Meaning —
⏳ The meaning of this text is being prepared (AI translation with an accuracy check). This usually takes a few minutes — this page will refresh when it is ready.
The meaning is ready. Show it.
The meaning could not be prepared right now.
A translation in is not yet available for this text.
The original text and transliteration are shown below.
Verse 1
व्यक्ताव्यक्तमिदं न किञ्चिदभवत्प्राक्प्राकृतप्रक्षये
मायायां गुणसाम्यरुद्धविकृतौ त्वय्यागतायां लयम् ।
नो मृत्युश्च तदाऽमृतं च समभून्नाह्नो न रात्रेः स्थिति-
स्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ॥1॥

vyaktāvyaktamidaṃ na kiñcidabhavatprākprākṛtaprakṣaye
māyāyāṃ guṇasāmyaruddhavikṛtau tvayyāgatāyāṃ layam |
no mṛtyuśca tadā'mṛtaṃ ca samabhūnnāhno na rātreḥ sthiti-
statraikastvamaśiṣyathāḥ kila parānandaprakāśātmanā ||1||

Verse 2
कालः कर्म गुणाश्च जीवनिवहा विश्वं च कार्यं विभो
चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः ।
तेषां नैव वदन्त्यसत्त्वमयि भोः शक्त्यात्मना तिष्ठतां
नो चेत् किं गगनप्रसूनसदृशां भूयो भवेत्सम्भवः ॥2॥

kālaḥ karma guṇāśca jīvanivahā viśvaṃ ca kāryaṃ vibho
cillīlāratimeyuṣi tvayi tadā nirlīnatāmāyayuḥ |
teṣāṃ naiva vadantyasattvamayi bhoḥ śaktyātmanā tiṣṭhatāṃ
no cet kiṃ gaganaprasūnasadṛśāṃ bhūyo bhavetsambhavaḥ ||2||

Verse 3
एवं च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां
बिभ्राणे त्वयि चुक्षुभे त्रिभुवनीभावाय माया स्वयम् ।
मायातः खलु कालशक्तिरखिलादृष्टं स्वभावोऽपि च
प्रादुर्भूय गुणान्विकास्य विदधुस्तस्यास्सहायक्रियाम् ॥3॥

evaṃ ca dviparārdhakālavigatāvīkṣāṃ sisṛkṣātmikāṃ
bibhrāṇe tvayi cukṣubhe tribhuvanībhāvāya māyā svayam |
māyātaḥ khalu kālaśaktirakhilādṛṣṭaṃ svabhāvo'pi ca
prādurbhūya guṇānvikāsya vidadhustasyāssahāyakriyām ||3||

Verse 4
मायासन्निहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान्
भेदैस्तां प्रतिबिम्बतो विविशिवान् जीवोऽपि नैवापरः ।
कालादिप्रतिबोधिताऽथ भवता सञ्चोदिता च स्वयं
माया सा खलु बुद्धितत्त्वमसृजद्योऽसौ महानुच्यते ॥4॥

māyāsannihito'praviṣṭavapuṣā sākṣīti gīto bhavān
bhedaistāṃ pratibimbato viviśivān jīvo'pi naivāparaḥ |
kālādipratibodhitā'tha bhavatā sañcoditā ca svayaṃ
māyā sā khalu buddhitattvamasṛjadyo'sau mahānucyate ||4||

Verse 5
तत्रासौ त्रिगुणात्मकोऽपि च महान् सत्त्वप्रधानः स्वयं
जीवेऽस्मिन् खलु निर्विकल्पमहमित्युद्बोधनिष्पाद्कः ।
चक्रेऽस्मिन् सविकल्पबोधकमहन्तत्त्वं महान् खल्वसौ
सम्पुष्टं त्रिगुणैस्तमोऽतिबहुलं विष्णो भवत्प्रेरणात् ॥5॥

tatrāsau triguṇātmako'pi ca mahān sattvapradhānaḥ svayaṃ
jīve'smin khalu nirvikalpamahamityudbodhaniṣpādkaḥ |
cakre'smin savikalpabodhakamahantattvaṃ mahān khalvasau
sampuṣṭaṃ triguṇaistamo'tibahulaṃ viṣṇo bhavatpreraṇāt ||5||

