśadharāṃ saumyāṃ-va~radābhayahastakām |
trinetrāṃ raktavasanā-mbhaktakāmadughā-mbhaje || 21 ||
महादुर्गप्रशमनी-म्महाकारुण्यरूपिणीम् ॥ 22 ॥
mahādurgapraśamanī-mmahākāruṇyarūpiṇīm || 22 ||
यस्या अन्तो न लभ्यते तस्मादुच्यते अनन्ता ।
यस्या लक्ष्य-न्नोपलक्ष्यते तस्मादुच्यते अलक्ष्या ।
यस्या जनन-न्नोपलभ्यते तस्मादुच्यते अजा ।
एकैव सर्वत्र वर्तते तस्मादुच्यते एका ।
एकैव विश्वरूपिणी तस्मादुच्यते नैका ।
अत एवोच्यते अज्ञेयानन्तालक्ष्याजैका नैकेति ॥ 23 ॥
yasyā anto na labhyate tasmāducyate anantā |
yasyā lakṣya-nnopalakṣyate tasmāducyate alakṣyā |
yasyā janana-nnopalabhyate tasmāducyate ajā |
ekaiva sarvatra vartate tasmāducyate ekā |
ekaiva viśvarūpiṇī tasmāducyate naikā |
ata evocyate ajñeyānantālakṣyājaikā naiketi || 23 ||
ज्ञानाना-ञ्चिन्मयातीता शून्यानां शून्यसाक्षिणी ।
यस्याः परतर-न्नास्ति सैषा दुर्गा प्रकीर्तिता ॥ 24 ॥
jñānānā-ñcinmayātītā śūnyānāṃ śūnyasākṣiṇī |
yasyāḥ paratara-nnāsti saiṣā durgā prakīrtitā || 24 ||
नमामि भवभीतो-ऽहं संसारार्णवतारिणीम् ॥ 25 ॥
namāmi bhavabhīto-'haṃ saṃsārārṇavatāriṇīm || 25 ||
इदमथर्वशीर्षमज्ञात्वा यो-ऽर्चां स्थापयति ।
शतलक्ष-म्प्रजप्त्वा-ऽपि सो-ऽर्चासिद्धि-न्न विन्दति ।
शतमष्टोत्तर-ञ्चास्य पुरश्चर्याविधि-स्स्मृतः ।
दशवार-म्पठेद्यस्तु सद्यः पापैः प्रमुच्यते ।
महादुर्गाणि तरति महादेव्याः प्रसादतः । 26 ॥
सायमधीयानो दिवसकृत-म्पाप-न्नाशयति ।
प्रातरधीयानो रात्रिकृत-म्पाप-न्नाशयति ।
साय-म्प्रातः प्रयुञ्जानो अपापो भवति ।
निशीथे तुरीयसन्ध्याया-ञ्जप्त्वा वाक्सिद्धिर्भवति ।
नूतनाया-म्प्रतिमाया-ञ्जप्त्वा देवतासान्निध्य-म्भवति ।
प्राणप्रतिष्ठाया-ञ्जप्त्वा प्राणाना-म्प्रतिष्ठा भवति ।
भौमाश्विन्या-म्महादेवीसन्निधौ जप्त्वा महामृत्यु-न्तरति ।
स महामृत्यु-न्तरति ।
य एवं-वेँद ।
इत्युपनिषत् ॥ 27 ॥
idamatharvaśīrṣamajñātvā yo-'rcāṃ sthāpayati |
śatalakṣa-mprajaptvā-'pi so-'rcāsiddhi-nna vindati |
śatamaṣṭottara-ñcāsya puraścaryāvidhi-ssmṛtaḥ |
daśavāra-mpaṭhedyastu sadyaḥ pāpaiḥ pramucyate |
mahādurgāṇi tarati mahādevyāḥ prasādataḥ | 26 ||
sāyamadhīyāno divasakṛta-mpāpa-nnāśayati |
prātaradhīyāno rātrikṛta-mpāpa-nnāśayati |
sāya-mprātaḥ prayuñjāno apāpo bhavati |
niśīthe turīyasandhyāyā-ñjaptvā vāksiddhirbhavati |
nūtanāyā-mpratimāyā-ñjaptvā devatāsānnidhya-mbhavati |
prāṇapratiṣṭhāyā-ñjaptvā prāṇānā-mpratiṣṭhā bhavati |
bhaumāśvinyā-mmahādevīsannidhau japtvā mahāmṛtyu-ntarati |
sa mahāmṛtyu-ntarati |
ya evaṃ-ve~da |
ityupaniṣat || 27 ||