Verse 6
सोऽहं च त्रिगुणक्रमात् त्रिविधतामासाद्य वैकारिको
भूयस्तैजसतामसाविति भवन्नाद्येन सत्त्वात्मना
देवानिन्द्रियमानिनोऽकृत दिशावातार्कपाश्यश्विनो
वह्नीन्द्राच्युतमित्रकान् विधुविधिश्रीरुद्रशारीरकान् ॥6॥

so'haṃ ca triguṇakramāt trividhatāmāsādya vaikāriko
bhūyastaijasatāmasāviti bhavannādyena sattvātmanā
devānindriyamānino'kṛta diśāvātārkapāśyaśvino
vahnīndrācyutamitrakān vidhuvidhiśrīrudraśārīrakān ||6||

Verse 7
भूमन् मानसबुद्ध्यहङ्कृतिमिलच्चित्ताख्यवृत्त्यन्वितं
तच्चान्तःकरणं विभो तव बलात् सत्त्वांश एवासृजत् ।
जातस्तैजसतो दशेन्द्रियगणस्तत्तामसांशात्पुन-
स्तन्मात्रं नभसो मरुत्पुरपते शब्दोऽजनि त्वद्बलात् ॥7॥

bhūman mānasabuddhyahaṅkṛtimilaccittākhyavṛttyanvitaṃ
taccāntaḥkaraṇaṃ vibho tava balāt sattvāṃśa evāsṛjat |
jātastaijasato daśendriyagaṇastattāmasāṃśātpuna-
stanmātraṃ nabhaso marutpurapate śabdo'jani tvadbalāt ||7||

Verse 8
श्ब्दाद्व्योम ततः ससर्जिथ विभो स्पर्शं ततो मारुतं
तस्माद्रूपमतो महोऽथ च रसं तोयं च गन्धं महीम् ।
एवं माधव पूर्वपूर्वकलनादाद्याद्यधर्मान्वितं
भूतग्राममिमं त्वमेव भगवन् प्राकाशयस्तामसात् ॥8॥

śbdādvyoma tataḥ sasarjitha vibho sparśaṃ tato mārutaṃ
tasmādrūpamato maho'tha ca rasaṃ toyaṃ ca gandhaṃ mahīm |
evaṃ mādhava pūrvapūrvakalanādādyādyadharmānvitaṃ
bhūtagrāmamimaṃ tvameva bhagavan prākāśayastāmasāt ||8||

Verse 9
एते भूतगणास्तथेन्द्रियगणा देवाश्च जाताः पृथङ्-
नो शेकुर्भुवनाण्डनिर्मितिविधौ देवैरमीभिस्तदा ।
त्वं नानाविधसूक्तिभिर्नुतगुणस्तत्त्वान्यमून्याविशं-
श्चेष्टाशक्तिमुदीर्य तानि घटयन् हैरण्यमण्डं व्यधाः ॥9॥

ete bhūtagaṇāstathendriyagaṇā devāśca jātāḥ pṛthaṅ-
no śekurbhuvanāṇḍanirmitividhau devairamībhistadā |
tvaṃ nānāvidhasūktibhirnutaguṇastattvānyamūnyāviśaṃ-
śceṣṭāśaktimudīrya tāni ghaṭayan hairaṇyamaṇḍaṃ vyadhāḥ ||9||

Verse 10
अण्डं तत्खलु पूर्वसृष्टसलिलेऽतिष्ठत् सहस्रं समाः
निर्भिन्दन्नकृथाश्चतुर्दशजगद्रूपं विराडाह्वयम् ।
साहस्रैः करपादमूर्धनिवहैर्निश्शेषजीवात्मको
निर्भातोऽसि मरुत्पुराधिप स मां त्रायस्व सर्वामयात् ॥10॥

aṇḍaṃ tatkhalu pūrvasṛṣṭasalile'tiṣṭhat sahasraṃ samāḥ
nirbhindannakṛthāścaturdaśajagadrūpaṃ virāḍāhvayam |
sāhasraiḥ karapādamūrdhanivahairniśśeṣajīvātmako
nirbhāto'si marutpurādhipa sa māṃ trāyasva sarvāmayāt ||10||

Sanskrit — Devanagari (original)
व्यक्ताव्यक्तमिदं न किञ्चिदभवत्प्राक्प्राकृतप्रक्षये
मायायां गुणसाम्यरुद्धविकृतौ त्वय्यागतायां लयम् ।
नो मृत्युश्च तदाऽमृतं च समभून्नाह्नो न रात्रेः स्थिति-
स्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ॥1॥
कालः कर्म गुणाश्च जीवनिवहा विश्वं च कार्यं विभो
चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः ।
तेषां नैव वदन्त्यसत्त्वमयि भोः शक्त्यात्मना तिष्ठतां
नो चेत् किं गगनप्रसूनसदृशां भूयो भवेत्सम्भवः ॥2॥
एवं च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां
बिभ्राणे त्वयि चुक्षुभे त्रिभुवनीभावाय माया स्वयम् ।
मायातः खलु कालशक्तिरखिलादृष्टं स्वभावोऽपि च
प्रादुर्भूय गुणान्विकास्य विदधुस्तस्यास्सहायक्रियाम् ॥3॥
मायासन्निहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान्
भेदैस्तां प्रतिबिम्बतो विविशिवान् जीवोऽपि नैवापरः ।
कालादिप्रतिबोधिताऽथ भवता सञ्चोदिता च स्वयं
माया सा खलु बुद्धितत्त्वमसृजद्योऽसौ महानुच्यते ॥4॥
तत्रासौ त्रिगुणात्मकोऽपि च महान् सत्त्वप्रधानः स्वयं
जीवेऽस्मिन् खलु निर्विकल्पमहमित्युद्बोधनिष्पाद्कः ।
चक्रेऽस्मिन् सविकल्पबोधकमहन्तत्त्वं महान् खल्वसौ
सम्पुष्टं त्रिगुणैस्तमोऽतिबहुलं विष्णो भवत्प्रेरणात् ॥5॥
सोऽहं च त्रिगुणक्रमात् त्रिविधतामासाद्य वैकारिको
भूयस्तैजसतामसाविति भवन्नाद्येन सत्त्वात्मना
देवानिन्द्रियमानिनोऽकृत दिशावातार्कपाश्यश्विनो
वह्नीन्द्राच्युतमित्रकान् विधुविधिश्रीरुद्रशारीरकान् ॥6॥
भूमन् मानसबुद्ध्यहङ्कृतिमिलच्चित्ताख्यवृत्त्यन्वितं
तच्चान्तःकरणं विभो तव बलात् सत्त्वांश एवासृजत् ।
जातस्तैजसतो दशेन्द्रियगणस्तत्तामसांशात्पुन-
स्तन्मात्रं नभसो मरुत्पुरपते शब्दोऽजनि त्वद्बलात् ॥7॥
श्ब्दाद्व्योम ततः ससर्जिथ विभो स्पर्शं ततो मारुतं
तस्माद्रूपमतो महोऽथ च रसं तोयं च गन्धं महीम् ।
एवं माधव पूर्वपूर्वकलनादाद्याद्यधर्मान्वितं
भूतग्राममिमं त्वमेव भगवन् प्राकाशयस्तामसात् ॥8॥
एते भूतगणास्तथेन्द्रियगणा देवाश्च जाताः पृथङ्-
नो शेकुर्भुवनाण्डनिर्मितिविधौ देवैरमीभिस्तदा ।
त्वं नानाविधसूक्तिभिर्नुतगुणस्तत्त्वान्यमून्याविशं-
श्चेष्टाशक्तिमुदीर्य तानि घटयन् हैरण्यमण्डं व्यधाः ॥9॥
अण्डं तत्खलु पूर्वसृष्टसलिलेऽतिष्ठत् सहस्रं समाः
निर्भिन्दन्नकृथाश्चतुर्दशजगद्रूपं विराडाह्वयम् ।
साहस्रैः करपादमूर्धनिवहैर्निश्शेषजीवात्मको
निर्भातोऽसि मरुत्पुराधिप स मां त्रायस्व सर्वामयात् ॥10॥
🕉️ This is the original Sanskrit rendered in Devanagari script. Pronunciation is identical to the Sanskrit Devanagari version.
It is a transliteration, not a translation — see “Meaning” for translations where available.